भीष्मपर्व
अध्यायः ५७
सञ्जय उवाच।
ततो व्यूढेष्वनीकेषु तावकेषु परेषु च।
धनञ्जयो रथानीकमवधीत्तव भारत ।।
शरैरथिरथो युद्धे दारयन्रथयूथपान् ।
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।।
धार्तराष्ट्रा रणे यत्नात्पाण्डवान्प्रत्ययोधयन् ।
प्रार्थयाना यशो दीप्तां मृत्युं कृत्वा निवर्तनम् ।।
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् ।
बभञ्जुर्बहुशो राजंस्ते चासञ्जन्त संयुगे ।।
द्रवद्भिरथभग्नैश्च परिवर्तद्भिरेव च।
पाण्डवैः कौरवेयैश्च न प्राज्ञायत किंचन ।।
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्।
न दिशः प्रदिशो वापि जज्ञिरेऽत्र समागताः ।।
अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे।
अवर्तत तदा युद्धं तत्र तत्र विशांपते ।।
न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन ।
रक्षितः सत्यसन्धेन भारद्वाजेन संयुगे ।।
तथैव पाण्डवानां च रक्षितः सव्यसाचिना।
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ।।
सेनाग्रादपि निष्पत्य प्रायुध्यंस्तत्र मानवाः ।
उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ।।
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे।
ऋष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे ।।
रथी रथिनमासाद्य शरैः कनकभूषणैःक ।
पातयामास समरे तस्मिन्नतिभयंकरे ।।
गजारोहा गजारोहान्नाराचशरतोमरैः ।
संसक्तान्पातयामासुस्तव तेषां च सर्वशः ।।
कश्चिदुत्पत्य समरे वस्वारणमास्थितः ।
केशपक्षे परामृश्य जहार समरे शिरः ।।
अन्ये द्विरददन्ताग्रनिर्भिन्नहृदया रणे।
वेमुश्च रुधिरं वीरा निःश्वसन्तः समन्ततः ।।
कश्चित्करिविषाणस्थो वीरो रणविशारदाः ।
प्रावेपच्छक्तिनिर्भिन्नो गजशिक्षास्त्रवेदिना ।।
पत्तिमङ्घा रणे पक्तीन्भिमन्दिपालपरश्वथैः ।
न्यतापतयन्त संहृष्टाः परस्परकृतागसः ।।
रथी च समरे राजन्नासाद्य गजयूथपम् ।
स गजं पातयामास गजी च रथिनां वरम् ।।
रथिनं च हयारोहः प्रासेन भरतर्षभ ।
पातयामास समरे रथी च हयसादिनम् ।।
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् ।
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ।।
गजारोहा हयारोहान्पातयांचक्रिरे तदा।
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ।।
गजारोहवरैश्चापि तत्रतत्र पदातयः।
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ।।
पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः ।
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ।।
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा।
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ।।
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि।
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ।।
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः ।
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ।।
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ।।
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः ।
दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर ।।
उत्थितान्यगणेयानि कबन्धानि समन्ततः।
चिह्नभूतानि जगतो विनाशार्थाय भारत ।।
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे ।
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ।।
ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः ।
पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः ।।
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः।
पाण्डवानामनीकानि बभञ्जुःस्म पुनःपुनः ।।
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः ।
सात्यकिश्चेकितानश्च द्रोपदेयाश्च भारत।।
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः ।
द्रावयामासुराजौ ते त्रिदशा दानवानिव ।।
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः ।
रक्तोक्षिता घोररूपा विरेर्जुर्दानवा इव ।।
विनिर्जित्य रिपून्वीरा सेकनयोरुभयोरपि।
व्यदृस्यन्त महामात्रा ग्रहा इव नभस्तले ।।
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव ।
अभ्ययात्पाण्डवं युद्धे राक्षसं च घटोत्कचम् ।।
तथैव पाण्डवाः सर्वे महत्या सेनया सह ।
द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिन्दमौ ।।
किरीटी च ययौ क्रुद्धः समन्तात्पार्थिवोत्तमान् ।
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ।।
ततः प्रववृते भूयः संग्रामो रोमहर्षणः ।
तावकानां परेषां च समरे विजयैषिणाम् ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
तृतीयदिवसयुद्धे सप्तपञ्चशोऽध्यायः ।।