भीष्मपर्व

अध्यायः ६४

Bhishma Parva (Sanskrit) · Adhyaya 64
अक्षर का आकार

ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः।
प्राविध्यद्भृशसंक्रुद्धस्तोत्रैरिव महाद्विपम् ।।

कौरवं सात्यकिश्चैव शरैः सन्नतपर्वभिः।
अवारयदमेयात्मा सर्वलोकस्य पश्यतः।।

ततो दुर्योधनो राजा सोदर्यैः परिवारितः।
सोमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ।।

तं चैव पाण्डवाः सर्वे सात्यकिं रभसं रणे।
परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ।।

भीमसेनस्तु संक्रुद्धो गजामुद्यम्य भारत ।
दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ।।

रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः ।
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ।।

विव्याध विशिखैः षड्भिः कङ्कपत्रैः शिलाशितैः ।
दुर्योधनस्तदा राजन्भीमसेनं महारथम् ।।

आजघानोरसि क्रुद्धो मार्गणैर्नवभिः शितैः ।
ततो भीमो महाबाहुः स्वरथं सुमहाबलः ।।

आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ।
एते महारथाः शूरा धार्तराष्ट्राः समागताः ।।

मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि।
मनोरथद्रुमोऽस्माकं चिन्तितो बहुवार्षिकः ।।

सफलः सूत चाद्येह योऽहं पश्यामि सोदरान्।
यत्राशोकसमुत्क्षिप्ता रेणवो रथनेमिभिः ।।

प्रयास्यन्त्यन्तरिक्षं हि शरबृन्दैर्दिगन्तरे ।
तत्र तिष्ठति सन्नद्धः स्वयं राजा सुयोधनः ।।

भ्रातरश्चास्य सन्नद्धाः कुलपुत्रा मदोत्कटाः ।
एतानद्य हनिष्यामि पश्यतस्ते न संशयः ।।

तस्मान्ममाश्वान्संग्रमे यत्तः संयच्छ सारथे।
एवमुक्त्वा ततः पार्थस्तव पुत्रं विशांपते ।।

विव्याध निशितैस्तीक्ष्णैः शरैः कनकभूषणैः।
नन्दकं च त्रिभिर्भाणैरभ्यविध्यत्स्तनान्तरे ।।

तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम्।
त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ।।

भिमस्य च रणे राजन्धनुश्चिच्छेद भासुरम् ।
मुष्टिदेशे भृशं तीक्ष्णौस्त्रिभिर्भल्लैर्हसन्निव ।।

समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः ।
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ।।

अमृष्यमाणः संरब्धो धनुर्दिव्यं परामृशम् ।
पुत्रस्य ते महाराज वधार्थं भरतर्षभ ।।

समादधत्सुसंक्रुद्धः क्षुरप्रं रोमवाहिनम् ।
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ।।

सोऽपविद्ध्य धनुश्छिन्नं पुत्रस्ते क्रोधमूर्च्छितः ।
अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ।।

संदधे विशिखं घोर कालमृत्युसमप्रभम् ।
तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे ।।

स गाढविद्धो व्यथितः स्यान्दनोपस्थ आविशत्।
स निषण्णो रथोपस्थे मूर्च्छामभिजगाम ह ।।

तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः ।
नामृष्यन्त महेष्वासाः पाण्डवानां महारथः ।।

ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् ।
पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ।।

प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ।।

शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः।
रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ।।

प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश ।
सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ।।

उद्रो भीमरथो भीमो वीरबाहुरलोलुपः ।
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ।।

विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः ।
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ।।

पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः ।
सृक्किणी विलिहन्वीरः पशुमध्ये यथा वृकः ।।

अभिपत्य महाबाहुर्गरुत्मानिव वेगितः।
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ।।

संप्रहस्य च हृष्टात्मा त्रिभिर्बाणैर्महाभुजः ।
जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् ।।

सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे।
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि ।।

पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्।
वीरबाहुं च सप्तत्या साश्वकेतुं ससारथिम् ।।

निनाय समरे वीरः परलोकाय पाण्डवः।
भीमं भीमरथं चोभौ भीमसेनो हसन्निव ।।

पुत्रौ ते दुर्मदौ राजन्ननयद्यमसादनम् ।
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे ।।

मिषतां सर्वसैन्यानामनयद्यमसादनम्।
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् ।।

शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः।
विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ।।

ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान्।
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ।।

यथा प्राग्र्यान्यथा ज्येष्ठान्यथा शूरांश्च संगतान्।
निपातयत्युग्रधन्वा तं प्रगृह्णीत माचिरम् ।।

एवमुक्त्वा ततः सर्वे धार्तराष्ट्रस्य सैनिकाः।
अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम् ।।

भगदत्तः प्रभिन्नेन कुञ्जरेण विशांपते ।
अभ्ययात्सहसा तत्रयत्र भीमो व्यवस्थितः ।।

आपतन्नेव च रणे भीमसेनं शिलीमुखैः ।
अदृश्यं समरे चक्रे जीमूत इव भास्करम् ।।

अभिमन्युमुखास्तत्तु नामृष्यन्त महारथाः ।
भीमस्याच्छादनं शङ्ख्ये स्वबाहुबलमाश्रिताः ।।

त एनं शरवर्षेण समन्तात्पर्यवारयन् ।
गजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः ।।

स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः।
प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ।।

संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे।
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ।।

संचोदितो मदस्रावी भगदत्तेन वारणः।
अभ्यधावत तन्सर्वान्कालोत्सृष्ट इवान्तकः ।।

द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम्।
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः ।।

असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन् ।
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे ।।

आजघान महाराज शरेणानतपर्वणा।
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः ।

मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत्।
तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्च्छितम् ।।

ननाद बलवन्नादं भगदत्तः प्रतापवान्।
ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथाऽऽगतं ।।

संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत।
स कृत्वा दारुणां मायां भूरूणां भयवर्धिनीम् ।।

अदृश्यत निमेषार्धाद्धोररूपं समास्थितः।
ऐरावतं समारूढः स वै मायाकृतं स्वयम् ।।

तस्य चान्येऽपि दिङ्वागा बभूवुरनुयायिनः।
अञ्जनो वमानश्चैव महापद्मश्च सुप्रभः ।।

त्रय एते महानागा राक्षसैः समधिष्ठिताः।
महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु ।।

तेजोवीर्यबलोपेता महाबलपराक्रमाः।
घटोत्कचस्तु स्वं नागं चोदयामास तं तदा ।।

सगजं भगदत्तं तु हन्तुकामः परंतपः।
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः ।।

परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम्।
भगदत्तस्य तं नागं विषाणैरभ्यपीडयन् ।।

स पीड्यमानस्तैर्नागैर्वेदनार्तः शराहतः।
अनदत्सुमहानादमिन्द्राशनिसमस्वनम् ।।

`व्यवर्तत महाघोषो भैमसेनिशरार्दितः ।
मृदित्वा सर्वसैन्यानि तव पुत्रस्य भारत'।।

तस्य तं नदतो नादं सुघोरं भीमनिःश्वनम् ।
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ।।

एष युध्यति संग्रामे हैडिम्बेन दुरात्मना।
भगदत्तो महेष्वासः कृच्छ्रे च परिवर्तते ।।

राक्षसश्च महामायः स च राजाऽतिकोपनः ।
एतौ समेतौ समरे कालमृत्युसमावुभौ ।।

श्रीयते चैव हृष्टानां पाण्डवानां महास्वनः ।
हस्तिनश्चैव सुमहान्भीतस्य रुदितध्वनिः ।।

तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् ।
अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यति ।।

ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे ।
महान्हि वर्तते रौद्रः संग्रामो रोमहर्षणः ।।

भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः।
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत ।।

भीष्मस्य तद्वचः श्रुत्वा सर्व एव महारथाः ।
द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया ।।

उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत्।
तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः ।।

पञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान्।
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् ।।

ननाद सुमहानादं विस्फोटमशनेरिव ।
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः ।।

भीष्मः शान्तनवो भूयो भारद्वाजमभाषत ।
न रोचते मे संग्रामो हैडिम्बेन दुरात्मना ।।

बलवीर्यमसाविष्टः ससहायश्च सांप्रतज् ।
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् ।।

लब्धलक्षः प्रहारी च वयं च श्रान्तवाहनाः।
पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ।।

इदानीं युधि निर्जेतुं न शक्योऽसौ स राक्षसः ।
अस्तमभ्येति सविता रात्रौ योद्धुं कन शक्यते।
अवहारमतः कुर्मः श्वो योत्स्यामः परै सह ।।

पितामहवचः श्रुत्वा यथा चक्रुःस्म कौरवाः ।
उपायेनापयानं ते घटोत्कचभयार्दिताः ।।

कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः।
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च भारत ।।

एवं तदभवद्युद्धं दिवसं भरतर्षभ ।
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ।।

कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम्।
व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ।।

शरविक्षतगात्रास्तु पाण्डपपुत्रा महारथाः।
युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति ।।

पुरस्कृत्य महाराज भीमसेनघटोत्कचौ।
पूजयन्तस्तदान्योन्यं मुदा परमया युताः ।।

नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् ।
सिंहनादांश्च कुर्वन्तो विमिश्राञ्शङ्खनिः स्वनैः ।।

विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् ।
घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष ।

प्रयाताः शिबिरायैव निशाकाले परंतप ।
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च ।।

मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः।
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि ।
प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
चतुर्थदिवसयुद्धे चतुःषष्टितमोऽध्यायः ।।

।। इति चतुर्थदिवसयुद्धं समाप्तम् ।।