भीष्मपर्व

अध्यायः ६८

Bhishma Parva (Sanskrit) · Adhyaya 68
अक्षर का आकार

भीष्म उवाच।

स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत।
ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ।।

साध्यानामपि देवानां देवदेवेश्वरः प्रभुः ।
लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ।।

भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह।
यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि ।।

देवानामपि देवं च त्वामाह भगवान्भृगुः ।
पुराणां चैव परमं विष्णो रूपं तवेति च ।।

वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा।
देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ।।

पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम्।
स्रष्टारं सर्वभूतानामङ्गिरास्त्वां तथाऽब्रवीत् ।।

अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् ।
देवास्त्वत्संभवाश्चैव देवलस्त्वसितोऽब्रवीत् ।।

शिरसा ते दिव्यं व्याप्तं बाहुभ्यां पृथिवी तथा ।
जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ।।

एवं त्वामभिजानन्ति तपसा भाविता नराः।
आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः ।।

राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ।।

इति नित्यं योगविर्द्भिर्भगवान्पुरुषोत्तमः।
सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः ।।

एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः ।
केशवस्य यथा तत्त्वं सुप्रीतो भज केशवम् ।।

सञ्जय उवाच।

पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव।
केशवं बहुमेने स पाण्डवांश्च महारथान् ।।

तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः ।
माहात्म्यं ते श्रुतं राजन्केशवस्य महात्कमनः ।।

नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप।
यदर्थं नृषु संभूतौ नरानारायणावृषी ।।

अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ ।
यथा च पाण्डवा राजन्नवध्या युधि कस्यचित् ।।

प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु ।
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ।।

पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी ।
नरानारायणौ देवाववज्ञाय नशिष्यसि ।।

एवमुक्त्वा तव पिता तूष्णीमासीद्विशांपते ।
व्यसर्जयच्च राजानं शयनं च विवेश ह ।।

राजा च शिबिरं प्रायात्प्रणिपत्य महात्मने ।
शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि
भीष्मवधपर्वणि अष्टषष्टितमोऽध्यायः ।।

।। विश्वोपाख्यानं समाप्तम् ।।