भीष्मपर्व
अध्यायः ५५
सञ्जय उवाच।
ततोऽपराह्णभूयिष्ठे तस्मिन्नहनि भारत।
रथनागाश्वपत्तीनां सादिनां च महाक्षये ।।
द्रोणपुत्रेण शल्येन कृपेण च महात्मना ।
समसज्जत पाञ्चाल्यस्त्रिभिरैतैर्महारथैः ।।
स लोकविदितानश्वान्निजघान महाबलः ।
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ।।
ततः शल्यरथं तूर्णमास्थाय हतवाहनः ।
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ।।
धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत।
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ।।
स शल्यं प़ञ्चविंशत्या कृपं च नवभिः शरैः ।
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः ।।
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा।
शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः ।।
लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम् ।
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ।।
दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा ।
विव्याध समरे राजंस्तदद्भुतमिवाभवत् ।।
अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ ।
शरैः पञ्चाशतै राजन्क्षिप्रहस्तोऽभ्यविध्यत ।।
लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा।
मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः ।।
तद्विहाय धनुश्छिन्नं सौभद्रं परवीरहा।
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ।।
तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ ।
अन्योन्यं विशिस्वैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ।।
ततो दुर्योधनो राज दृष्ट्वा पुत्रं महारथम्।
पीडितं तव पौत्रेण प्रायात्तत्र प्रजेश्वरः ।।
सन्निवृत्ते तव सुते सर्व एव जनाधिपाः ।
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ।।
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः ।
न स्म प्रव्यथते राजन्कृष्णतुल्यपराक्रमः ।।
सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनंजयः ।
अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम् ।।
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः ।
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ।।
उद्वूतं सहसा भौमं नागाश्वरथपत्तिभिः ।
दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत ।।
तानि नागसहस्राणि भूमिपालशतानि च।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ।।
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः।
कुरूणां चानयस्तीव्रः समदृश्यत दारुणः ।।
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः ।
प्रजज्ञे भरतश्रेष्ठ सस्त्रसङ्घैः किरीटिनः ।।
सादिता रथनागाश्च हताश्वा रथिनो रणे।
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ।।
विरथा रथिनश्चान्ये धावमानाः समन्ततः ।
तत्रतत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ।।
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः ।
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ।।
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः ।
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः ।।
सगदानुद्यतान्बाहून्सखङ्गांश्च विशांपते ।
सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ।।
साङ्कुशाकन्सपताकांश्च तत्रतत्रार्जुनो नृणाम् ।
निचकर्त शरैरुग्रै रौद्रं वपुरधारयत् ।।
परिघाणां प्रदीप्तानां मुद्गराणां च मारिष ।
प्रासानां भिन्दिपालानां निस्त्रिशानां च संयुगे ।।
परश्वथानां पीक्ष्णानां तोमराणां च भारत।
वर्मणां चापविद्धानां काञ्चनानां च भूमिप ।।
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः ।
छत्राणां हेमदण्डानां तोमराणां च भारत ।।
प्रतोदानां च योक्राणां कशानां चैव मारिष ।
राशयः स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ।।
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत ।
योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन ।।
यो यो हि समरे पार्थं प्रत्युद्याति विशांपते।
स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते ।।
तेषु विद्रवमाणेषु तव योधेषु सर्वशः।
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ।।
तत्पभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव।
अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ।।
एष पाण्डुसुतो वीर कृष्णेन सहितो बली ।
तथा करोति सैन्यानि यथा कुर्याद्धऩञ्जयः ।।
न ह्येष समरे शक्यो विजेतुं हि कथंचन ।
यथास्य दृश्यते रूप कालान्तकयमोपमम् ।।
न निवर्तयितुं चापि शक्येयं महती चमूः ।
अन्योन्यप्रेया पश्य द्रवतीयं वरूथिनी ।।
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते।
चक्षूंषि सर्वलोकस्य संहरन्निव सर्वथा ।।
तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ ।
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन ।।
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् ।
अवहारमथो चक्रे तावकानां महारथः ।।
`ततः सरथनागाश्वा जंय प्राप्य समोपकाः।
पाञ्चालाः पाण्डवाश्चैव प्रणेदुश्च पुनः पुनः ।।
प्रययुः शिबिरायैव धनञ्जयपुरस्कृताः।
वादित्रघोषैः संहृष्टा प्रणद्यन्तो महारथाः ।।'
ततोऽवहारः सैन्यानां तव तेषां च भारत।
अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
द्वितीयदिवसयुद्धे प़ञ्चपञ्चाशोऽध्यायः ।।
।। इति द्वितीयदिवसयुद्धम् ।।