भीष्मपर्व
अध्यायः ५६
सञ्जय उवाच।
प्रभातायां च शर्वर्यां भीष्मः शान्तनस्तदा।
अनीकान्यनुसंयाने व्यादिदेशाय भारत ।।
गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा।
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः ।
गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव।
चक्षुषी च भरज्वाजः कृतवर्मा च सात्वतः ।।
अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ ।
त्रैगर्त्तैरथ कैकेयैर्वाटधानैश्च संयुगे ।।
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ।
मद्रकाः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये ।।
जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः ।
पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः ।।
विन्दानुविन्दावावन्त्यौ काम्भोजश्च शकैः सह।
पच्छमासन्महाराज शूरसेनाश्च सर्वशः ।।
मागधाश्च कलिङ्गाश्च दासेरकगणैः सह ।
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ।।
काकरुशा विकुञ्चाश्च मुण्डाः कुण्डीवृषास्तथा।
बृहद्वलेन सहिता वामं पार्श्वमवस्थिताः ।।
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः।
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ।।
अर्धचन्द्रेण व्यूहेन व्यूहन्तमतिदारुणम् ।
दक्षिणं शृङ्गमास्वय भिमसेनो व्यरोचत ।।
नानासंस्त्रौपसंषत्रैर्नानादेश्यैर्नृपैर्वृतः ।
तदन्येव विराटश्च द्रुपदश्च महारथः ।।
तदनन्तरमेवासीन्नीलो नीलायुधैः सह ।
नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः ।।
चेदिकाशिकरूपेश्च पौरवैरपि संवृतः।
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः ।।
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत।
तत्रैव धर्मराजोऽपि गजानीकेन संवृतः ।
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः ।
अभिमन्युस्ततः शूर इरावांश्च ततः परम् ।।
भैमसेनिस्ततो राजन्केकयाश्च महारथाः ।
एते सर्वे महाराज वामं पार्श्वमुपाश्रिताः ।।
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः।
`तत्रानुरथिनां श्रेष्ठो वामश्रृङ्गे व्यवस्थितः।'
एवमेतं महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः ।।
वधार्थं तव पुत्रामां तत्पक्षे ये च सङ्गताः ।
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।।
तावकानां परेषां च निघ्नतामितरेतरम् ।
हयौघाश्च रथौघाश्व तत्र तत्र विशांपते ।।
संपतन्तो व्यदृश्यन्त निघ्नन्तस्ते परस्परम् ।
धावतां च रथोघानां निघ्नतां च पृथक् पृथक् ।।
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः ।
दिवस्पृङ्वरवीराणां निघ्नतामितरेतरम् ।
संप्रहारे सुतुमुले तव तेषां च भारत ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
तृतीयदिवसयुद्धे षट्पञ्चाशोऽध्यायः ।।