भीष्मपर्व

अध्यायः ६५

Bhishma Parva (Sanskrit) · Adhyaya 65
अक्षर का आकार

धृतराष्ट्र उवाच।

भयं मे सुमहञ्जातं विस्मयश्चैव सञ्जय।
श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ।।

पुत्राणां च पराभावं श्रुत्वा सञ्जय सर्वशः।
चिन्ता मे महती सूत भविष्यति कथं त्विति ।।

ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम।
तथा हि दृश्यते सर्वं दैवयोगेन सञ्जय ।।

यत्र भीष्ममुखान्सर्वाञ्शस्त्रज्ञान्योधसत्तमान्।
पाण्डवानामनीकेषु योधयन्ति प्रहारिणः ।।

केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः ।
केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ।।

येन क्षयं न गच्छन्ति दिवि तारागणा इव।
पुनःपुनर्न मृष्यामि हतं सैन्यं तु पाण्डवैः ।।

मय्येव दण्डः पतति दैवात्परमदारुणः।
यथाऽवध्याः पाण्डुसुता यथा वाध्याश्च मे सुताः ।।

एतन्मे सर्वमाचक्ष्व याथातथ्येन सञ्जय ।
न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन।।

समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः ।
पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् ।।

घातयिष्यति मे स्रवान्पुत्रान्भीमो न शंसयः।
न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे ।।

ध्रुवं विनाशः संप्राप्तः पुत्रामां मम सञ्जय।
तस्मान्मे कारणं सूत शक्तिं चैव विशेषतः ।।

पृच्छतो वै यथातत्त्वं सर्वमाख्यातुमर्हसि।
दुर्योधनश्च यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे ।।

भीष्मद्रोणौ कृपश्चैव सौबलश्च जयद्रथः ।
द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ।।

निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मानाम् ।
विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय ।।

सञ्जय उवाच।

श्रृणु राजन्नवहितः श्रुत्वा चैवावधारय।
नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम् ।।

न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः ।
युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे ।।

धर्मेण सर्वकार्याणि जीवितादीनि भारत।
आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः।।

न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः ।
श्रिया परमया युक्ता यतो धर्मस्ततो जयः ।।

तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव ।
तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा ।।

निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे।
सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वरे ।।

निकृतानीह पाण्डूनां नीचैरिव यथा नरैः ।
सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् ।।

धर्ममूलाः सदैवासन्पाण्डवाः पाण्डुपूर्वज।
न चैतान्बहुमन्यन्ते पुत्रास्तव विशांपते ।

तस्य पापस्य सततं क्रियमाणस्य कर्मणः।
सांप्रतं सुमहद्धोरं फलं प्राप्तं जनेश्वर ।।

स त्वं भुङ्क्ष्व महाराज सपुत्रः समुहृञ्जनः।
नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः ।।

विदुरेणाथ भीष्मेण द्रोणेन न महात्मना।
तथा मया चाप्यसकृद्वार्यमाणो न बुध्यसे ।।

वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् ।
पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ।।

शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि।
कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ।।

तत्तेऽहं कथयिष्यामि यथाश्रुतमरिन्दम।
दुर्योधनेन संपृष्ट एतमर्थं पितामहः ।।

दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितांस्तु महारथान् ।
शोकसंमूढहृदयो निशाकाले स्म कौरवः ।।

पितामहं महाप्राज्ञं विनयोपगम्य ह।
यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ।।

दुर्योधन उवाच।

भवान्द्रोणश्च कर्णश्च कृपो द्रौणिस्तथैव च।
कृतवर्मा च हार्दिक्यः काम्भोजश्च सुदक्षिणः ।।

भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् ।
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ।।

त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः।
पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ।।

तत्र मे संशयो जातस्तत्त्वमाचक्ष्व पृच्छतः।
यं समाश्रित्य कौन्तेय जयन्त्यस्मान्क्षणेक्षणे ।।

भीष्म उवाच।

शृणु राजन्वचो मह्यं यथा वक्ष्यामि कौरव।
बहुशश्च मयोक्तोऽसि न च मे तत्त्वया कृतम् ।।

क्रियतां पाण्डवैः सार्ध समो भरतसत्तम।
एतत्क्षेममहं मन्ये पृथिव्यास्तव वा विभो ।।

भुङ्क्ष्वेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी।
दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ।।

न च मे क्रोशतस्तात श्रुतवानसि वै पुरा।
तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ।।

यश्च हेतुरवध्यत्वे तेकषामक्लिष्टकर्मणाम्।
तं शृणुष्व महाबाहो मम कीर्तयतः प्रभो ।।

नास्ति लोकेषु तद्भूतं भविता नो भविष्यति।
यो जयेत्पाण्डवान्सर्वान्पालिताञ्छार्ङ्गधन्वना ।।

यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः।
पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ।।

पुरा किल सुराः सर्वे ऋषयश्च समागताः ।
पितामहमुपासेदुः पर्वत गन्धमादने ।।

तेषां मध्ये समासीनः प्रजापतिरपश्यत ।
विमानं प्रज्वलद्भासा स्थितं प्रवरमम्बरे ।।

ध्यानेनावेद्य तद्ब्रह्मा कृत्वा च नियतोऽञ्जलिम् ।
नमश्चकार हृष्टात्मा पुरुषं परमेश्वरम् ।।

ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् ।
स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ।।

यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः ।
जगाद जगतः स्रष्टा परं परमधर्मवित् ।।

विश्वावसुर्विश्वमूर्तिर्हि विश्वे
विष्वक्सेनो विश्वकर्मा वशी च।
विश्वेश्वरो वासुदेवोऽसि तस्मा-
द्योगात्मानं देवतं त्वामुपैमि ।।

जय विश्वमहादेव जय लोकहिते रत।
जय योगीश्वर विभो जय योगपरावर ।।

पद्मगर्भविशालाक्ष जय लोकेश्वरेश्वर।
भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ।।

असङ्क्येयगुणाधार जय सर्वपरायण।
नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ।।

जय सर्वगुणोपेत विश्वमूर्ते निरामय।
विश्वेश्वर महाबाहो जय लोकार्थतत्पर ।।

महोरगवराहाद्य हरिकेश विभो जय।
हरिवासदिशामीश विश्ववासामिताव्यय ।।

व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सत्त्क्रिय ।
असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद ।।

अनन्त विदित ब्रह्मन्नित्यभूतविभावन ।
कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह ।।

गुह्यात्मन्सर्वयोगात्मन्स्फुटसंभूतसंभव।
भूताद्य लोकत्त्वेश जय भूतविभावन ।।

आत्मयोगे महाभाग कल्पसंक्षेपतत्पर ।
उद्भावनमनोभाव जय ब्रह्म जयप्रिय ।।

निसर्गसर्गनिरत कामेश परमेश्वर ।
अमृतोद्भवसद्भाव मुक्तात्मन्विजयप्रद ।।

प्रजापतिपते देव पद्मनाभ महाबल।
आत्मभूतमहाभूत सत्वात्मञ्जय सर्वदा ।।

पादौ तव धा देवी दिशो बाहु दिवं शिरः।
मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ।।

बलं तपश्च सत्यं च कर्म धर्मात्मकं तव।
तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः ।।

अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती।
वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ।।

न सङ्ख्यानं परीमाणं न तेजो न पराक्रमम् ।
न बलं योगयोगीश जानीमस्ते परंतप ।।

त्वद्भक्तिनिरता देव नियमैस्त्वां समाश्रिताः।
अर्चयामः सदा विष्णो परमेशं महेश्वरम् ।।

ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः।
पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ।।

एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् ।
पद्मनाभ विशालाक्ष कृष्ण दुःश्वप्रणाशन ।।

त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगद्गुरुः ।
त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ।।

पृथिवी निर्भया देव त्वत्प्रसादात्सदाऽभवत् ।
तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ।।

धर्मसंस्थापनार्थाय दैत्यानां च बधाय च।
जगतो धारणार्थाय विज्ञाप्यं कुरु मे विभो ।।

यत्तत्परमकं गुह्यं त्वत्प्रसादादिदं विभो।
वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ।।

सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना।
कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् ।।

प्रद्युम्नादनिरुद्धं त्वं यं विदुर्विष्णुमव्ययम्।
अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम्।।

वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः।
तस्माद्याचामि लोकेश चतुरात्मानमात्मना।
विभज्य भागशोत्मानं व्रज मानुषतां विभो ।।

तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै।
धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यति तत्त्वतः ।।

त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम ।
तैस्तैर्हि नामभिर्युक्ता गायन्ति परमात्मकम् ।।

स्थिताश्च सर्वे त्वयि भूतसङ्घाः
कृत्वाश्रयं त्वां वरदं सुबाहो।
अनादिमध्यान्तमपारयोगं
लोकस्य सेतुं प्रवदन्ति विप्राः ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि
भीष्मवधपर्वणि पञ्चषष्टितमोऽध्यायः ।।