भीष्मपर्व

अध्यायः ४९

Bhishma Parva (Sanskrit) · Adhyaya 49
अक्षर का आकार

धृतराष्ट्र उवाच।

( श्वेते सेनापतौ तात संग्रमे निहते परैः।
किमकुर्वन्महेष्वासाः पाञ्चालाः पाण्डवैः सह ।।

सेनापतिं समाकर्ण्य श्वेतं युधि निपातितम् ।
तदर्थं यततां चापि परेषां प्रपलायिनाम् ।।

मनः प्रीणाति मे वाक्यं जयं संजय श्रृण्वतः।
प्रत्युपायं चिन्तयन्तः सञ्जनाः प्रस्रवन्ति मे ।।

स हि वीरोऽनुरक्तश्च वृद्धः कुरुपतिस्तदा ।
कृतं वैरं सदा तेन पितुः पुत्रेण धीमता ।।

तस्योद्वेगभयाच्चापि संश्रितः पाण्डवान्पुरा ।
सर्वं बलं परित्यज्य दुर्गं संश्रित्य तिष्ठति ।।

पाण्डवानां प्रतापेन दुर्गं देशं निवेश्य च ।
सपत्नान्सततं बाधन्नार्यवृत्तिमनुष्ठितः ।।

आश्चर्यं वै सदा तेषां पुरा राज्ञां सुदुर्मतिः।
ततो युधिष्ठिरे भक्तः कथं सञ्जय सूदितः ।।)

प्रक्षिप्तः संमतः क्षुद्रः पुत्रो मे पुरुषाधमः।
न युद्धं रोचयेद्भीष्मो न चाचार्यः कथंचन ।।

न कृपो न च गान्धारी नाहं सञ्जय रोचये ।
न वासुदेवो वार्ष्णेयो धर्मराजश्च पाण्डवः ।।

न भीमो नार्जुनश्चैव न यमौ पुरुषर्षभौ ।
वार्यमाणो मया नित्यं गान्धार्या विदुरेण च ।।

जामदग्न्येन रामेण व्यासेन च महात्मना ।
दुर्योधनो युध्यमानो नित्यमेव हि सञ्जय ।।

कर्णस्य मतमास्थाय सौबलस्य च पापकृत् ।
दुःशासनस्य च तथा पाण्डवान्नान्वचिन्तयत् ।।

तस्याहं व्यसनं घोरं मन्ये प्राप्तं तु सञ्जय ।
श्वेतस्य च विनाशेन भीष्मस्य विजयेन च ।।

संक्रुद्धः कृष्णसहितः पार्थः किमकरोद्युधि ।
अर्जुनाद्धि भयं भूयस्तन्मे तात न शाम्यति ।।

स हि शूरश्च कौन्तेयः क्षिप्रकारी धनंजयः ।
मन्ये शरैः शरीराणि शत्रूणां प्रमथिष्यति ।।

ऐन्द्रिमिन्द्रानुजसमं महेन्द्रसदृशं बले ।
अमोघक्रोधसंकल्पं दृष्ट्वा वः किमभून्मनः ।।

तथैव वेदविच्छूरो ज्वलनार्कसमद्युतिः ।
इन्द्रास्त्रविदमेयात्मा प्रपतन्समितिंजयः ।।

वज्रसंस्पर्शरूपाणामस्त्राणां च प्रयोजकः ।
सखङ्गाक्षेपहस्तस्तु घोषं चक्रे महारथः ।।

स सञ्जय महाप्राज्ञो द्रुपदस्यात्मजो बली ।
धृष्टद्युम्नः किमकरोच्छ्वेते युधि निपातिते ।।

पुरा चैवापराधेन वधेन च चमूपतेः ।
मन्ये मनः प्रजज्वाल पाण्डवानां महात्मनाम् ।।

तेषां क्रोधं चिन्तयंस्तु अहःसु च निशासु च ।
न शान्तिमधिगच्छामि दुर्योदनकृतेन हि ।
कथं चाभून्महायुद्धं सर्वमाचक्ष्व सञ्जय ।।

सञ्जय उवाच।

श्रृणु राजन्स्थिरो भूत्वा तवापनयनो महान् ।
न च दुर्योधने दोषमिमामाधातुमर्हसि ।।

गतोदके सेतुबन्धो यादृक्तादृङ्भतिस्तव।
संदीप्ते भवने यद्वत्कूपस्य खननं तथा ।।

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे ।
तावकानां परेषां च पुनर्युद्धमवर्तत ।।

श्वेतं तु निहतं दृष्ट्वा विराटस्य चमूपतिम् ।
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ।।

शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ।
स विस्फार्य महच्चापं शक्रचापोपमं बली ।।

अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं युधि ।
महता रथसङ्घेन समन्तात्परिरक्षितः ।।

सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति।
तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ।।

तावकानां रथाः सप्त समन्तात्पर्यवारयन् ।
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ।।

बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः।
तथा रुक्मरथो राजन्पुत्रः शल्यस्य मानितः ।।

विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणःक ।
बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ।।

नानाधातुविचित्राणि कार्मुकाणि महात्मनाम् ।
विस्फारितान्यदृश्यन्त तोयदेष्विव विद्युतः ।।

ते तु बाणमयं वर्षं शङ्खमूर्ध्निं न्यपातयन् ।
निदाघान्तेऽनिलोद्धृता मेघा इव नगे जलम् ।।

ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः ।
धनूंषि तेषामाच्छिद्य ननर्द पृतनापतिः ।।

ततो भीष्मो महाबाहुर्विनद्य जलदो यथा।
तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ।।

तमुद्यन्तमुदीक्ष्याथ महेष्वासं महाबलम् ।
संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः ।।

ततोऽर्जुनः संत्वरितः शङ्खस्यासीत्पुरःसरः ।
भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ।।

हाहाकारो महानासीद्योधानां युधि युध्यताम् ।
तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः ।।

अथ शल्यो गदापाणिरवतीर्य महारथात् ।
शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ।।

स हताश्वाद्रथात्तूर्णं खङ्गमादाय विद्रुतः ।
बीभत्सोश्च रथं प्राप्य पुनः शान्तिमविन्दत ।।

ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः ।
यैरन्तरीक्षं भूमिश्च सर्वतः समवस्तृता ।।

पञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् ।
भीष्मः प्रहरतां श्रेष्ठः पातयामास पत्रिभिः ।।

उत्सृज्य समरे राजन्पाण्डवं सव्यसाचिनम् ।
अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ।।

प्रियं संबन्धिनं राजञ्शरानवकिरन्बहून् ।
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये ।।

शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह।
अत्यतिष्ठद्रणे भीष्मो विधूम इव पावकः ।।

मध्यन्दिने यथाऽऽदित्यं तपन्तमिव तेजसा।
न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ।।

वीक्षांचक्रुः समंतात्ते पाण्डवा भयपीडिताः ।
त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ।।

सा तु यौधिष्ठिरी सेना गाङ्गेयशरपीडिता ।
सिंहेनेव विनिर्भिन्ना शुक्ला गौरिव गोपतेः ।।

हते विप्रुद्रुते सैन्ये निरुत्साहे विमर्दिते।
हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ।।

ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः ।
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ।।

शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः।
जघान पाण्डवरथानादिश्यादिश्य भारत ।।

ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः ।
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन ।।

भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे ।
अवहारमकुर्वन्त सैन्यानां भरतर्षभ ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
प्रथमदिवसयुद्धे एकोनपञ्चाशोऽध्यायः ।।

।। इति प्रथमदिवसयुद्धम् ।।