भीष्मपर्व

अध्यायः ६१

Bhishma Parva (Sanskrit) · Adhyaya 61
अक्षर का आकार

सञ्जय उवाच।

द्रौणिर्भूरिश्रवाः शत्यश्चित्रसेनश्च मारिषः।
पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन् ।।

संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः।
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ।।

नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे ।
बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ।।

तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम्।
दृष्ट्वा पार्थः सुसंयत्तं सिंहनादमथानदत् ।।

पीडयानं तु तत्सैन्यं पौत्रं तव विशांपते।
दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ।।

ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् ।
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ।।

तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् ।
व्यदृश्यत महच्चापं समरे युध्यतः परैः ।

स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः ।
ध्वजं सांयमनेश्वैव सोऽष्टाभिश्चिच्छिदे ततः ।।

रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिन ।
शितेनोरगसंकाशां पत्रिणाभिजघान ताम् ।।

शल्यस्य च महावेगानस्यतः समरे शरान्।
`धनुश्चिच्छेद भल्लेन तीव्रवेगन फाल्गुनिः'
जघानार्जुनदायादश्चतुर्भिश्चतुरो हयान् ।।

भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः।
नाभ्यवर्तन्तं संरब्धाः कार्ष्णेर्बाहुबलोदयात् ।।

ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः ।
पञ्चविंशतिसाहस्रास्तव पुत्रेण चोदिताः ।।

धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि।
सह पुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ।।

तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ ।
ददर्श राजन्पाञ्चल्यः सेनापतिररिन्दम ।।

स वारणरथोघानां सहस्रैर्बहुभिर्वृतः।
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ।।

`पारावताश्वः स रथमास्थाय परवीरहा'
धनुर्विष्फार्य संक्रुद्धो नोदयित्वा च वाहिनीम् ।
ययौ तं मद्रकानीकं केकयांश्च परंतप ।।

तेन कीर्तिमता गुप्तमनीकं दृढधन्वना।
संरब्धरथनागाश्वं योत्स्यमानमशोभत ।।

सोऽर्जुनप्रमुखे यान्तं पाञ्चालकुलवर्धनः ।
त्रिभिः शारद्वतं बाणैर्जत्रदेशे समार्पयत् ।।

ततः स मद्रकान्हत्वा दशैव दशभिः शरैः ।
पृष्ठरक्षं जघानाशु भल्लेन कृतवर्मणः ।।

दमनं चापि दायादं पौरवस्य महात्मनः ।
जघान विमलाग्नेण नाराचेन परंतपः ।।

ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् ।
अविध्यत्रिंशता बाणैर्दशभिश्चास्य सारथिम् ।।

सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्।
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ।।

अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत् ।
अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ।।

स हताश्वे रते तिष्ठन्ददर्श भरतर्षभ ।
पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ।।

स प्रगृह्य महाघोरं निस्त्रिंशवरमायसम् ।
पदातिस्तूर्णमानर्च्छद्रथस्यं पुरुषर्षभः ।।

तं महौघमिवायान्तं स्वात्पतन्तमिवोरगम् ।
भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ।।

दीप्यमानमिवादित्यं मत्तवारणविक्रमम् ।
अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ।।

तस्य पाञ्चालदायादः प्रतीपमभिधावतः।
शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ।।

बाणवेगमतीतस्य तथाभ्याशमुपेयुषः ।
त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ।।

तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् ।
हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ।।

तं निहत्य गदाग्रेण स लेभे परमां मुदम्।
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ।।

तस्मिन्हते महेष्वासे शल्यपुत्रे महारथे ।
हाहाकारो महानासीत्तव सैन्यस्य मारिष ।।

ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतामात्मजम् ।
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ।।

तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ ।
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ।।

ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा।
आजघान त्रिभिर्बाणैस्तोत्रैरिव महाद्विपम् ।।

तथैव पार्षतं शूरं शल्यः समितिशोभनः।
आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
चतुर्थदिवसयुद्धे एकषष्टितमोऽध्यायः ।।