भीष्मपर्व

अध्यायः ६६

Bhishma Parva (Sanskrit) · Adhyaya 66
अक्षर का आकार

भीष्म उवाच।

ततः स भगवान्देवो लोकानामीश्वरेश्वरः।
ब्रह्माणं प्रत्युवाचेदं स्रिग्धगम्भीरया गिरा ।।

विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् ।
तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ।।

ततो देवर्षिगन्धर्वा विस्मयं परमं गताः ।
कौतूहलपराः सर्वे पितामहमथाब्रुवन् ।।

कोन्वयं यो भगवता प्रणम्य विनयाद्विभो ।
वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ।।

एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः ।
देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ।।

यत्तत्परं भविष्यं च भवितव्यं च यत्परम् ।
भूतात्मा च प्रभुश्चैव ब्रह्म यच्च परं पदम् ।।

तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः ।
जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः ।

मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः ।
अस्रुराणां वधार्थाय संभवस्व महीतले ।।

संग्रामे निहता ये ते दैत्यदानवराक्षसाः ।
त इमे नृषु संभूता घोररूपा महाबलाः ।।

तेषां वधार्थं भगवान्नरेण सहितो वशी ।
मानुषीं योनिमास्थाय चरिष्यति महीतले ।।

नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।
सहितो मानुषे लोके संभूतावमितद्युती ।।

अजेयौ समरे यत्तौ सहितैरमरैरपि ।
मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ।।

तस्याहमग्रजः पुत्रः सर्वस्य जगतः प्रभुः ।
वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ।।

तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः ।
नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ।।

एतत्परमकं गुह्यमेतत्परमकं पदम् ।
एतत्परमकं ब्रह्म एतत्परमकं यशः ।।

एतदक्षरमव्यक्तमेतद्वै शाश्वतं महः ।
यत्तत्पुरुषसंज्ञं वै गीयते ज्ञायते न च ।।

एतत्परमकं तेज एतत्परमकं सुखम्।
एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ।।

तस्मात्सेन्द्रैः सुरैः सर्वैर्लोकैश्चामितविक्रमःक ।
नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ।।

यश्च मानुषमात्रोऽयमिति ब्रूयात्स मन्दधीः ।
हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ।।

योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् ।
अवमन्येद्वासुदेवं तमाहुस्तमसं जनाः ।।

देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम्।
पद्मनाभं न जानाति तमाहुस्तामसं बुधाः ।।

किरीटकौस्तुभधरं मित्राणामभयंकरम्।
अवजानन्महात्मानं घोरे तमसि मञ्जति ।।

एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः ।
वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः ।
तस्यामहात्माजो ब्रह्मा सर्वस्य जगतः पतिः ।।

भीष्म उवाच।

एवमुक्त्वा स भगवान्देवान्सर्षिगकणान्पुरा।
विसृज्य सर्वभूतानि जगाम भवनं स्वकम् ।।

ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च।
कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ।।

एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम्।
वासुदेवं कथयतां समवाये पुरातनम् ।।

रामस्य जामदग्न्यस्य मार्कण्डेयस्य धीमतः ।
व्यासनारदयोश्चापि सकाशाद्भरतर्षभ ।।

एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् ।
वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ।।

यस्य चैवात्मजो ब्रह्मा सर्वस्य जगतः पिता ।
कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ।।

वारितोऽसि मया तात मुनिर्भिर्वेदपारगैः ।
मा गच्छ संयुगं तेन वासुदेवेन धन्विना ।।

मा पाण्डवैः सार्धमिति तत्त्वं मोहान्न बुध्यसे।
मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः ।।

यस्माद्द्विषसि गोविन्दं पाण्डवं तं धनञ्जयम् ।
नरनारायणौ देवी कोऽन्यो द्विष्याद्धि मानवः ।।

तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः ।
सर्कवलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ।।

यो धारयति लोकांस्त्रींश्चराचरगुरुः प्रभुः ।
योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ।।

राजन्सर्वमयो ह्येष तमोरागविवर्जितः ।
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ।।

तस्य माहात्म्ययोगेन योगेनात्ममयेन च ।
धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ।।

श्रेयोयुक्तां सदा बुद्धिं पाण्‍डवानां दधाति यः।
बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ।।

स एष शाश्वतो देवाः सर्वगुह्यमयः शिवः ।
वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ।।

ब्राह्मणैः क्षत्रिकयैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिःक ।।

द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च।
सात्वतं विधिमास्थाय गीतः संकर्षणेन वै ।।

स एष सर्वं सुरमर्त्यलोकं
समुद्रकक्ष्यान्तरितां पुरीं च।
युगेयुगे मानुषं चैव वासं
पुनःपुनः सृजते वासुदेवाःक ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि
भीष्मवधपर्वणि षट्षष्टितमोऽध्यायः ।।