भीष्मपर्व

अध्यायः ६०

Bhishma Parva (Sanskrit) · Adhyaya 60
अक्षर का आकार

सञ्जय उवाच।

व्युष्टां निशां भारत भारताना-
मनीकिनीनां प्रमुखे महात्मा।
ययौ सपत्नान्प्रति जातकोपो
वृतः समग्रेण बलेन भीष्मः ।।

तं द्रोणदुर्योधनबाह्लिकाश्च
तथैव दुर्मर्षणचित्रसेनौ।
जयद्रथश्चातिबलो बलौघै-
र्नृपास्तथान्ये प्रययुः समन्तात् ।।

स तैर्महद्भिश्च महारथैश्च
तेजस्विभिर्वीर्यवद्भिश्च राजन्।
रराज राजा स तु राजमुख्यै-
र्वृतः सदेवैरिव वज्रपाणिः ।।

तस्मिन्ननीकप्रमुखे विषक्ता
दोधूयमानाश्च महापताकाः ।
सुरक्तपीतासितपाण्डुराभा
महागजस्कन्धगता विरेजुः ।।

सा वाहिनी शान्तनवेन गुप्ता
महारथैर्वारणवाजिभिश्च।
बभौ सविद्युत्स्तनयित्नुकल्पा
जलागमे द्यौरिव जातमेघा ।।

ततो रणायाभिमुखी प्रयाता
प्रत्यर्जुनं शान्तनवाभिगुप्ता।
सेनामहोग्ना सहसा कुरूणां
वेगो यथा भीम इवापगायाः ।।

तं व्यालनानाविधगूढसारं
गजाश्वपादातरथौघपक्षम्।
व्यूहं महामेघसमं महात्मा
ददर्श दूरात्कपिराजकेतुः ।।

विनिर्ययौ केतुमता रथेन
नरर्षभः श्वेतहयेन काले।
` जये धृतः शत्रुवरूथिनीनां
यथा सुरेन्द्रोऽसुरवाहिनीनाम् ।।

नारायणेनेन्द्र इवाभिगुप्तः
शशीव सूर्येण समेयिवान्यथा ।
तथा महात्मा सह केशवेन
वरीथिनीनां प्रमुखे रराज '।।

सोपस्करं सोत्तरबन्धुरेषं
यत्तं यदूनामृषभेण सङ्ख्ये।
कपिध्वजं प्रेक्ष्य रथं विषेदुः
सहैव पुत्रैस्तव कौरवेयाः ।।

प्रकल्पितं गुप्तमुदायुधेन
किरीटिना लोकमहारथेन ।
तं व्यूहराजं ददृशुस्त्वदीया-
श्चतुश्चतुर्व्यालसहस्रकीर्णम् ।।

यथैव पूर्वेऽहनि धर्मराज्ञा
व्यूहः कृतः कौरवसत्तमेन।
यथा न भूतो भुवि मानुषेषु
न दृष्टपूर्वो न च संश्रुतश्च ।।

ततो यथादेशमुपेत्य तस्थुः
पाञ्चालमुख्याः सह चेदिमुख्यैः।
ततः समादेशसमाहतानि
भेरीसहस्राणि विनेदुराजौ ।।

शङ्खस्वनास्तूर्यरवाः प्रणेदुः
सर्वेष्वनीकेषु ससिंहनादाः।
ततः सबाणानि महास्वनानि
विस्फार्यमाणानि धनूंषि वीरैः ।।

क्षणेन भेरीपणवप्रणादा-
नन्तर्दधुः शङ्खमहास्वनांश्च।
तच्छङ्खशब्दावृतमन्तरिक्ष-
मुद्धूतभौमद्रुतरेणुजालम् ।।

महानुभावाश्च ततः प्रकाश-
नालोक्य वीराः सहसाऽभिपेतुः ।
रथी रथेनाभिहतः ससूतः
पपात साश्वः सरथः सकेतुः ।।

गजो गजेनाभिहताः पपात
पदातिना चाभिहतः पदातिः।
आवर्तमानान्यभिवर्तमानै-
र्घोरीकृतान्यद्भुतदर्शनानि ।।

प्रासैश्च खङ्गैश्च समाहतानि
सदश्वबृन्दानि सदश्वबृन्दैः।
सुवर्णतारागणभूषितानि
सूर्यप्रभाभानि शरावराणि ।।

विदार्यमाणानि परश्वथैश्च
प्रासैश्च स्वङ्गैश्च निपेतुरुर्व्याम्।
गजैर्विषणापरगात्ररुग्णाः
केचित्ससूता रथिनः प्रपेतुः ।।

गजर्षभाश्चापि जगर्षभेण
निपातिता बाणहताः पृथिव्याम्।
गजौघवेगोद्धतसादितानां
श्रुत्वा विषेदुः सहसा मनुष्याः ।।

आर्तस्वनं सादिपदातियूनां
विषाणगात्रावरताडितानाम् ।
संभ्रान्तनागाश्वरथे मुहूर्ते
महाक्षये सादिपदातियूनाम् ।।

महारथैः संपरिवार्यमाणं
संदृश्य दूरात्कपिराजकेतुम् ।
तं पञ्चतालोच्छ्रिततालकेतुः
सदश्ववेगाद्भुतवीर्ययानः।।

महास्त्रबाणाशनिदीप्तमन्तं
किरीटिनं शान्तनवोऽभ्यधावत्।
तथैव शक्रप्रतिमप्रभाव-
मिन्द्रात्मजं द्रोणमुखा विसस्नुः ।।

कृपश्च शल्यश्च विविंशतिश्च
दुर्योधनः सौमदत्तिश्च राजन्।
ततो रथानां प्रमुखादुपेत्य
सर्वास्त्रिवित्काञ्चनचित्रवर्मा ।।

जवेन शूरोऽभिससार सर्वां-
स्तानर्जुनस्यात्मभवोऽभिमन्युः।
तेषां महास्त्राणि महारथाना-
मसह्यकर्मा विनिहत्य कार्ष्णिः ।।

बभौ महामन्त्रहुतार्चिमाली
सदोगतः सन्भगवानिवाग्निः ।
ततः स तूर्णं रुधिरोदफेनां
कृत्वा नदीमाशु रणे रिपूणाम् ।।

जगाम सौभद्रमतीत्य भीष्मो
महारथं पार्थमदीनसत्वः ।
ततः प्रहस्याद्भुतविक्रमेण
गाण्डीवमुक्तेन शिलाशितेन ।।

विपाठजालेन महास्त्रजालं
विनाशयामास किरीटमाली।
तमुत्तमं सर्वधनुर्धराणा-
मसक्तकर्मा कपिराजकेतुः ।।

भीष्मं महात्माऽभिववर्ष तूर्णं
शरौघजालैर्विमलैश्च भल्लैः।
तथैव भीष्माहतमन्तरिक्षे
महास्त्रजालं कपिराजकेतोः ।।

तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
चतुर्थदिवसयुद्धे षष्टितमोऽध्यायः ।।