भीष्मपर्व
अध्यायः १८
सञ्जय उवाच।
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः।
अश्रूयत महाराज योधानां प्रयुयुत्सताम् ।।
शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः ।
नोमिघोषै रथानां च दीर्यतीव वसुन्धरा ।।
हयानां हेषमाणानां योधानां चैव गर्जताम्।
क्षणेनैव नभो भूमिः शब्देनापूरितं तदा ।।
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च ।
समकम्पन्त सैन्यानि परस्परसमागमे ।।
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः ।
भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ।।
ध्वजा बहुविधाकारास्तावकानां नराधिप ।
काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ।।
स्वेषां चैव परेषां च समदृश्यन्त भारत।
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ।।
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः।
सन्नद्धाः समदृश्यन्त ज्वलनार्कसमप्रभाः ।।
कुरुयोधवरा राजन्विचित्रायुधकार्मुकाः ।
उद्यतैरायुथैश्चित्रैस्तलबद्धाः पताकिनः ।।
ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः ।
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप ।
दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ।।
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ।।
रथा विंशतिसाहस्रास्तथैषामनुयायिनः।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।।
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रैगर्ताः केकयास्तथा।
सौवीराः कैतवाः प्राच्याः प्रतीच्येदीच्यवासिनः ।।
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः ।
महता रथवंशेन ते ररक्षुः पितामहम् ।।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ।
मागधो यत्र नृपतिस्तद्रथानीकमन्वयात् ।।
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्।
अभवन्वाहिनीमध्ये शतानामयुतानि षट् ।।
पादाताश्चाग्रतो गच्छन्धनुश्चर्मासिपाणयः ।
अनेकशतसाहस्रा नखरप्रासयोधिनः ।।
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत।
अदृश्यत महाराज गङ्गेव यमुनान्तरा ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि
भगवद्गीतापर्वणि अष्टादशोऽध्यायः ।।