भीष्मपर्व
अध्यायः ६३
सञ्जय उवाच।
हते तस्मिन्गजानीके पुत्रो दुर्योधनस्तव।
भीमसेनं ध्नतेत्येवं सर्वसैन्यान्यचोदयत् ।।
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्।
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ।।
तं बलौघमपर्यन्तं देवैरपि सुदुःसहम् ।
आपतन्तं सुदुष्पारं समुद्रिमिव पर्वणि ।।
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् ।
अनन्तरथपादातं रजसा सर्वतो वृतम् ।।
तं भीमसेनः समरे महोदधिमिवापरम् ।
सेनासागरमक्षोभ्यं वेलेव समवारयत् ।।
तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः ।
भीमसेनस्य समरे राजन्कर्मातिमानुषम् ।।
उदीर्णान्पार्थिवान्सर्वान्साश्वान्सरथकुञ्जरान् ।
असंभ्रमं भीमसेनो गदया समवारयत् ।।
स संवार्य बलौघांस्तन्गदया रथिनां वरः।
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ।।
तस्मिन्सुतुमुले घोरे काले परमदारुणे।
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः।।
द्रौपदेयाभिमन्युश्च शिखण्डी चापराजितः ।
न प्राजहन्भीमसेनं भये जाते महाबलम् ।।
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्।
अधावत्तावकान्योधान्दण्डपाणिरिवान्तकः ।।
पोययन्रथबृन्दानि वाजिबृन्दनि चाभिभूः ।
कर्षयन्रथवृन्दानि बाहुवेगेन पाण्डवः ।।
विनिध्रन्यचतत्सङ्ख्ये युगान्ते कालविद्विभुः ।
ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः ।।
बलानि संममर्दाशु नड्वलानीव कुञ्जरः ।
मृद्गन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ वापि पदातिनः ।
गदया व्यवमत्सर्वान्वातो वृक्षानिवौजसा ।।
भीमसेनो महाबाहुस्तव पुत्रस्य वै बले।
सापि प्रञ्जानसामासैः प्रदिग्धा रुधिरेण च ।।
अदृश्यत महारौद्रा गदा नागाश्वपातनी।
तत्रतत्र हतैश्चापि मनुष्यगजवाजिभिः ।।
रणाङ्गणं समभवन्मृत्योरावाससन्निभम् ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ।।
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ।।
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः ।
बभौ रूपं महाघोरं कालस्येव युगक्षये ।।
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः ।
दृष्ट्वा मृत्युमवायान्तं सर्वे विमनसोऽभवन् ।।
यतोयतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः।
तेनतेन स्म दीर्यन्ते सर्वसैन्यानि भारत ।।
प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् ।
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ।।
तं तथा भीमकर्माणं प्रगृहीतमहागदम् ।
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ।।
महता रथघोषेण रथेनादित्यवर्चसा ।
छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ।।
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् ।
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः ।।
तस्मिन्क्षणे सात्यकिः सत्यसन्धः
शिनिप्रवीरोऽभ्यपतत्पितामहम्।
निघ्नन्नमित्रान्धनुषा दृढेन
संकम्पयंस्तव पुत्रस्य सैन्यम् ।।
तं यान्तमश्वै रजतप्रकाशैः
शरान्वपन्तं निशितान्सुपुङ्खान्।
नाशक्नवन्धारयितुं तदानीं
सर्वे गणा भारत ये त्वदीयाः ।।
अविध्यदेनं दशभिः पृषत्कैः-
रलम्बुसो राक्षसोऽसौ तदानीम् ।
शरैश्चतुर्भिः प्रतिविद्ध्य तं च
नप्ता शिनेरभ्यपतद्रथेन ।।
अन्वागतं वृष्णिवरं निशम्य
तं शत्रुमध्ये परिवर्तमानम्।
प्रद्रावयन्तं कुरुपुङ्गवांश्च
पुनः पुनश्च प्रणदन्तमाजौ ।।
योधास्त्वदीयाः शरवर्षैरवर्ष-
न्मेघा यथा भूधरमम्बुवेगैः ।
तथापि तं धारयितुं न शेकु-
र्मध्यंदिने सूर्यमिवातपन्तम् ।।
न तत्र कश्चिन्नविषण्ण आसी-
दृते राजन्सोमदत्तस्य पुत्रात्।
स वै समादाय धनुर्महात्मा
भिरिश्रवा भारत सौमदत्तिः ।।
दृष्ट्वा रथान्स्वान्व्यपनीयमाना-
न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
चतुर्थदिवसयुद्धे त्रिषष्टितमोऽध्यायः ।।