भीष्मपर्व

अध्यायः ५४

Bhishma Parva (Sanskrit) · Adhyaya 54
अक्षर का आकार

धृतराष्ट्र उवाच।

मम पुत्रसमादिष्टः कलिङ्गोः वाहिनीपतिः।
कथमद्भुतकर्माणं भीमसेनं महाबलम् ।।

चरन्तं गदया वीर दण्डहस्तमिवान्तकम् ।
योधयामास समरे कलिङ्गः सह सेनया ।।

सञ्जय उवाच।

पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः ।
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ।।

तामापतन्तीं महतीं कलिङ्गानां महाचमूम्।
रथाश्वनागकलिलां प्रगृहीतमहायुधाम् ।।

भीमसेनः कलिङ्गानामार्च्छद्भारत वाहिनीम् ।
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ।।

ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह।
आससाद रणे भीमं व्यूढानीकेषु चेदिषु ।।

रथैरनेकसाहस्रैः कलिङ्गानां नराधिप ।
अयुतेन गजानां च निषादैःक सह केतुमान् ।।

भिमसेनं रणे राजन्समन्तात्पर्यवारयत् ।
चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः ।।

अभ्यधावन्त समरे निषादान्सह राजभिः ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ।।

न प्राजानन्त योधाः स्वान्परस्परजिघांसया ।
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः ।।

यथेन्द्रस्य महाराज महत्या दैत्यसेनया।
तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत ।।

बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः।
अन्योन्यं स्म तदा योधा विकर्षन्तो विशांपते ।।

महीं चक्रुश्चितां सर्वां शशलोहितसन्निभाम् ।
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया ।।

स्वानप्याददते स्वाश्च शूराः परमदुर्जयाः।
विमर्दः सुमहानासीदल्पानां बहुभिः सह ।।

कलिङ्गैः सह चैदीनां निषादैश्च विशांपते ।
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः ।।

भीमसेनं परित्यज्य संन्यवर्तनक्त चेदयः।
सर्वैः कलिङ्गैरासन्नः सन्निवृत्तेषु चेदिषु ।।

स्वबाहुबलमस्थाय अभ्यवर्षन्त पाण्डवम् ।
न चचाल रथोपस्थाद्भीमसेनो महाबलः ।।

शितैरवाकिरद्बाणैः कलिङ्गानां वरूथिनीम् ।
कालिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः ।।

शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः।
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः ।।

योधयामास कालिङ्गं स्वबाहुबलमाश्रितः।
शक्रदेवस्तु समरे विसृजन्सायकान्बहून् ।।

अश्वाञ्जघान समरे भीमसेनस्य सायकैः।
तं दृष्ट्वा विरथं तत्र भीमसेनमरिन्दमम् ।।

शक्रदेवोऽभिदुद्राव शरैरवकिरञ्सितैः।
भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः ।।

ववर्ष शरवर्षाणि तपान्ते जलदो यथा।
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः ।।

शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्।
स तया निहतो राजन्कालिङ्गतनयो रथात् ।।

विरथः सह सूतेन जगाम धरणीतलम्।
कहतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः ।।

रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ।
`अयुतेन गजानां च निषादैः परिवारितः।'
ततो भीमो महावेगां त्यक्त्वा गुर्वी महागदां ।।

निस्त्रिंशमाददे घोरं चिकीर्षुः कर्म दारुणम् ।
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ ।।

नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ।
कालिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य च ।।

प्रगृह्य च शरं घोरमेकं सर्पविषोपमम्।
प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ।।

तमापतन्तं वेगेन प्रेरितं निशितं शरम्।
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ।।

उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ।
कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे ।।

तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्।
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः ।।

चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना।
नित्यत्य तु रणे भीमस्तोमरान्वै चतुर्दश ।।

भानुमन्तं ततो भीमः प्राद्रवत्पुरुषर्षभः ।
भानुमांस्तु ततो भीमं शरवर्षेण च्छादयन् ।।

ननाद बलवन्नादं नादयानो नभस्तलम्।
न च तं ममृषे भीमः सिंहनादं महाहवे।।

ततः शब्देन महता विननाद महास्वनः।
तेन नादेन वित्रस्ता कलिङ्गानां वरूथिनी ।।

न भीमं समरे मेने मानुषं भरतर्षभ ।
ततो भीमो महाबाहुर्नर्दित्वा विपुलं स्वनम् ।।

सासिर्वेगवदाप्लुत्य दन्ताभ्यां वारणोत्तमम् ।
आरुरोह ततो मध्यं नागराजस्य मारिष ।।

ततो मुमोच कालिङ्गः शक्तिं तामकरोद्द्वीधा ।
खङ्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ।।

सोऽन्तरायुधिनं हत्वा राजपुत्रमरिन्दमः।
गुरुभारसहे स्कन्धे नागस्यासिमपातयत् ।।

छिन्नस्कन्धः स विनदन्पपात गजयूथपः।
आरुगणः सिन्धुवेगन सानुमानिव पर्वतः ।।

ततस्तस्मादप्लुत्य गजाद्भारत भारतः।
खङ्गपाणिरदीनात्मा तस्थौ भूमौ सुदंशितः ।।

स चचार बहून्मार्गानभितः पातयन्गजान् ।
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ।।

अश्वबृन्देषु नागेषु रथानीकेषु चाभिभूः ।
पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः।

श्येनवद्व्यचरद्भीमो रणेऽरिषु बलोत्कटः।
छिन्दंस्तेषाकं शरीराणि शिरांसि च महाबलः ।।

खङघ्गेकन शितधारेण संयुगे गजयोधिनाम्।
पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः।।

संमाहयामास स तान्कालान्तकयमोपमः।
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् ।।

सासिमुत्तमवेगेन विचरन्तं महारणे।
निकृत्य रथिनां चाजौ रथेषाश्च युगानि च ।।

जघान रथिनश्चापि बलवान्रिपुमर्दनः।
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत।।

भ्रान्तमाविद्धमुद्भ्रान्तमाप्लुतं प्रसृतं प्लुतम् ।
संपातं समुदीर्णं च दर्शयामास पाण्डवः ।।

केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना।
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ।।

छइन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथाऽपरे ।
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ।

निपेतुरुर्व्यां च तथा विनदन्तो महारवान्।
छिन्नांश्च तोमरान्राजन्महामात्रशिरांसि च ।।

परिस्तोमान्विचित्रांश्च कक्ष्याश्च कनकोज्ज्वलाः।
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा ।।

तूणीरानथ यन्त्राणि धनूंषि च।
भिन्दिपालानि शुभ्राणि तोत्राणि चाङ्कुशैः सह ।।

घण्टाश्च विविधा राजन्हेमगर्भान्त्सरूनपि ।
पततः पातितांश्चैव पश्यामः सह सादिभिः ।।

छिन्नगात्रावरकरैर्निहतैश्चाप वारणैः ।।
आसीद्भूमिःक समास्तीर्णा पतितैर्भूधरैरिव ।।

विमृद्यैवं महानागान्ममर्दाश्वान्महाबलः ।
अश्वारोहवरांश्चैव पातयामास संयुगे ।।

तद्धोरमभवद्युद्धं तस्य तेषां च भारत।
खलीनान्यथ योक्राणि कक्ष्याश्च कनकोज्ज्वलाः ।।

परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः।
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च ।।

तत्रतत्रापविद्धआनि व्यदृश्यन्त महाहवे।
प्रासैर्यन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा ।।

स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ।
आप्लुत्य रथिनः काश्चित्परामृश्य महाबलः ।।

पातयामास खङ्गेन सध्वजानपि पाण्डवः।
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनःक ।।

मार्गांश्च चरतश्चित्रं व्यस्मयन्त रणे जनाः ।
स जघान पदा कांश्चिद्व्याक्षिप्यान्यानपोथयत् ।।

खह्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्।
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले ।।

अपरे चैनमालोक्य भयात्पञ्चत्वमागताः।
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् ।।

परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्।
ततः कालिङ्गयैन्यानां प्रमुखे भरतर्षभ ।।

श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्।
तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः ।

भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ।
कलिङ्गबाणाभिहतस्तोत्रार्दित इव द्विपः ।।

भीमसेनः प्रजज्वाल क्रोदेनाग्निरिवैधितः।
अथाशोकः समादाय रथं हेमपरिष्कृतम् ।।

भीमं संपादयामास रथेन रथसारथिः।
तामरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः ।।

कलिङ्गमभिदुद्राव तिष्ठितिष्ठेति चाब्रवीत् ।
ततः श्रुतायुर्बलावान्भीमाय निशिताञ्शरान् ।।

प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम्।
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः ।।

समाहतो महाराज कलिङ्गेन महात्मना ।
संचुक्रुशे भृशं भीमो दण्डाहत इवोरगः ।।

क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः।
कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ।।

क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ ।
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ।।

ततः पुनमेयात्मा नासचैर्निशितैस्त्रिभिः ।
केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ।।

ततः कलिङ्गाः सन्नद्धा भीमसेनममर्षणम् ।
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ।।

ततः शक्तिगदाखङ्गतोमरर्ष्टिपरश्वथैः ।
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ।।

संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्।
गदामादाय तरसा संनिपत्य महाबलः ।।

भीमः सप्तशतान्वीराननयद्यमसादनम् ।
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः ।।

प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत्।
एवं स तान्यनीकानि कलिङ्गानां पुनःपुनः ।।

बिभेद समरे तूर्णं प्रेक्ष्य भीष्मं महारथम् ।
हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे ।।

विप्रजग्मुरनीकेषु मेघा वातहता इव।
मृद्गन्तः स्वान्यनीकानि विनदन्तः शरातुराः ।।

ततो भीमो महाबाहुः खङ्गहस्तो महाभुजःक ।
संप्रहृष्टो महाघोषं शङ्खं प्राध्मापयद्बली ।।

सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ।
मोहश्चापि कलिङ्गानामाविवेश परंतप ।।

प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ।
भीमेन समरे राजन्गजेन्द्रेणेव सर्वशः ।।

मार्गान्बहून्विचरता धावता च ततस्ततः।
मुहुरुत्पतता चैव संमोहः समपद्यत।।

भीमसेनभयत्रस्तं सैन्यं च समकम्पत।
क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः ।।

त्रासितेषु च सर्वेषु भीमेनाद्भुतकर्मणा ।
पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ।।

सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः ।
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ।।

सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः।
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ।।

धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः।
महता मेघवर्णेन नागानीकेन पृष्ठतः।।

एवं संनोद्य सर्वामि स्वान्यनीकानि पार्षतः।
भीमसेनस्य जग्राह पार्ष्णि सत्पुरुषैर्वृतः ।।

न हि पञ्चालराजस्य लोके कश्चन विद्यते।
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ।।

सोऽपश्यच्च कलिङ्गेषु चरन्तमरिसूदनः ।
भीमसेनं महाबाहुं पार्षतः परवीरहा ।।

ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः।
शङ्खं दध्मौ च समरे सिंहनादं ननाद च ।।

स च पारावताश्वस्य रथे हेमपरिष्कृते।
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ।

धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् ।।
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ।।

तौ दूरात्सात्यकिं दृष्ट्वा धृष्टद्युम्नवृकोदरौ ।
कलिङ्गान्समरे वीरौ योधयेतां मनस्विनौ ।

स तत्र गत्वा शैनेयो जवेन जयतां वरः।
पार्थपार्षतयोः पार्षिं जग्राह पुरुषर्षभः ।।

स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः ।
आस्थितो रौद्रमात्मानं कलिङ्गानन्ववैक्षत ।।

कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्।
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ।।

अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्।
तां संततार दुस्तारां भीमसेनो महाबलः ।।

भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप।
कालोऽयं भीमरूपेण कलिङ्गैः कसह युध्यते ।।

ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे।
अभ्ययात्त्वरितो भीमं व्यूढानीकः समंततः ।।

तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः ।
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ।।

परिवार्य तु ते सर्वे गाङ्गेयं तरसा रणे।
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्च्छुरोजसा ।।

प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव ।
यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ।।

ततः शरसहस्रेण सन्निवार्य महारथान् ।
हयान्काञ्चनसन्नाहान्भीमस्य न्यहनच्छरैः ।।

हताश्वे स रथे तिष्ठन्भीमसेनः प्रतापवान् ।
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ।।

अप्राप्तामथ तां शक्तिं पिता देवव्रतस्तव ।
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ।।

ततः शैक्यायसीं गुर्वी प्रगृह्य बलवान्गदाम् ।
भीमसेनस्ततस्तूर्णं पुप्लुवे मनुजर्षभ ।।

सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया ।
गाङ्गेयसारथिं तूर्णं पातयामास सायकैः ।।

भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः ।
वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ।।

भीमसेनस्ततो राजन्नपयाते महाव्रते ।
प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ।।

स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत।
नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ।।

धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः।
पश्यतां सर्वसैन्यानामपोवाहक यशस्विनम् ।।

संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ ।
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ।।

अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः ।
प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ।।

दिष्ट्या कालिङ्गराजश्च राजपुत्रश्च केतुमान ।
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ।।

स्वबाहुबलवीर्येण नागाश्वरथसंकुलः ।
महापुरुषभूयिष्ठो धीरयोधनिषेवितः ।।

महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ।
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दम।
रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ।।

ततः स्वरथमास्थाय पुनरेव महारथः ।
तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
द्वितीयदिवसयुद्धे चतुःपञ्चाशोऽध्यायः ।।