भीष्मपर्व

अध्यायः ५९

Bhishma Parva (Sanskrit) · Adhyaya 59
अक्षर का आकार

धृतराष्ट्र उवाच।

प्रतिज्ञाते ततस्तस्मिन्युद्धे भीष्मेण दारुणे।
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ।।

भीष्मः किमकरोत्तत्र पाण्डवेयेषु भारत।
पितामहे वा पञ्चालास्तन्ममाचक्ष्व सञ्जय ।।

स़ञ्जय उवाच।

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत।
पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे ।।

जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्ससु।
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ।।

अभ्ययाञ्जवनैरश्वैः पाण्डवानामनीकिनीम् ।
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ।।

प्रावर्तत ततो युद्धं तुमुलं रोमहर्षणम् ।
अस्माकं पाण्डवैः सार्धमनायात्तव भारत ।।

घनुषां कूजतां तत्र तलानां चाभिहन्यताम्।
महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ।।

तिष्ठ स्थितोऽस्मि विद्ध्यैनं निवर्तस्व स्थिरो भव।
स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः ।।

काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च।
शिलानामिव शैलेषु पतितानामभूद्ध्वनिः ।।

पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः ।
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ।।

हृतोत्तमाह्गाः केचित्तु तथैवोद्यतकार्मुकाः।
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाःक ।।

प्रावर्तत महावेगा नदी रुधिरवाहिनी ।
मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा ।।

वरश्वनरनागानां शरीरप्रभवा तदा।
परलोकार्णवमुखी गृध्रगोमायुमोदिनी ।।

न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप।
यथा तव सुतानां च पाण्डवानां च भारत ।।

नासीद्रथपथस्तत्र यौधैर्युधि निपातितैः ।
गजैश्च पतितैर्नीलैर्गिरिश्रृङ्गैनिरवावृतः ।।

विकीर्णैः कवचैश्चित्रैः शिरस्त्रणैश्च मारिष ।
शुशुभे तद्राणस्थानं शरदीव नभस्तलम् ।।

विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः ।
अभीताः समरे शत्रूनभ्यधावन्त दर्पिताः ।।

तात भ्रातः सखे बन्धो वयस्य मम मातुल ।
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ।।

अथाभ्येहि त्वमागच्छ किं भीतोसि क्व यास्यसि।
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ।।

तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः ।
मुमीच बाणान्दीप्ताग्रानहीनाशीविषानिव ।।

शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः ।
जघान पाण्डवरथानादिश्य भारतर्षभ ।।

स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् ।
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ।।

तमेकं समरे शूरं पाण्डवाः सृञ्जयैः सह।
अनेकशतसाहस्रं समपश्यन्त लाघवात् ।।

मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे ।
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ।।

उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो।
एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत ।।

न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् ।
विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ।।

कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् ।
व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु ।।

अमानुषेण रूपेण चरन्तं पितरं तव।
शलभा इव राजानः पतन्ति विधिचोदिताः ।।

भीष्माग्निमभिसंक्रुद्धं विनाशाय सहस्रशः ।
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे ।।

नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः ।
भिनत्त्येकेन बाणेन सुमुखेन पतत्रिणा ।।

गजं कंकटसन्नद्धं वज्रेणेव शिलोच्चयम् ।
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि ।।

नाराचेन सुमुक्तेन निजघान पिता तव।
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन ।।

मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते।
एवं सा धर्मराजस्य वध्यमाना महाचमूः ।।

भीष्मेणातुलवीर्येण व्यशीर्यत संहस्रधा।
प्राकम्पत महासेना शरवर्षेण तापिता ।।

पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः।
यतमानाऽपि ते वीरा द्रवमाणान्महारथान् ।।

नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान्।
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ।।

अभज्यत महाराज न च द्वौ सह धावतः।
आविद्धरनागाश्वं पतितध्वजकूबरम् ।।

अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्।
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ।।

प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ।
विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः ।।

विनुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत।
तद्गोकुलमिवोद्धान्तमुद्धान्तरथयूथपम् ।।

ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा।
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ।।

उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्।
असं स कालः संप्राप्तः पार्थ पस्तेऽभिकाङ्क्षितः ।।

प्रहरस्व नरव्याघ्र न चेन्मोहाद्विमुह्यसे।
यत्त्वया कथितं वीर पुरा राज्ञां समागमे ।

भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान्।
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ।।

इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम ।
बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः ।।

द्रवतश्च महीपालान्पश्य यौधिष्ठिरे बले।
दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम् ।।

भयार्ताः प्रपलायन्ते सिंहात्क्षुद्रमृगा इव।
एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः ।।

नोदयाश्वान्यतो भीष्मो विगाहे तद्वलार्णवम् ।
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ।।

सञ्जय उवाच।

ततोऽश्वान्रजतप्रकख्यान्नोदयामास माधवः।
यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ।।

ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्।
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे।।

ततो भीष्मःक कुरुश्रेष्ठ सिंहवद्विनदन्मुहुः ।
धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ।।

क्षणेन स रथस्तस्य सहयः कसहसारथिः ।
शरवर्षेण महता संछन्नो न प्रकाशते ।।

वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान् ।
चोदयामास तानश्वान्विभिन्नान्भीष्मसायकैः ।।

ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् ।
पातयामास भीष्मस्य धनुश्छित्वा त्रिभिः शरैः ।।

स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।
निमिषान्तरमात्रेण सज्यं चक्रे पिता तव ।।

विचकर्ष ततो दोर्भ्यां धनुर्जलदनिःस्वनम् ।
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ।।

तस्य तत्पूजयामास लाघवं शन्तनोः सुतः।
साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ।।

त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय ।
प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह ।।

इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः ।
मुमोच समरे वीरः शरान्पार्थरथं प्रति।।

अदर्शयद्वासुदेवो हययाने परं बलम् ।
मोघान्कुर्वञ्शरांस्तस्य मण्डलान्व्यचरल्लुघु ।।

तथा भीष्मस्तु सुदृढं वासुदेवधनंजयौ।
विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत ।।

शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।
गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्क्तितौ ।।

पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः ।
कृष्णयोर्युधि संरब्धो भीष्माः प्राच्छादयद्दिशः ।
`पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः ।।'

वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः ।
मुहुरभ्यर्दयन्भीष्मः प्रहस्य स्वनवत्तदा ।।

ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम्।
संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ।।

भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ।
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ।।

वारन्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्।
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ।।

अमृष्यमाणो भगवान्केशवः परवीरहा।
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ।।

एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान्।
किं नु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ।।

द्रवते च महासैन्यं पाण्डवस्य महात्मनः ।
एते च कौरवास्तूर्णं प्रभग्नान्वीक्ष्य सोमकान् ।।

प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम् ।
सोहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः ।।

भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ।
अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे ।।

कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात्।
तथा चिन्तयतस्तस्य भूय एव पितामहः ।
प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति ।।

तेषां बहुत्वासु भृसं शराणां
दिशश्च सर्वाः पिहिता बभूवुः ।
न चान्तरिक्षं न दिशो न भूमि-
र्न भास्करोऽदृश्यत रश्मिमालीक ।।

ववुश्च वातास्तुमुलाः सधूमा
दिशश्च सर्वाः क्षुभिता बभूवुः।
द्रोणो विकर्णोऽथ जयद्रथश्च
भूरिश्रवाः कृतवर्मा कृपश्च ।।

श्रुतायुरम्बष्ठपतिश्च राजा
विन्दानुविन्दौ च सुदक्षिणश्च।
प्राच्याश्च सौवीरगणाश्च सर्वे
वसातयः क्षुद्रकमालवाश्च।।

किरीटिनं त्वरमाणाभिस्रु-
र्निदेशगाः शान्तनवस्य राज्ञः।
तं वाजिपादातरथौघजालै-
रनेकसाहस्रशतैर्ददर्श ।।

किरीटिनं संपरिवार्यमाणं
शिनेर्नप्ता वारणयूथपैश्च।
ततस्तु दृष्ट्वार्जुनवासुदेवौ
पदातिनागाश्वरथैः समन्तात् ।।

अभिद्रुतौ शस्त्रभृतां वरिष्ठौ
शिनिप्रवीरोऽभिससार तूर्णम्।
स तान्यनीकानि महाधनुष्मान्
शिनिप्रवीरः सहसाऽभिपत्य ।।

चकार साहाय्यमथार्जुनस्य
विष्णुर्यथा वृत्रनिषूदनस्य।
विशीर्णनागाश्वरथध्वजौघं
भीष्मेण वित्रासितसर्वयोधम् ।।

युधिष्ठिरानीकमभिद्रवन्तं
प्रोवाच संदृश्य शिनिप्रवीरः ।
क्व क्षत्रिया यास्यथ नैष धर्मः
सतां पुरस्तात्कथितः पुराणैः ।।

मा स्वां प्रतिज्ञां त्यजत प्रवीराः
स्वं वीरधर्मं परिपालयध्वम्।
तान्वासवानन्तरजो निशाम्य
नरेन्द्रमुख्यान्द्रवतः समन्तात् ।।

पार्थस्य दृष्टवा मृदुयुद्धातां च
भीष्मं च सङ्ख्ये समुदीर्यमाणम्।
अमृष्यमाणः स ततो महात्मा
यशस्विनं सर्वदशार्हभर्ता ।।

उवाच शैनेयमभिप्रशंसन्
दृष्ट्वा कुरूनापततः समग्रान्।
ये यान्ति ते यान्तु शिनिप्रवीर
येऽपि स्थिताः सात्वत तेऽपि यान्तु ।।

भीष्मं रथात्पश्य निपात्यमानं
द्रोणं च सङ्ख्ये सगणं मयाऽद्य।
न सारथेः सात्वत कौरवाणां
क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् ।।

तस्मादहं गृह्य रथाङ्गमुग्रं
प्राणं हरिष्यामि महाव्रतस्य।
निहत्य भीष्मं सगणं तथाजौ
द्रोणं च शैनेय रथप्रवीरौ ।।

संपादयिष्याम्यहमद्य हृष्टः ।।

` इतीदमुक्त्वा स महानुभावः
सस्मार चक्रं निशितं पुराणम्।
सुदर्शनं चिन्तितमात्रमेव
तस्याग्रहस्तं स्वयमारुरोह ।।

तच्चक्रपद्मं प्रगृहीतमाजौ
रराज नारायणबाहुनालम्।
यथादिपद्मं तरुणार्कवर्णं
रराज नारायणनाभिजातमक् ।।

तत्कृष्णकोपोदयसूर्यबुद्धं
क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्।
तेस्यैव देहोरुसरःप्ररूढं
रराज नारायणबाहुनालम् ।।'

वेगेन कृष्मः प्रससार भीष्मम् ।।

घनो यथा खे तडितावनद्धः ।।

तमात्तचक्रं प्रणदन्तमुच्चैः
क्रुद्धं महेन्द्रावरजं समीक्ष्य ।
सर्वाणि भूतानि भृशं विनेदुः
क्षयं कुरूणामिव चिन्तयित्वा ।।

स वासुदेवः प्रगृहीतचक्रः
संवर्तयिष्यन्निव सर्वलोकम्।
अभ्युत्पतँल्लोकगुरुर्बभासे
भूतानि धक्ष्यन्निव धूमकेतुः ।।

गोविन्दमाजावविमूढचेताः ।।

एह्येहि देवेश जगन्निवास
नमोस्तु ते माधव चक्रपाणे।
प्रसह्य मां पातय लोकनाथ
रथोत्तमात्सर्वशरण्य सङ्ख्ये ।।

त्वया हतस्यापि ममाऽद्य कृष्ण
श्रेयः परिस्मिन्निह चैव लोके।
संभावितोऽस्म्यन्धकवृष्णिनाथ
लोकैस्त्रिभिर्वीर तवाभियानात् ।।

रथादवप्लुत्य ततस्त्वरावान्
पार्थोऽप्यनुद्रुत्य यदुप्रवीरम्।
जग्राह पीनोत्तमलम्बबाहुं
बाह्वोर्हरिं व्यायतपीनबाहुः ।।

निगृह्यमणाश्च तदाऽऽदिदेवो
भृश सरोषः किल नाम योगी ।
आदाय वेगेन जगाम विष्णु-
र्जिष्णुं महावात इवैकवृक्षम् ।।

पार्थस्तु विष्टभ्य बलेन पादौ
भीष्मान्तिकं तूर्णमभिद्रवन्तम्।
बलान्निजग्राह हरिं किरीटी
पदेऽथ राजन्दशमे कथंचित् ।।

अवस्थितं च प्रणिपत्य कृष्णं
प्रीतोऽर्जुनः काञ्चनचित्रमाली।
उवाच कोपे प्रतिसंहरेति
गतिर्भवान्केशव पाण्डवानाम् ।।

न हास्यते कर्म यथाप्रतिज्ञं
पुत्रैः शपे केशव सोदरैश्च ।
अन्तं करिष्यामि यथा कुरूणां
त्वयाऽहमिन्द्रानुजसंप्रयुक्तः ।।

ततः प्रतिज्ञां समयं च तस्य
जनार्दनः प्रीतमना निशम्य।
स्थितः प्रिये कौरवसत्तमस्य
रथं सचक्रः पुनरारुरोह ।।

`ततः प्रतिज्ञां समवाप्य भीष्मः
कृताञ्चलिः स्तुत्यमथाकरोद्वै ।
त्रैविक्रमे यस्य वपुर्बभासे
तथैव दृष्ट्वा तु समुञ्ज्वलन्तम् ।।

प्रगृह्य शङ्खं द्विषताकं निहन्ता
स तानभूषून्पुनराददानः ।
भीष्मं शरैः संपरिवार्य सङ्ख्ये
चिच्छेद भूरिश्रवसश्च चापम् ।।

शल्यं च विद्ध्वा नवभिः पृषत्कै-
र्दुर्योधं वक्षसि निर्बिभेद।'
विनादयामास ततो दिशश्च
स पाञ्चजन्यस्य रवेण शौरिः ।।

व्याविद्धनिष्काङ्गदकुण्डलं तं
रजोविकीर्णाञ्चितपद्मनेत्रम् ।
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं
विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ।।

मृदङ्गभेरीपणवप्रणादा
नेमिस्वना दुन्दुभिनिःस्वनाश्च।
ससिंहनादाश्च बभूवुरुग्राः
सर्वेष्वनीकेषु ततः कुरूणाम् ।।

गाण्डीवघोषः स्तनयित्नुकल्पो
जगाम पार्थस्य नभो दिशश्च।
जग्मुश्च बाणा विमलाः प्रसन्नाः
सर्वा दिशः पाण्डवचापमुक्ताः ।।

तं कौरवाणामधिपो जवेन
भीष्मेण भूरिश्रवसा च सार्धम्।
अभ्युद्ययावुद्यतबाणपाणिः
कक्षं दिधक्षन्निव धूमकेतुः ।।

अथार्जुनाय प्रजिघाय भल्लान्
भूरिश्रवाः सप्त सुवर्णपुङ्खान्।
दुर्योदनस्तोमरमुग्रवेगं
शल्यो गदां शान्तनवश्च शक्तिम् ।।

स सप्तभिः सप्त शरप्रवेकान्
संवार्य भीरिश्रवसा विसृष्टान् ।
शितेन दुर्योधनबाहुमुक्तं
क्षुरेण तत्तोमरमुन्ममाथ ।।

ततः शुभामापततीं स शक्तिं
विद्युत्प्रभां शान्तनवेन मुक्ताम्।
गदां च मद्राधिपबाहुमुक्तां
द्वाभ्यां शराभ्यां निचर्त वीरः ।।

ततो भुजाभ्यां बलवद्विकृष्य
चित्रं धनुर्गाण्डिवमप्रमेयम् ।
माहेन्द्रमस्रं विधिवत्सुघोरं
प्रादुश्चकाराद्भुतमन्तरिक्षे ।।

तेनोत्तमास्त्रेण ततो महात्मा
सर्वाण्यनीकानि महाधनुष्मान्।
शरौघजालैर्विमलाग्निवर्णै-
र्निवारयामास किरीटमाली ।।

शिलीमुखाः पार्थधनुःप्रमुक्ता
रथान्ध्वजाग्राणि धनूंषि बाहून् ।
निकृत्य देहान्विविशुः परेषां
नरेन्द्रनागेन्द्रतुरङ्गमाणाम् ।

ततो दिशः सोऽनुदिशश्च पार्थः
शरैः सुधारैः समरे वितत्य ।
गाण्डीवशब्देन मनांसि तेषां
किरीटमाली व्यथयांचकार ।।

तस्मिंस्तथा घोरतमे प्रवृत्ते
शङ्खस्वना दुन्दुभिनिःस्वनाश्च।
अन्तर्हिता गाण्डिवनिःस्वनेन
बभूवुरुग्राश्वरथप्रणादाः ।।

गाण्डीवशब्दं तमथो विदित्वा
विराटराजप्रमुखाः प्रवीराः।
पाञ्चालराजो द्रुपदश्च वीर-
स्तं देशमाजग्मुरदीनसत्त्वाः ।।

सर्वाणि सैन्यानि तु तावकानि
यतोयतो गाण्डिवजः प्रणादः ।
ततस्ततः सन्नतिमेव जग्मु-
र्न तं प्रतीपोऽभिससार कश्चित् ।।

तस्मिन्सुघोरे कनृप संप्रहारे
हताः प्रवीराः सरथाश्वसूताः।
गजाश्च नाराचनिपाततप्ता
महापताकाः शुभरुक्मकक्ष्याः ।।

परीतसत्वाः सहसा निपेतुः
किरीटिना भिन्नतनुत्रकायाः ।
दृढं हताः पात्रिभिरुग्रवेगैः
पार्थेन भल्लैर्विमलैः शिताग्नैः ।।

निकृत्तयन्त्रा निहतेन्द्रकीला
ध्वजा महान्तो ध्वजिनिमुखेषु।
पदातिसङ्घाश्च रथाश्च सङ्ख्ये
हयाश्च नागाश्च धनञ्जयेन ।।

बाणाहतास्तूर्णमपेतसत्वा
विष्टभ्य गात्राणि निपेतुरुर्व्याम् ।
ऐन्द्रेण तेनास्त्रवरेण राजन्
महाहवे भिन्नतनुत्रदेहाः ।।

ततः शरौघैर्निशितैः किरीटिना
नृदेहशस्त्रक्षतलोहितोदा।
नदी सुघोरा नरमेदफेना
प्रवर्तिता तत्र रणाजिरे वै ।।

वेगेन साऽतीव पृथुप्रवाहा
परेतनागाश्वशरीररोधाः।
नरेन्द्रमञ्जोच्छ्रितमांसपङ्काः
प्रभूतरक्षोगणभूतसेविता ।।

शिरःकपालाकुलकेशशाद्वला
शरीरसङ्घातसहस्रवाहिनी ।
विशीर्णनानाकवचोर्मिसंकुला
नराश्वनागास्थिनिकृत्तशर्करा ।।

श्वकङ्कशालावृकगृध्रकाकैः
क्रव्यादसङ्घैश्च तरक्षुभिश्च।
उपेतकूलां ददृशुर्मनुष्याः
क्रूरां महावैतरणीप्रकाशाम् ।।

प्रवर्तितामर्जुनबाणसङ्घै-
र्मेदोवसासृकप्रवहां सुभीमाम्।
हतप्रवीरां च तथैव दृष्ट्वा
सेनां कुरूणामथ फल्गुनेन ।।

ते चेदिपाञ्चालकरूषमत्स्याः
पार्थाश्च सर्वे सहिताः प्रणेदुः ।
जयप्रगल्भाःक पुरुषप्रवीराः
संत्रासयन्तः कुरुवीरयोधान् ।।

हतप्रवीराणि बलानि दृष्ट्वा
किरीटिना शत्रुभयावहेन ।
वित्रास्य सेनां ध्वजिनीपतीनां
सिंहो मृगाणामिव यूथसङ्घान् ।।

विनेदतुस्तावतिहर्षयुक्तौ
गाण्डीवधन्वा च जनार्दनश्च।
ततो रविं संवृतरश्मिजालं
दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः ।।

तदैन्द्रमस्त्रं विततं च घोर-
मसह्यमुद्वीक्ष्य युगान्तकल्पम् ।
अथापयानं कुरवः सभीष्माः
सद्रोणदुर्योधनबाह्लिकाश्च।।

चक्रुर्निशां सन्धिगतां समीक्ष्य
विभावसोर्लोहितरागयुक्ताम्।
अवापय कीर्ति च यशश्च लोके
विजित्य शत्रूंश्च धनंजयोऽपि ।।

ययौ नरेन्द्रैः सहसोदरैश्च
समाप्तकर्मा शिबिरं निशायाम्।
ततः प्रजज्ञे तुमुलः कुरूणां
निशामुखे घोरतमः प्रणादः ।।

रणे रथानामयुतं निहत्य
हता गजाः सप्तशतार्जुनेन ।
प्राज्याश्च सौवीरगणाश्च सर्वे
निपातिताः क्षुद्रकमालवाश्च ।।

महत्कृतं कर्म धनञ्जयेन
कर्तुं यथा नार्हति कश्चिदन्यः।
श्रुतायुरम्बष्ठपतिश्च राजा
तथैव दुर्मर्षणचित्रसेनौ ।।

द्रोणः कृपः सैन्धवबाह्लिकौ च
भूरिश्रवाः शल्यशलौ च राजन्।
अन्ये च योधाः शतशः समेताः
क्रुद्धेन पार्थेन रणस्य मध्ये।।

स्वबाहुवीर्येण जिताः सभीष्माः
किरीटिना लोकमहारथेन।
इति ब्रुवन्तः शिबिराणि जग्मुः
सर्वे गणा भारत ये त्वदीयाः ।।

उल्कासहस्रैश्च सुसंप्रदीप्तै-
र्विभ्राजमानैश्च तथा प्रदीप्रैः।
किरीटिवित्रासितसर्वयोधा
चक्रे निवेशं ध्वजिनी कुरूणाम् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
तृतीयदिवसयुद्धे एकोनषष्टितमोऽध्यायः ।।