भीष्मपर्व

अध्यायः ६२

Bhishma Parva (Sanskrit) · Adhyaya 62
अक्षर का आकार

धृतराष्ट्र उवाच।

दैवमेव परं मन्ये पौरुषादपि सञ्जय।
यत्सैन्यं मम पुत्रस्य पाण्डुपुत्रेण वध्यते ।।

नित्यं हि मामकांस्तात हतानेव हि शंससि।
अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंशसि पाण्डवान् ।।

`विभग्नांश्च प्रनष्टांश्च नित्यं शंससि मामकान्।'
हीनान्पुरुषकारेण मामकानद्य सञ्जय ।
पातितान्पात्यमानांश्च हतानेव च शंससि ।।

युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति।
पाण्डवा हि जयन्त्येव जीयन्ते चैव मामकाः ।।

सोऽहं तीव्राणि दुःस्वानि दुर्योधनकृतानि च।
श्रोष्यामि सततं तात दुःसहानि बहूनि च ।।

तमुपायं न पश्यामि जीयेरन्येन पाण्डवान् ।
मामका विजयं युद्धे प्राप्नुयुर्येन सञ्जय ।।

सञ्जय उवाच।

क्षयं मनुष्यदेहानां गजवाजिरथक्षयम्।
श्रृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ।।

धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः।
पीडयामास संक्रुद्धो मद्राधिपतिमायसैःक ।।

तत्राद्भुतमपश्याम पार्षस्य पराक्रमम् ।
न्यवारयत यस्तूर्णं शल्यं समितिशोभनम् ।।

नान्तरं दृश्यते तत्र तयोश्च रथिनोस्तदा।
मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ।।

ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे।
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ।।

अथैनं शरवर्षेण च्छादयामास संयुगे।
गिरिं जलागमे यद्वञ्जलदा जलवृष्टिभिः ।।

अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने च पीडिते ।
अभिदुद्राव वेगेन मद्रराजरथं प्रति ।।

ततो मद्राधिपस्थं कार्ष्णिः प्राप्यातिकोपनः ।
आर्तायनिममेयात्मा विव्याध निशितैः शरैः ।।

ततस्तु तावका राजन्परीप्सन्तोऽर्जुनं रणे।
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे।।

दुर्योधनो विकर्णश्च दुःशासनविविंशती।
दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः ।।

सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत।
एते मद्राधिपरथं पालयन्तः स्थिता रणे ।।

तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः ।
द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ।।

धार्तराष्ट्रान्दश रथान्दशैव प्रत्यवारयन् ।
नानारूपाणि शस्त्राणि विसृजन्तो विशांपते ।।

अभ्यवर्तन्तं संहृष्टाः परस्परवधैषिणः।
ते वै समेयुः संग्रामे राजन्दुर्मन्त्रिते तव ।।

तस्मिन्दशरथे क्रुद्धे वर्तमाने महाभये।
तावकानां परेषां वा प्रेक्षका रथिनोऽभवन् ।।

शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः।
अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे ।।

ते तदा जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः ।
अन्योन्यमभिमर्दन्तः स्पर्धमानाः परस्परम् ।।

अन्योन्यस्पर्धया राजञ्ज्ञातयः संगता मिथः ।
महास्राणि विमुञ्चन्तः समापेतुरमर्षिणः ।।

दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे ।
विव्याध निशितैर्बाणैश्चतुर्भिः समरे द्रुतम् ।।

दुर्मर्षणश्च विंशत्या चित्रसेनश्च प?ञ्चभिः ।
दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ।।

विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा।
तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः ।।

एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् ।
सत्यव्रतं च समरे पुरुमित्रं च भारत ।।

अभिमन्युरविध्यत्तु दशभिर्दशभिः शरैः।
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ ।।

अविध्येतां शरैस्तीक्ष्णैस्तदद्भुतमिवाभवत्।
ततः शल्यो महाराज स्वस्त्रीयौ रथिनां वरौ ।।

शरैर्बहुभिरानर्च्छत्कृतप्रतिकृतैषिणौ ।
छाद्यमानौ ततस्तौ कतु माद्रीपुत्रौ न चेलतुः ।।

अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः ।
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ।।

तमुद्यतगदं दृष्ट्वा कैलासमिव श्रृङ्गिणम्।
भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ।।

दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत्।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ।।

गजानीकेन सहितस्तेन राजा सुयोधनाः ।
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ।।

आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः ।
गदापाणिरवारोहद्रथांत्सिंह इवोन्नदन् ।।

अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम्।
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ।।

स गजान्गदया निघ्नन्व्यचरत्समरे बली।
भीमसेनो महाबाहुः सवज्र इव वासवः ।।

तस्य नादेन महता मनोहृदयकम्पिना ।
व्यत्यचेष्टन्त संहत्य गजा भिमस्य गर्जतः ।।

ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।।

पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान्।
अभ्यवर्षन्त धावन्तो मेघा इव गिरिव्रजान् ।।

नाकुलिस्तु शतानीकः समरे शत्रुपूगहा ।
क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैश्चाञ्जलिकैः शितैः।
न्यहनच्चोत्तमाङ्गानि पाण्डवो गजयोधिनाम् ।।

शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः ।
अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ।।

हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः।
अदृश्यन्ताचलाग्रेकषु द्रुमा भग्नशिखा इव ।।

धृष्टद्युम्नहतानन्यानपश्याम महागजान्।
पततः पात्यमानांश्च पार्षतेन महात्मना ।।

मागधोऽथ महीपालो गजमैरावणोपमम्।
प्रेषयामास समरे सौभद्रस्य रथं प्रति।।

तमापतन्तं संप्रेक्ष्य मागधस्य महागजम् ।
जघानैकेषुणा वीरःत सौभद्रः परवीरहा ।।

तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः।
राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः।।

विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः।
व्यचरत्समरे मृद्गन्गजानिन्द्रो गिरीनिव ।।

एकप्रहारनिहतान्भीमसेनेन दन्तिनः।
अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ।।

भग्नदन्तान्भग्नकरान्भग्नसक्थीश्च वारणान्।
भग्नपृष्ठत्रिकानन्यान्निहतान्पर्वतोपमान् ।।

नदतः सीदतश्चान्यान्विमुखान्समरे गतान्।
विद्रुतान्भयसंविग्नांस्तथा विशकृतोऽपरान् ।।

भीमसेनस्य मार्गेषु पतितान्पर्वतोपमान् ।
अपश्यं निहतान्नागान्राजन्निष्ठीवतोपरान् ।।

वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः ।
विह्नलन्तो गता भूमिं शैला इव धरातले ।।

मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः ।
व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ।।

गजानां रुधिरक्लिन्नां गदां बिभ्रद्वृकोदरः ।
घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकभृत् ।।

संमथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः ।
सहसा प्राद्रवन्क्लिष्ठा मृद्गन्तस्तव वाहिनीम् ।।

तं हि वीरं महेष्वासं सौभद्रप्रमुखा रथाः ।
पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ।।

शोणिताक्तां गदां बिभ्रदुक्षितां गजशोणितैः ।
कृतान्त इव रोद्रात्मा भीमसेनो व्यदृश्यत ।।

व्यायच्छमानं गदया दिक्षु सर्वासु भारत।
अपश्याम रणे भीमं नृत्यन्तमिव शङ्करम् ।।

यमदण्डोपमां गुर्वीमिन्द्राशनिसमकस्वनाम् ।
अपश्याम महाराय रौद्रां विशसनीं गदाम् ।।

विमिश्रां केशमञ्जाभिः प्रदिग्धां रुधिरेण च।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ।।

यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत्।
तथा भीमो गजानीकं गदया समकालयत् ।।

गदया वध्यमानास्ते मार्गणैश्च समन्ततः।
स्वान्यनीकानि मृद्गन्तः प्राद्रवन्कुञ्जरास्तव ।।

महावात इवाभ्राणि विधमित्वा स वारणान्।
अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
चतुर्थदिवसयुद्धे द्विषष्टितमोऽद्यायः ।।