भीष्मपर्व
अध्यायः ४७
सञ्जय उवाच।
गतपूर्वाह्णभूयिष्ठि तस्मिन्नहनि दारुणे।
वर्तमाने तथा रौद्रे महावीरवरक्षये ।।
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः।
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ।।
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभः ।
पाण्डवानामनीकानि विजगाहे महारथः ।।
चेदिकाशिकरूषेषु पञ्चालेषु च भारत ।
भीष्मस्य बहुधा तालश्चलत्केतुरदृश्यत ।।
स शिरांसि रणेऽरीणां रथांश्च सयुगध्वजान् ।
निचकर्त महावेगैर्भल्लैः सन्नतपर्वभिः ।।
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ ।
भृशमार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ।।
अभिमन्युः सुसंक्रुद्धः पिशह्गैस्तुरगोत्तमैः ।
संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ।।
जाम्बूनदविचित्रेण कर्णिकारेण केतुना ।
अभ्यवर्तत भीष्मं च तांश्चैव रथसत्तमान् ।।
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा ।
भीष्मेण युयुधे वीरस्तस्य चानुरथैः सह ।।
कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः ।
विद्ध्वा नवभिरानर्च्छच्छिताग्रैः प्रतिपामहम् ।।
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च।
ध्वजमेकेन विव्याध जाम्बूनदपरिष्कृतम् ।।
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना ।
जहार सारथेः कायाच्छिरः सन्नतपर्वणा ।।
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम्।
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ।।
जघान परमक्रुद्धो नृत्यन्निव महारथः ।
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ।।
लब्धलक्षतया कार्ष्णेः सर्वे भीष्ममुखा रथाः ।
सत्ववन्तममन्यन्त साक्षादिव धनंजयम् ।।
तस्य लाघवमार्गस्थमलातसदृशप्रभम्।
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ।।
तमासाद्य महावेगैर्भीष्मो नव्रभिराशुगैः ।
विव्याध समरे तूर्णमार्जुनिं परवीरहा ।।
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः ।
सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ।।
तथैव कृतवर्मा च कृपः शल्यश्च मारिष ।
विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ।।
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः ।
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ।।
ततस्तेषां सहस्राणि संवार्य शरवृष्टिभिः ।
ननाद बलवान्कार्ष्णिर्भीष्माय विसृज्यञ्शरान् ।।
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत ।
यतमानस्य समरे भीष्ममर्दयतः शरैः ।।
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् ।
स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ।।
ततो ध्वजमामोघेंषुर्भीष्मस्य नवभिः शरैः ।
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ।।
स राजतो महास्कन्धस्तालो हेमविभूषितः ।
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ।।
तं तु सौभद्रविशिखैः पातितं भरतर्षभ ।
दृष्ट्वा भीमो ननादोच्चैः सौभद्रमभिहर्षयन् ।।
अथ भीष्मो महास्राणि दिव्यानि सुबहूनि च ।
प्रादुश्चक्रे महारौद्रे रणे तस्मिन्महाबलः ।।
ततः शरसहस्रेण सौभद्रं प्रतितामहः ।
अवाकिरदमेयात्मा तदद्भुतमिवाभवत् ।।
ततो दश महेष्वासाः पाण्डवानां महारथाः ।
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ।।
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः ।
भीमश्च केकयाश्चैव सात्यकिश्च विशांपते ।।
तेषां जवेनापततां भीष्मः शान्तनवो रणे ।
पाञ्चाल्यं त्रिभिरानर्च्छत्सात्यकिं नवभिः शरैः ।
पूर्णायतविसृष्टेन क्षुरेण निशितेन च।
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ।।
जाम्बूनदमयः श्रीमान्केसरी स नरोत्तम ।
पपात भीमसेनस्य भीष्मेण मथितो रथात् ।।
ततो भीमस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे।
कृपमेकेन विव्याध कृतवर्माणमष्टभिः ।।
प्रगृहीताग्रहस्तेकन वैराटिरपि दन्तिना ।
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ।।
तस्य वारणराजस्य जवेनापततो रथे ।
शल्यो निवारयामास वेगमप्रतिमं शरैः ।
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः ।
पदा युगमधिष्ठाय जघान चतुरो हयान् ।।
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् ।
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ।।
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः।
स पपात गजस्कन्धात्परमुक्ताङ्कुशतोमरः ।।
असिमादाय शल्योऽपि अवप्लुत्य रथोत्तमात्।
तस्य वारणराजस्य चिच्छेदाथ महाकरम् ।।
भिन्नमर्मा शरशतैश्छिन्नहस्तः सवारणः।
भीममार्तस्वरं कृत्वा पपात च ममार च ।।
एतदीदृशकं कृत्वा मद्रराजो नराधिप ।
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ।।
उत्तरं वै हतं दृष्ट्वा वैराटिर्भ्रातरं तदा ।
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ।।
श्वेतः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ।
स विस्फार्य महच्चापं शक्रचापोपमं बली ।।
अभ्यधाव?ञ्जिघांसन्वै शल्यं मद्राधिपं बली।
महता रथवंशेन समन्तात्परिवारितः ।।
मुञ्चन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति।
तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ।।
तावकानां रथाः सप्त समन्तात्पर्यवारयन् ।
मद्रराजमभीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ।।
बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः ।
तथा रुक्मरथो राजञ्शल्यपुत्रः प्रतापवान् ।।
विन्दानुविन्दावावान्त्यौ काम्भोजश्च सुदक्षिणः ।
बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ।।
नानावर्णविचित्राणि धनूंषि च महात्मनाम् ।
विस्फारितानि दृश्यन्ते तोयदेष्विव विद्युतः ।।
ते तु बाणमयं वर्षं श्वेतमूर्धन्यपातयन्।
निदाघान्तेऽनिलोद्धूता मेघा इव नगे जलम् ।।
ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः ।
धनूंषि तेषामाच्छिद्य ममर्द पृतनापतिः ।।
निकृत्तान्येव तानि स्म समदृश्यन्त भारत ।
ततस्ते तु निमेषार्धात्प्रत्यपद्यन्धनूंषि च ।।
सप्त चैव पृषत्कांश्च श्वेतस्योपर्यपातयन्।
ततः पुनरमेयात्मा भल्लैः सप्तभिराशुगैः ।
निचकर्त महाबाहुस्तेषां चापानि धन्विनाम् ।।
ते निकृत्तमहाचापास्त्वरमाणा महारथाः ।
रथशक्तीः परामृश्य विनेदुर्भैरवान्रवान् ।।
अन्वयुर्भरतश्रेष्ठ सप्त श्वेतरथं प्रति।
ततस्ता ज्वलिताः सप्त महेन्द्राशनिनिःस्वनाः ।।
अप्राप्ताः सप्तभिर्भल्लैश्चिच्छेद परमास्त्रवित्।
ततः समादाय शरं सर्वकायविदारणम् ।।
प्राहिणोद्भरतश्रेष्ठ श्वेतो रुक्मरथं प्रति।
तस्य देहे निपतितो बाणो वज्रातिगो महान् ।।
ततो रुक्मरथो राजन्सायकेन दृढाहतः ।
निषसाद रथोपस्थे कश्मलं चाविशन्महत् ।।
तं विसंज्ञं विमनसं त्वरमाणस्तु सारथिः ।
अपोवाह नसंभ्रान्तः सर्वलोकस्य पश्यतः ।।
ततोऽन्यान्षट् समादाय श्वेतो हेमविभूषितान् ।
तेषां षण्मां महाबाहुर्ध्वजशीर्षण्यपातयत् ।।
हयांश्च तेषां निर्भिद्य सारथींश्च परंतप ।
शरैश्चैतान्समाकीर्य प्रायाच्छल्यरथं प्रति ।।
ततो हलहलाशब्दस्तव सैन्येषु भारत।
दृष्ट्वा सेनापतिं तूर्णं यान्तं शल्यरथं प्रति ।।
ततो भीष्मं पुरस्कृत्य तव पुत्रो महाबलः ।
वृतस्तु सर्वसैन्येन प्रायाच्छ्वेतरथं प्रति ।।
मृत्योरास्यमनुप्राप्तं मद्रराजममोचयत् ।
ततो युद्धं समभवत्तुमुलं रोमहर्षणम् ।।
तावकानां परेषां च व्यतिषक्तरथद्विपम् ।
सौभद्रे भीमसेन च सात्यकौ च महारथे ।।
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ।
एतेषु नरसिंहेषु चेदिमत्स्येषु चैव ह ।
ववर्ष शरवर्षाणि कुरुवृद्धः पितामहः ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
प्रथमदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः ।।