भीष्मपर्व

अध्यायः १७

Bhishma Parva (Sanskrit) · Adhyaya 17
अक्षर का आकार

सञ्जय उवाच।

यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत्।
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ।।

मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत।
दीप्यमानाश्च संपेतुर्दिवि सप्त महग्रहाः ।।

द्विधाभूत इवादित्य उदये प्रत्यदृश्यत।
ज्वलन्त्या शिखया भूयो भानुमानुदितो रविः ।।

ववाशिरे च दीप्तायां दिशि गोमायुवायसाः ।
लिप्समानाः शरीराणि मांसशोणितभोजनाः ।।

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।
भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ।।

जयोऽस्तु पाण्डुपुत्राणामित्यूचतुरिन्दमौ ।
युयुधाते तवार्थाय यथा स समयः कृतः ।।

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ।
समानीय महीपालानिदं वचनमब्रवीत् ।।

इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्।
गच्छध्वं तेन शक्रस्य ब्रह्मणः सहलोकताम् ।।

एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैः कृतः ।
संभावयध्वमात्मानमव्यग्रमनसो युधि ।।

नाभागोऽथ ययातिश्च मान्धाता नहुषो नृगः ।
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ।।

अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे ।
यदयोनिधनं याति सोऽस्य धर्मः सनातनः ।।

एवमुक्ता महीपाला भीष्मेण भरतर्षभ।
निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ।।

स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः ।
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ।।

अपेतकर्णाः पुत्रास्ते राजनश्चैव तावकाः ।
निर्ययुः सिंहनादेन नादयन्तो दिशो दश ।।

श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः ।
तान्यनीकानि शोभन्ते गजैरथ पदातिभिः ।।

भेरीपणवशब्दैश्च दुन्दुभीनां च निःस्वनैः ।
रथनेमिनिनादैश्च बभूवाकुलिता मही ।।

काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः ।
भ्राजमाना व्यराजन्त साग्नयः पर्वता इव ।।

तालेन महता भीष्मः पञ्चतारेण केतुना ।
विमलादित्यसंकाशस्तस्थौ कुरुचमूपरि ।।

ये त्वदीया महेष्वासा राजानो भरतर्षभ ।
अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते ।।

स तु गोवासनः शैब्यः सहितः सर्वराजभिः ।
ययौ मातङ्गराजेन राजार्हेण पताकिना ।
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ।।

अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतुना ।
श्रुतायुधश्चित्रसेनः पुरुमित्रो विविंशतिः ।।

शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः ।
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ।।

स्यन्दनैर्वरवर्माणो भीष्मस्यासन्पुरोगमाः।
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् ।।

भ्राजमाना व्यरोचन्त जाम्बूनदमया ध्वजाः।
जाम्बूनदमयी वेदी कमण्डलुविभूषिता ।।

केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ।
अनेकशतसाहस्रमनीकमनुकर्षतः ।।

महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ।
तस्य पौरवकालिङ्गकाम्भोजाः समुदक्षिणाः ।।

क्षेमधन्वा च शल्यश्च तस्थुः प्रमुखतो रथाः।
स्यन्दनेन महार्हेण केतुना वृषभेण च।
प्रकर्षन्नेव सेनाग्नं मागधस्य कृपो ययौ ।।

तदङ्गपतिनां गुप्तं कृपेण च मनस्विना ।
शारदाम्बुधरप्रख्यं प्राच्यानां सुमहद्बलम् ।।

अनीकप्रमुखे तिष्ठन्वराहेण महायशाः।
शुशुभे केतुमुख्येन राजतेन जयद्रथः ।।

शतं रतसहस्राणां तस्यासन्वशवर्तिनः।
अष्टौ नागसहस्राणि सादिनामयुतानि षट् ।।

तत्सिन्धुपतिना राज्ञा पालितं ध्वजिनीमुखम्।
अनन्तरथनागाश्वमशोभत महद्बलम् ।।

षष्ट्या रथसहस्रैस्तु नागानामयुतेन च।
पतिः सर्वकलिङ्गानां ययौ केतुमता सह ।।

तस्य पर्वतसंकाशा व्यरोचन्त महागजाः ।
यन्त्रतोमरतूणीरैः पताकाभिः सुशोभिताः ।।

शुशुभे केतुमुख्येन पावकेन कलिङ्गकः।
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च।।

केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम्।
आस्थितः समरे राजन्मेघस्थ इव भानुमान् ।।

तेजसा दीप्यमानस्तु वारणोत्तममास्थितः ।
भगदत्तो ययौ राजा यथा वज्रधरस्तथा ।।

गजस्कन्धगतावास्तां भगदत्तेन संमितौ ।
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ।।

स रथानीकवान्व्यूहो हस्त्यङ्गो नृपशीर्षवान् ।
वाजिपक्षः पतत्युग्रः प्रहसन्सर्वतोमुखः ।।

द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च।
तथैवाचार्यपुत्रेण बाह्लीकेन कृपेम च ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि
भगवद्गीतापर्वणि सप्तदशोऽध्यायः ।।