भीष्मपर्व

अध्यायः ४६

Bhishma Parva (Sanskrit) · Adhyaya 46
अक्षर का आकार

सञ्जय उवाच।

राजञ्शतसहस्राणि तत्रतत्र पदातिनाम् ।
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ।।

न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम् ।
न भ्राता भ्रातरं तत्र स्वस्त्रीयं न च मातुलः ।।

न मातुलं च स्वस्रीयो न सखायं सखा तथा।
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ।।

रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः ।
अभज्यन्त युगैरेव युगानि भरतर्षभ ।।

रथेषाश्च रतेषाभिः कूरा रथकूबरैः।
संगतैः सहिताः केचित्परस्परजिघांसवः ।।

न शेकुश्चलितुं केचित्सन्निपत्य रथा रथैः ।
प्रभिन्नास्तु महाकायाः सन्निपत्य गजा गजैः ।।

बहुधा दारयन्क्रुद्धा विषाणैरितरेतरम्।
सतोरणपताकैश्च वारणा वरवारणैः ।।

अभिसृत्य महाराज वेगवद्भिर्महागजैः ।
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ।।

अभिनीताश्च शिक्षाभिस्तोत्राङ्कुशसमाहताः।
अप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः ।।

प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः ।
क्रौञ्चवन्निनदं कृत्वा दुद्रुवुः सर्वतो दिशम् ।।

सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः ।
ऋषितोमरनाराचैर्निर्विद्धा वरवारणाः ।।

प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः।
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ।।

गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः ।
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वथैः ।।

गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः ।
आयसैः परिघैश्चैव निस्तिरंशैर्विमलै शितैः ।

प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः।
व्यदृश्यन्त महाराज परस्परजिघांसवः ।।

राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः।
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ।।

अवक्षिप्तावधूतानामसीनां वीरबाहुभिः ।
संजज्ञे तुमुलः शब्दः पततां परमर्मसु ।।

गदामुसलरुग्णानां भिन्नानां च वरासिभिः ।
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ।।

तत्र तत्र नरौघाणां क्रोशतामितरेतरम् ।
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ।।

हयैरपि हयारोहाश्चामरापीडधारिभिः ।
हंसैरिव महावेगैरन्योन्यमभिविद्रुताः ।।

तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः ।
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ।।

अश्वैरग्न्यजवैः केचिदाप्लुत्य महतो रथात् ।
शिरांस्याददिरे वीरा रथिनामश्वसादिनः ।।

बहूनपि हयारोहान्भल्लैः सन्नतपर्वभिः ।
रथी जघान संप्राप्य बाणगोचरमागतान् ।।

नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः ।
पादैरेव विमृद्गन्ति मत्ताः कनकभूषणाः ।।

पाठ्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः।
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ।।

साश्वारोहान्हयान्कांश्चिदुन्मथ्य वरवारणाः ।
सहसा चिक्षिपुस्तत्र संकुले भैरवे सति ।।

साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्गजाः ।
रथौघानभिमृद्गन्तः सध्वजानभिचक्रमुः ।।

पुंस्त्वादतिमदत्वाच्च केचित्तत्र महागजाः ।
साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ।।

अश्वारोहैश्च समरे हस्तिसादिभिरेव च ।
प्रतिमानेषु गात्रेषु पार्श्वष्वभि च वारणान् ।
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ।।

नराश्वकायान्निर्भिद्य लौहानि कवचानि च।
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः ।।

महोल्ककाप्रतिमा घोरास्तत्र तत्र विशांपते।
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि ।।

विकोशैर्विमलैः खङ्गैरभिजध्नुः परान्रणे ।
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् ।।

विदर्शयन्तः संपेतुः खङ्गचर्मपरश्वथैः।
केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः ।।

विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः।
शङ्कुभिर्दारिताः केचित्संभिन्नाश्च परश्वथैः ।।

हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः ।
रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वथैः ।।

व्याक्रोशन्त नरा राजंस्तत्रतत्र स्म बान्धवान्।
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बन्धुभिः ।।

मातुलान्भागिनेयांश्च परानपि च संयुगे ।
विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत ।।

बाहुभिश्चापरे छिन्नैः पार्श्वेषु च विदारिताः ।
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ।।

तृषापरिगताः केचिदल्पसत्वा विशांपते।
भूमौ निपतिताः सङ्ख्ये मृगयांचक्रिरे जलम् ।।

रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत ।
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान् ।।

अपरे क्षत्रिकयाः शूराः कृतवैराः परस्परम् ।
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष ।
तर्जयन्ति च संहृष्टास्तत्रतत्र परस्परम् ।।

आदश्य दशनैश्चापि क्रोधात्स्वरदनच्छदम् ।
भ्रुकुटीकुटिलैर्वक्रैः प्रेक्षन्ति च परस्परम् ।।

अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः।
निष्कूजाः समपद्यन्त दृढसत्वा महाबलाः ।।

अन्ये च विरथाः शूरा रथमन्यस्य संयुगे।
प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः ।
अशोभन्त महाराज सपुष्पा इव किंशुकाः ।।

संबभूवुरनीकेषु बहवो भैरवस्वनाः।
वर्तमाने महाभीमे तस्मिन्वीरवरक्षये।।

निजघान पिता पुत्रं पुत्रश्च पितरं रणे।
स्वस्त्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ।।

सखा सखायं च तथा संबन्धी बान्धवं तथा।
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ।।

वर्तमाने तथा तस्मिन्निर्मर्यादे भयानके ।
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ।।

केतुना पञ्चतारेण तालेन भारतर्षभ ।
राजतेन महाबाहुरुच्छ्रितेन महारथे ।
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
प्रथमदिवसयुद्धे षट्चत्वारिंशोऽध्यायः ।।