भीष्मपर्व

अध्यायः ५०

Bhishma Parva (Sanskrit) · Adhyaya 50
अक्षर का आकार

सञ्जय उवाच।

कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ ।
भीष्मे च युद्धसंरब्धे हृष्टे दुर्योधने तथा ।।

धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् ।
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ।।

शुचा परमया युक्तश्चिन्तयानः पराजयम्।
वार्ष्णेयमब्रवीद्रजान्दृष्ट्वा भीष्मस्य विक्रमम् ।।

कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् ।
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ।।

कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् ।
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ।।

एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् ।
दृष्ट्वा विप्रद्रुर्त सैन्यं समरे मार्गणाहतम् ।।

शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे ।
वरुणः पाशभृद्वापि कुबेरो वा गदाधरः ।।

न तु भीष्मो महाजेताः शक्यो जेतुं महाबलः ।
सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लुवे ।।

आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव ।
वनं यात्सामि वार्ष्णेय श्रेयो मे तत्र जीवितुम् ।।

न त्वेतान्पृथिवीपालान्दातुं भीष्माय मृत्यवे ।
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ।।

यथाऽनलं प्रज्वलितं पतङ्गाः समभिद्रुताः ।
विनाशायोपगच्छन्ति तथा मे सनिको जनः ।।

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातश्चैव मे वीराः कर्शिताः शरपीडिताः ।।

मत्कृते भ्रातृहार्देन राज्याद्भ्रष्टास्तथा सुखात्।
जीवितं बहुमन्येऽहं जीवितं ह्यद्य दुर्लभम् ।।

जीवितस्य च शेषेण तपस्तप्स्यामि दुश्चरम् ।
न घातयिष्यामि रणे मित्राणीमानि केशव ।।

रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः ।
घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ।।

किं नु कृत्वा हितं मे स्याद्ब्रूहि माधव माचिरम् ।
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ।।

एको भीमः परं शक्त्या युध्यत्येव महाभुजः ।
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ।।

गदया वीरघातिन्या यथोत्साहं महामनाः ।
करोत्यसुकरं कर्म रथाश्वनरपङ्क्तिषु ।।

नालमेष क्षयं कर्तुं परसैन्यस्य मारिष ।
आर्जवेनैव युद्धेन वीर वर्षशतैरपि ।।

एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते ।
निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ।।

दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः ।
धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ।।

कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः ।
क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ।।

स त्वं पश्य महाभाग योगेश्वर महारथम् ।
भीष्मं यः शमयेत्संख्ये दावाग्निं जलदो यथा ।।

तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः ।
स्वराज्यमनुसंप्राप्ता मोदिष्यन्ते सबान्धवाः ।।

एवमुक्त्वा ततः पार्थो ध्यान्नास्ते महामनाः ।
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ।।

शोकार्तं तमथो ज्ञात्वा दुःखोपहतचेतसम् ।
अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ।।

माशुचो भरतश्रेष्ट न त्वं शोचितुमर्हसि ।
यस्य ते भ्रातरः शूराः सर्वलोकेषु धन्विनःक ।।

अहं च प्रियकृद्राजन्सात्यकिश्च महायशाः ।
विराटद्रुपदौ चेमौ धृष्टद्युम्नश्च पार्षतः ।।

तथैव सबलाश्चेमे राजानो राजसत्तम।
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशांपते ।।

एष ते पार्षतो नित्यं हितकामः प्रिये रतः ।
सैनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ।।

शिखण्डी च महाबाहो भीष्मस्य निधनं किल।
एतच्छ्रुत्वा ततो धर्मो धृष्टद्युम्नं महारथम् ।
अब्रवीत्समितौ तस्यां वासुदेवस्य श्रृण्वतः ।।

धृष्टद्युम्न निबोधेदं यत्त्वां वक्ष्यामि मारिष।
नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ।।

भवान्सेनापतिर्मह्यं वासुदेवेन संमितः।
कार्तिकेयो यथा नित्यं देवानामभवत्पुरा ।।

तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ।
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् ।।

अहं च तेऽनुयास्यामि भीमः कृष्णश्च मारिष ।
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः ।।

ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ।
तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत ।।

अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा।
रणे भीष्मं कृपं द्रोणं तथा शल्यं जयद्रथम् ।।

सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव ।
अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः ।।

समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ।
तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् ।।

व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ।
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् ।।

तं यथावत्प्रतिव्यूहं परानीकविनाशनम् ।
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ।।

यथोक्तः स नृदेवेन विष्णुर्वज्रभृता यथा।
प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् ।।

आदित्यपथगः केतुस्तस्याद्भुतमनोरमः ।
शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ।।

इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः ।
आकाशग इवाकाशे गन्धर्वनगरोपमः ।।

नृत्यमान इवाभाति रथचर्यासु मारिष ।
तेन रत्नवता पार्थः स च गाण्डीवधन्वना ।।

बभूव परमोपेतः सुमेरुरिव भानुना ।
शिरोभूद्द्रुपदो राजा महत्या सेनया वृतः ।।

कुन्तिभोजश्च चैद्यश्च चक्षुर्भ्यां तौ जनेश्वरौ ।
दाशार्णकाः प्रभद्राश्च दाशेरकगणैः सह ।।

अनूपकाः किराताश्च ग्रीवायां भरतर्षभ ।
पटच्चरैश्च पौण्ड्रैश्च राजन्पौरवकैस्तथा ।।

निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः।
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।।

द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ।
पिशाचा दारदाश्चैव पुण्ड्राः कुण्डीविषैः सह ।।

मारुता धेनुकाश्चैव तंगमाः परतंगणाः ।
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ।।

एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः ।
अग्निवेशास्तुद्दुण्डाश्च मालवा दानभारयः ।।

शबरा उद्भसाश्चैव वत्साश्च सह नाकुलैः ।
नकुलः सहदेवश्च वामं पक्षं समाश्रिताः ।।

रथानामयुतं पक्षौ शिरस्तु नियुतं तथा।
पृष्ठमर्बुदमेवासीत्सहस्रामि च विंशतिः ।।

ग्रीवायां नियुतं चापि सहस्रामि च सप्ततिः ।
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः ।।

जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ।
जघनं पालयामास विराटः सह केकयैः ।।

काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः ।
एवमेनं महाव्यूहं व्यूह्य भारत पाण्डवाः ।।

सूर्योधयं त इच्छतः स्थिता युद्धाय दंशिताः ।
तेषामादित्यवर्मानि विमलानि महान्ति च ।
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
द्वितीयदिवसयुद्धे पञ्चाशोऽद्यायः ।।