भीष्मपर्व
अध्यायः ४८
धृतराष्ट्र उवाच।
एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति।
कुरवः पाण्डवेयाश्च किमकुर्वत सञ्जय ।।
भीष्मः शान्तनवः किं वा तन्ममाचक्ष्व पृच्छतः ।
सञ्जय उवाच।
राजञ्शतसहस्राणि ततः क्षत्रियपुङ्गवाः ।।
श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः ।
राज्ञो बलं दर्शयन्तस्तव पुत्रस्य भारत ।।
शिखण्डिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः ।
अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम् ।।
जिघांसन्तं युधांश्रेष्ठं तदासीत्तुमुलं महत् ।
तत्तेऽहं संप्रवक्ष्यामि महावैशसमच्युत ।।
तावकानां परेषां च यथा युद्धमवर्तत ।
तत्राकरोद्रथोपस्थाञ्शून्याञ्शान्तनवो बहून् ।।
तत्राद्भुतं महच्चक्रे शरैरार्च्छद्रथोत्तमान् ।
समावृणोच्छरैरर्कमर्कतुल्यप्रतापवान् ।।
नुदन्समन्तात्समरे रविरुद्यन्यथा तमः ।
तेनाजौ प्रेषिता राजञ्शराः शतसहस्रशः ।।
क्षत्रियान्तकराः सङ्ख्ये महावेगा महाबलाः ।
शिरांसि पातयामासुर्वीराणां शतशो रणे ।।
गजान्कण्टकसन्नाहान्वज्रेणेव शिलोच्चयान् ।
रथा रथेषु संसक्ता व्यदृश्यन्त विशांपते ।।
एके रथं पर्यवहंस्तुरगाः सतुरंगमम् ।
युवानं निहतं वीरं लम्बमानं सकार्मुकम् ।।
उदीर्णाश्च हया राजन्वहनक्तस्तत्रतत्र ह।
बद्धस्वङ्गनिषङ्गाश्च विध्वस्तशिरसो हताः ।।
शतशः पतिता भूमौ वीरशय्यासु शेरते ।
परस्पेरण धावन्तः पतिताः पुनरुत्थिताः ।।
उत्थाय च प्रधावन्तो द्वन्द्वयुद्धमवाप्नुवन् ।
पीडिताः पुनरन्योन्यं लुठन्तो रणमूर्धनि ।।
सचापाः सनिषङ्गाश्च जातरूपपरिष्कृताः ।
विस्रब्धहतवीराश्च शतशः परिपीडिताः ।।
तेनतेनाभ्यधावन्त विसृजन्तश्च भारत ।
मत्तो गजः पर्यवर्तद्धयांश्च हतसादिनः ।।
सरथा रथिनश्चापि विमृद्गन्तः समन्ततः ।
स्यान्दनादपतत्कश्चिन्निहतोऽन्येन सायकैः ।।
हतसारथिरप्युच्चैः पपात काष्ठवद्रथः ।
युध्यमानस्य संग्रामे व्यूढे रजसि चोत्थिते ।।
धनुःकूजितविज्ञानं तत्रासीत्प्रतियुद्ध्यतः।
गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम् ।।
युद्ध्यमानं शरै राजन्सिञ्जिनीध्वजिनीरवात्।
अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः ।।
शब्दायमाने संग्रामे पटहे कर्णदारिणि।
युध्यमानस्य संग्रामे कुर्वतः पौरुषं स्वकम् ।।
नाश्रौषं नामगोत्राणि कीर्तनं च परस्परम् ।
भीष्मचापच्युतैर्बाणैरार्तानां युध्यतां मृधे ।।
परस्परेषां वीराणां मनांसि समकम्पयन् ।
तस्मिन्नत्याकुले युद्धे दारुणे रोमहर्षणे ।।
पिता पुत्रं च समरे नाभिजानाति कश्चन ।
चक्रे भग्ने युगे च्छिन्ने एकधुर्ये हये हतः ।।
आक्षिप्तः स्यन्दनाद्वीरः समारथिरजिह्मगैः।
एवं च समरे सर्वे वीराश्च विरथीकृताः ।।
तेन तेन स्म दृश्यन्ते धावमानाः समंततः ।
गजो हतः शिरश्छिन्नं मर्म भिन्नं हयो हतः ।।
अहतः कोपि नैवासीद्भीष्मे नघ्नति शात्रवान् ।
श्वेतः कुरूणामकरोत्क्षयं तस्मिन्महाहवे ।।
राजपुत्रान्रथोदारानवधीच्छतसङ्घशः।
चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ ।।
साङ्गदा बाहवश्चैव धनूंषि च समंततः।
रथेषां रथचक्राणि तूणीराणि युगानि च ।।
छत्राणि च महार्हाणि पताकाश्च विशांपते।
हयैघाश्च रथौघाश्च नरौघाश्चैव भारत ।।
वारणाः शतशश्चैव हताः श्वेतेन भारत ।
वयं श्वेतभयाद्भीता विहाय रथसत्तमम् ।।
अपयातास्तथा पश्चाद्विभुं पश्याम धृष्णवः ।
शरपातमतिक्रम्य कुरवः कुरुनन्दन ।।
भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः ।
अदीनो दीनसमये भीष्मोऽस्माकं महाहवे ।।
एकस्तस्थौ नरव्याघ्रो गिरिर्मेरुरिवाचलः।
आददान इव प्राणान्सविता शिशिरात्यये ।।
गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान्।
स मुमोच महेष्वासः शरसङ्घाननेकशः ।।
निघ्नन्नमित्रान्समरे वज्रपाणिरिवासुरान् ।
ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम् ।।
स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम् ।
तमेवमुपलक्ष्यैको हृष्टः पुष्टः परंतप ।।
दुर्योधनप्रिये युक्तः पाण्डवान्परिशोचयन्।
जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे ।।
पातयामास सैन्यानि पाण्डवानां विशांपते ।
प्रहरन्तमनीकानि पिता देवव्रतस्तव ।।
दृष्ट्वा सेनापतिं भीष्मस्त्वरितः श्वेतमभ्ययात्।
स भीष्मं शरजालेन महता समवाकिरत् ।।
श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत् ।
तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ ।।
व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः ।
अस्त्रैरस्त्राणि संवार्य ततस्तौ पुरुषर्षभौ ।।
भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ ।
एकाह्ना निर्दहेद्भीष्मः पाम्डवानामनीकिनीम् ।।
शरैः परमसंक्रुद्धो यदि श्वेतो न पालयेत्।
पितामहं ततो दृष्ट्वा श्वेतो विमुखीकृतम् ।।
प्रहर्षं पाण्डवा जग्मुः पुत्रस्ते विमनाभवत्।
ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः ।।
ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे।
दुर्मुखः कृतवर्मा च कृपः शल्यो विशांपतिःक ।।
भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः।
दृष्ट्वा तु पार्थिवैः सर्वैर्दुर्योधनपुरोगमैः ।।
पाण्डवानामनीकानि वध्यमानानि संयुगे।
श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम् ।।
नाशयामास वेगेन वायुर्वृक्षानिवौजसा ।
द्रावयित्वा चमूं राजन्वैराटिः क्रोधमूर्च्छितः ।।
आपतत्सहसा भूयो यत्र भीष्मो व्यवस्थितः ।
तौ तत्रोपगतौ राजञ्शरदीप्तौ महाबलौ ।।
अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ ।
अन्योन्यं तु महाराज परस्परवधैषिणौ ।।
निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः ।
पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी।।
तरसा वारयामास मत्तो मत्तमिव द्विपम्।
श्वेतः शान्तनवं भूयः शरैः सन्नतपर्वभिः ।।
विव्याध प़ञ्चविंशत्या तदद्भुतमिवाभवत्।
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवस्तदा ।।
स विद्धस्तेन बलवान्नाकम्पत यथाऽचलः ।
वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम् ।।
आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः।
संप्रहस्य तत श्वेतः सृक्किणी परिसंलिहन् ।।
घनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः ।
संधाय विशिखं चैव शरं लोमप्रवाहिनम् ।।
उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः ।
केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव ।।
हतं भीष्मममन्यन्त श्वेतस्य वशमागतम्।
पाण्डवाश्चापि संहृष्टा दध्मुः शङ्खान्मुदा युताः ।।
भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः ।
ततो दुर्योधनः क्रोधात्स्वमनीकमनोदयत् ।।
यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समंततः।
मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति ।।
भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः।
राज्ञस्तु वचनं श्रत्वा त्वरमाणा महारथाः ।।
बलेन चतुरङ्गेण गाङ्गेयप्रन्वपालयन्।
बाह्लीकः कृतवर्मा च शलः शल्यश्च भारत ।।
जलसन्धो विकर्णश्च चित्रसेनो विविंशतिः।
त्वरमाणास्त्वराकाले परिवार्य समंततः ।।
शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्यपातयन्।
तान्क्रुद्धो निशितैर्बाणैस्त्वरमाणो महारथः ।।
अवारयदमेयात्मा दर्शयन्पाणिलाघवम् ।
स निवार्य तु तान्सर्वान्केसरी कुञ्जराविव ।।
महता शरवर्षेण भीष्मस्य धनुराच्छिनत्।
ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि ।।
श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः ।
ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः ।।
विव्याध समरे राजन्सर्वलोकस्य पश्यतः ।
ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम् ।।
प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा।
निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत् ।।
तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् ।
हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम् ।।
ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव ।
ध्वजमुन्मतितं दृष्ट्वा तां च सेनां निवारिताम् ।।
श्वेतं प्रति महाराज व्यसृजत्प्तायकान्बहून् ।
तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः ।।
धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव।
उत्सृज्य कार्मुकं राजन्गाङ्गेयः क्रोधमूर्च्छितः ।।
अन्यत्कार्मुकमादाय विपुलं बलवत्तरम्।
तत्र संधाय विपुलान्भल्लान्सप्त शिलाशितान् ।।
चतुर्भिश्च जघानाश्वाञ्श्वेतस्य पृतनापतेः ।
ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथे ।।
शिरश्चिच्छेद भल्लेन संक्रुद्धोऽलघुविक्रमः ।
हताश्वसूतात्सु रथादवप्लुत्य महाबलः ।।
अमर्षवशमापन्नो व्याकुलः समपद्यत ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः ।।
ताडयामास निशितैः शरसङ्घैः समंततः ।
स ताड्यमानः समरे भीष्मचापच्युतैः शरैः ।।
स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम् ।
ततः शक्तिं रणे श्वेतो जग्राहोग्रं महाभयाम् ।।
कालदण्डोपमां घोरां मृत्योर्जिह्वामेव श्वसन् ।
अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे ।।
तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव।
एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी ।।
ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम्।
पाण्डवार्थे पराक्रान्तस्तवानर्थं चिकीर्षुकः ।।
हाहाकारो महानासीत्पुत्राणां ते विशांपते ।
दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम् ।।
श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसन्निभाम् ।
अपतत्सहसा राजन्महोल्केव नभस्तलात् ।।
ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम् ।
असंभ्रान्तस्तदा राजन्पिता देवव्रतस्तव ।।
अष्टभिर्नवभिर्भीष्मः शक्तिं चिच्छेद पत्रिभिः ।
उत्कृष्टहेमविकृतां निकृतां निशितैः शरैः ।।
उच्चुक्रुशुस्ततः सर्वे तावका भरतर्षभ ।
शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्च्छितः ।।
कालोपहतचेतास्तु कर्तवक्यं नाभ्यजानत।
क्रोधसंमूर्च्छितो राजन्वैराटिः प्रहसन्निव ।।
गदां जग्राह संहृष्टो भीष्मस्य निधनं प्रति।
क्रोधेन रक्तनयनो दण्डपाणिरिवान्तकः ।।
भीष्मं समिदुद्राव जलौघ इव पर्वतम्।
तस्य वेगमसंवार्यं मत्वा भीष्मः प्रतापवान् ।।
प्रहारविप्रमोक्षार्थं सहसा धरणींगतः।
श्वेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम् ।।
रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः ।
तया भीष्मनिपातिन्या स रथो भस्मसात्कृतः ।।
सध्वजः सह सूतेन साश्वः सयुगबन्धुरः ।
विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमकाः ।।
अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः।
ततोऽन्यं रथमास्थाय धनुर्विस्फार्य दुर्मनाः ।।
शनकैरभ्यायाच्छ्वेतं गाङ्गेयः प्रहसन्निव।
एतस्मिन्नन्तरे भीष्मः शुश्राव विपुलां गिरम् ।।
आकाशादीरितां दिव्यामात्मनो हितसंभवाम् ।
भीष्मभीष्म महाबाहो शीघ्रं यत्नं कुरुष्व वै ।।
एष ह्यस्य जये कालो निर्दिष्टो विश्वयोनिना ।
एतच्छ्रुत्वा तु वचनं देवदूतेन भाषितम् ।।
संप्रहृष्टमना भूत्वा वधे तस्य मनो दधे ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम् ।।
सहितास्त्वभ्यवर्तन्त परीप्सन्तो महारथाः ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।।
कैकेयो धृष्टकेतुश्च अभिमन्युश्च वीर्यवान्।
एतानापततः सर्वान्द्रोणशल्यकृपैः सह ।।
अवारयदमेयात्मा वारिवेगानिवाचलः ।
स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु ।।
श्वेतः खङ्गमथाकृष्य भीष्मस्य धनुराच्छिनात्।
तदपास्य धनुश्छिन्नं त्वरमाणः पितामहः ।।
देवदूतवचः श्रुत्वा वधे तस्य मनो दधे ।
ततः प्रचरमाणस्तु पिता देवव्रतस्तव ।।
अन्यत्कार्मुकमादाय त्वरमाणो महारथः।
क्षणेन सज्यमकरोच्छक्रचापसमप्रभम् ।।
पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः ।
वृतं तं मनुजव्याघ्रैर्भीमसेनपुरोगमैःक ।।
अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् ।
आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान् ।।
आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः ।
अभिमन्युं च समरे पिता देवव्रतस्तव ।।
आजघ्ने भरतश्रेष्ठस्त्रिभिः सन्नतपर्वभिः ।
सात्यकिं च शतेनाजौ भरतानां पितामहः ।।
धृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः ।
तांश्च सर्वान्महेष्वासान्पिता देवव्रतस्तव ।।
वारयित्वा शरैर्घोरैः श्वेतमेवाभिदुद्रुवे।
ततः शरं मृत्युसमं भारसाधनमुत्तमम् ।।
विकृष्य बलवान्भीष्मः समाधत्त दुरासदम्।
ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम् ।।
ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः ।
स तस्य कवचं भित्वा हृदयं चामितौजसः ।।
जगाम धरणीं बाणो महाशनिरिव ज्वलन्।
अस्तं गच्छन्यथाऽऽदित्यः प्रभाप्रादाय सत्वरः ।।
एवं जीवितमादाय श्वेतदेहाञ्जगाम ह।
तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि ।।
प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम्।
अशोचन्पाण्डवास्तत्र क्षत्रियाश्च महारथाः ।।
प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः ।
ततो दुःशासनो राजञ्श्वेतं दृष्ट्वा निपातितम् ।।
वादित्रनिनदैर्घोरैर्नृत्यति स्म समंततः ।
तस्मिन्हते महेष्वासे भीष्मेणाहवशोभिना ।।
प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः ।
ततो धनंजयो राजन्वार्ष्णेयश्चापि सर्वशः ।।
अवहारं शनैश्चक्रुर्निहते वाहिनीपतौ।
ततोऽवहारः सैन्यानां तव तेषां च भारत ।।
तावकानां परेषां च नर्दतां च मुहुर्मुहुः ।
पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः ।
चिन्तयन्तो वधं घोरं द्वैरथेन परंतपाः ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
प्रथमदिवसयुद्धे अष्टचत्वारिंशोऽध्यायः ।।