भीष्मपर्व
अध्यायः ५८
सञ्जय उवाच।
ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे।
रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ।।
अथैनं रथबृन्देन कोष्ठकीकृत्य भारत।
शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ।।
शक्तीश्च विमलाकस्तीक्ष्णा गदाश्च परिघैः सह ।
प्रासान्परश्वथांश्चैव मुद्गरान्मुसलानपि ।।
चिक्षिषुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति।
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् ।।
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ।
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् ।।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।
साधुसाध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ।।
सात्यकिश्चाभिमन्युश्च महत्या सेकनया वृतौ ।
गान्धारान्समरे शूराञ्जग्मतुः सहसौबलान् ।।
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् ।
तिशलश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ।।
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे ।
अभिमन्यो रथं तूर्णमारुरोह परंतपः ।।
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् ।
व्यधमेतां शितैस्तूर्णं शरैःक सन्नतपर्वभिः ।।
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् ।
नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ।।
ततो धर्मसुतोक राजा माद्रीपुत्रौ च पाण्डवौ ।
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ।।
तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् ।
यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ।।
कुर्वाणौ सुमहत्कर्म भीमसेनघटोत्कचौ।
दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत् ।।
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्।
अतीत्य पीतरं युद्धे यदयुध्यत भारत ।।
भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम्।
हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ।।
ततो दुर्योधननो राजा प्रहारवरपीडितः।
निषसाद रथोपस्थे कश्मलं च जगाम ह ।।
तं विसंज्ञं विदित्वा तु त्वरमाणोऽस्य सारथिः ।
अपोवाह रणाद्राजंस्ततः सैन्यमभज्यत ।।
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः।
निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ।।
पार्षतश्च रथश्रोष्ठो धर्मपुत्रश्च पाण्डवः।
द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः ।।
जघ्नतुर्विशिकैस्तीक्ष्णैः परानीकविनाशनैः ।
द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे ।।
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ ।
वार्यमाणं च भीष्मेण द्रोणेन च महात्मना ।।
विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः।
ततो रथसहस्रेषु विद्रवत्सु ततस्ततःक ।।
तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ ।
सौबलीं समरे सेनां शातयेतां समन्ततः ।।
शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ।
अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ।।
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशांपते ।
ववर्ष शरवर्षेण धाराभिरिव तोयदः ।।
वध्यमानं ततस्तत्र शरैः पार्थस्य संयुगे।
दुद्राव कौरवं सैन्यं विषादभयकम्पितम् ।।
द्रवतस्तान्समालक्ष्य भीष्मद्रोणौ महारथौ ।
न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ।।
ततो दुर्योधनो राजा समाश्वस्य विशांपते ।
न्यवर्तयत तत्सैन्यं द्रवमाणां समन्ततः ।।
यत्र यत्र हि पुत्रं ते ये ये पश्यन्ति भारत।
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महरथाः ।।
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः।
अन्योन्यस्पर्धया राजँल्लज्जया चावतस्थिरे ।।
पुनरावर्ततां तेषां वेग आसीद्विशांपते।
पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ।।
अन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः।
अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः ।।
पितामह निबोधेदं यत्त्वां वक्ष्यामि भारत।
नानुरूपमहं मन्ये त्वयि जीवति कौरव ।।
द्रोणो चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृञ्जने।
कृपे चैव महेष्वासे द्रवते यद्वरूथिनी ।।
न पाण्डवान्प्रतिलांस्तव मन्ये कथंचन ।
तथा द्रोणस्य सङ्ग्रमे द्रौमेश्चैव कृपस्य च ।।
अनुग्राह्याः पाण्डुसुतास्तव नूनं पितामह ।
यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ।।
सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे।
न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी ।।
श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च।
कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ।।
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे ।
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ।।
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः ।
अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ।।
बहुशोऽसि मया राजंस्तथ्यमुक्तो हितं वचः।
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ।।
यत्तु शक्यं मया कर्तुं वृद्धेनाद्य गतायुषा।
करिष्यामि यथाशक्ति पश्येदानीं सबान्धवः ।।
अद्य पाण्डुसुतानेकः ससैन्यान्सह बन्धुभिः ।
सोऽहं निवारयिष्यामि सर्वलोकस्य पश्यतः ।।
एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर ।
दध्मुः शङ्खान्मुदा युक्ता भेरीः संजघ्निरे भृशम् ।।
पाण्डवा हि ततो राजञ्श्रुत्वा तं निनदं महत्।
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्चाप्यनादयन् ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
तृतीयदिवसयुद्धे अष्टपञ्चाशोऽध्यायः ।।