भीष्मपर्व

अध्यायः १९

Bhishma Parva (Sanskrit) · Adhyaya 19
अक्षर का आकार

धृतराष्ट्र उवाच।

अर्क्षांहिणीं दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः।
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ।।

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।
कथं भीष्मं स कौन्तेयः प्रत्ययूहत सञ्जय ।।

सञ्जय उवाच।

धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः।
अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् ।।

महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः ।
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ।।

सूचीमुखमनीकं स्यादल्पानां बहुभिः सह।
अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ।।

एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव ।
एतच्छ्रुत्वा धर्मराजं प्रत्यभाषत पाण्डवः।।

एष व्यूहामि ते व्यूहं राजसत्तम दुर्जयम्।
अचलं नाम वज्राख्यं विहितं वज्रपाणिना ।।

यः स वात इवोद्भूतः समरे दुःसहः परैः।
स नः पुरो योत्सयते वै भीमः प्रहरतां वरः ।।

तेजांसि रिपुसैन्यानां मृद्गन्पुरुषसत्तमः।
अग्नेऽग्रणीर्योत्स्यति नो युद्धोपायविचक्षणः ।।

यं दृष्ट्वा कुरवः सर्वे दुर्योधनपुरोगमाः।
निवर्तिष्यन्ति संत्रस्ताः सिंहं क्षुद्रमृगा यथा ।।

तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयाः ।
भीमं प्रहरतां श्रेष्ठं देवाराजमिवामराः ।।

न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम्।
द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ।।

भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् ।
चरन्वेगेन महता समुद्रमपि शोषयेत् ।।

भीमसेनं तदा राजन्दर्शयस्व महाबलम् ।
केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् ।।

एते गच्छन्तु सामात्याः प्रकर्षन्तो जनाधिप ।
धृतराष्ट्रस्य दायादानिति बीभत्सुरब्रवीत् ।।

ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि भारत ।
अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे ।।

एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः।
व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तथा ।।

संप्रयातान्कुरून्दृष्ट्वा पाण्डंवानां महाचमूः।
गङ्गेव पूर्णा स्तिमिता स्पन्दमाना व्यदृश्यत ।।

भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च वीर्यवान् ।
नकुलः सहदेवश्च धृष्टकेतुश्च पार्थिवः ।।

विराटश्च ततः पश्चाद्राजाथाक्षौहिणीवृतः ।
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ।।

चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती।
द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः ।।

धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः ।
सहितः पृतनाशूरैः रथमुख्यैः प्रभद्रकैः ।।

शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः।
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ ।।

पृष्ठतोऽप्यर्जुनस्यासीद्युयुधानो महाबलः ।
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमोजसौ ।।

राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः ।
बृहद्भीः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ।।

अक्षौहिण्याथ पाञ्चाल्यो यज्ञसेनो महामनाः ।
विराटमन्वयात्पश्चात्पाण्डवार्थं पराक्रमी ।।

तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः ।
नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ।।

समुत्सार्य ततः पश्चाद्धृष्टद्युम्नो महारथः ।
भ्रातृभिः सहपुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ।।

त्वदीयानां परेषां च रथेषु विपुलान्ध्वजान्।
अभिभूयार्जुनस्यैको रथे तस्थौ महाकपिः ।।

पदातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः।
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ।।

वारणा दशसाहस्राः प्रभिन्नकरटामुखाः ।
शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः ।।

क्षरन्त इव जीमूता महार्हाः पद्मगन्धिनः।
राजानमन्वयुः यश्चाज्जीमूता इव वार्षिकाः ।।

भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम्।
प्रचकर्ष महासैन्यं दुराधर्षो महामनाः ।।

तमर्कमिव दुष्प्रेक्ष्यं तपन्तमिव वाहिनीम् ।
न शेकुः सर्वयोधास्ते प्रतिवीक्षितुमन्तिके ।।

वज्रो नामैष स व्यूहो निर्भयः सर्वतोमुखः।
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ।।

यं प्रतिव्यूहय् तिष्ठन्ति पाण्डवास्तव वाहिनीम् ।
अजेयो मानुषे लोके पाण्डवैरभिरक्षितः ।।

संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति।
प्रववौ पृष्ठतो वायुर्निरभ्रे स्तनयित्नुमान् ।।

विष्वग्वाताश्च विववुर्नीचैः शर्करकर्षिणः ।
रजश्चोद्धूयत महत्तम आच्छादयञ्जगत् ।।

पपात महती चोल्का प्राङ्भुखी भरतर्षभ ।
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना ।।

अथ संनह्यमानेषु सैन्येषु भरतर्षभ ।
निष्प्रभोऽभ्युद्ययौ सूर्यः सघोषं भूश्चचाल च ।।

व्यशीर्यत सनादा च भूस्तदा भरतर्षभ ।
निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् ।
प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किंचन ।।

ध्वजानां धूयमानानां सहसा मातरिश्वना ।
किङ्किणीजालबद्धानां काञ्चनस्रग्वराम्बरैः ।।

महतां सपताकानामादित्यसमतेजसाम् ।
सर्वं झणझणीभूतमासीत्तालवनेष्विव ।।

एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः ।
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ।।

ग्रसन्त इव मञ्जानो योधानां भरतर्षभ ।
दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि
भगवद्गीतापर्वणि एकोनविंशोऽध्यायः ।।