भीष्मपर्व

अध्यायः ११८

Bhishma Parva (Sanskrit) · Adhyaya 118
अक्षर का आकार

सञ्जय उवाच।

असंव्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु ।
ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ।।

च ह्यनीकमनीकेषु समसञ्जत संकले ।
रथा न रथिभिः सार्धं पादाता न पदातिभिः ।।

अश्वा नाश्वैरयुध्यन्त गजा न गजयोधिभिः ।
उन्मत्तवन्महाराज युध्यन्ते तत्र भारत ।।

महान्व्यतिकरो रौद्रः सेनयोः समपद्यत ।
नरनागगणेष्वेवं विकीर्णेषु च सर्वशः ।।

क्षये तस्मिन्महारौद्रे निर्विशेषमजायत ।
ततः शल्यः कृपश्चैव चित्रसेनश्च भारत ।।

दुःशासनो विकर्णश्च रथानास्थाय भास्वरान् ।
पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ।।

सा वध्यमाना समरे पाण्डुसेना महात्मभिः ।
त्रातारं नाध्यगच्छद्वै मञ्जमानेव नौर्जंले ।।

यथा हि शैशिरः कालो गवां मर्माणि कृन्तति।
तथा पाण्डुसुतानां वै भीष्मो मर्माणि कृन्तति

तथैव तव सैन्यस्य पार्थेन च महात्मना।
नवमेघप्रतीकाशाः पातिता बहुधा गजाः ।।

मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः ।
इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ।।

पेतुरार्तस्वरं घोरं कृत्वा तत्र महागजाः ।
आनद्धाभरणैः कायैर्निहतानां महात्मनाम् ।।

छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः ।
तस्मिन्नेव महाराज महावीरवरक्षये ।।

भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये ।
ते पराक्रान्तमालोक्य राजन्युधि पितामहम् ।।

अभ्यवर्तन्त ते पुत्राः सर्वे सैन्यपुरस्कृताः ।
इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् ।।

पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये ।
पाण्डवापि महाराज स्मरन्तो विविधान्बहून् ।।

क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ।
भयं त्यक्त्वा रणे शूरा ब्रह्मलोकाय तत्पराः ।।

तावकांस्तव पुत्रांश्च योधयन्ति प्रहृष्टवत्।
सेनापतिस्तु समरे प्राह सेनां महारथः ।।

अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह ।
सेनापतिवचः श्रुत्वा सोमकाः सृञ्जयाश्च ते ।।

अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समाहताः ।
वध्यमानस्ततो राजन्पिता शान्तनवस्तव ।।

अमर्षवशमापन्नो योधयामास सृञ्जयान्।
तस्य कीर्तिमतस्तात पुरा रामेण धीमता।।

संप्रदत्ताऽस्त्रशिक्षा वै परानीकविनाशनी ।
स तां विद्यामधिष्ठाय कुर्वन्तपरबलक्षयम् ।।

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।
भीष्मो दशसहस्राणि जघान परवीरहा ।।

तस्मिंस्तु दशमे प्राप्ते दिवसे भरतर्षभ ।
एको भीष्मो हि मत्स्येषु पाञ्चालेषु च संयुगे ।।

गजाश्वममितं हत्वा हत्वा सप्त महारथान् ।
हत्वा पञ्चसहस्राणि रथानां प्रतिपामहः ।।

नराणां च महायुद्धे सहस्राणि चतुर्दश ।
दन्तिनां च सहस्राणि हयानामयुतं पुनः ।।

शिक्षबलेन न्यहनत्पिता तव विशांपते ।
ततः सर्वमहीपानां क्षपयित्वा वरूथिनीम् ।।

विराटस्य प्रियो भ्राता शतानीको निपातितः।
शतानीकं च समरे हत्वा भीष्मः प्रतापवान् ।।

सहस्राणि महाराज राज्ञां भल्लैरपातयत्।
उद्विग्नाः समरे योधा विक्रोशन्ति धनञ्जयम् ।।

ये च केचन पार्थानामभियाता धनञ्जयम् ।
राजानो भीष्ममासाद्य गतास्ते यमसादनम् ।।

किरन्दश दिशो भीष्मः शरजालैः समन्ततः ।
अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ।।

स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि।
सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ।।

न चैनं पार्थिवाः केचिच्छक्ता राजन्निरीक्षितुम् ।
मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ।।

यथा दैत्यचमूं शक्रस्तापयामास संयुगे ।
तथा भीष्मः पाण्डवेयांस्तापयामास भारत ।।

तथा चैनं पराक्रान्तमालोक्य मधुसूदनः।
उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ।।

एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः ।
सन्निहत्य बलादेनं विजयस्ते भविष्यति ।।

बलात्संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः ।
न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ।।

ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः ।
सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ।।

स चापि कुरुमुख्यानामृषभः पाण्डवेरितान्।
सरव्रतैः शरव्रातान्बहुधा विदुधाव तान् ।।

ततः पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् ।
पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।।

यमौ च चेकितानश्च केकयाः पञ्च चैव ह ।
सात्यकिश्च महाबाहुः सौभद्रोऽथ घटोत्कचः ।।

द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् ।
विराटश्च महाराज पाण्डवेया महाबलाः ।।

एते चान्ये च बहवः पीडिता भीष्मसायकैः ।
समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ।।

ततः शिखण्डी वेगेन प्रगृह्य परमायुधम्।
भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ।।

ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् ।
भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ।।

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।
विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ।।

दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ।
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः ।।

ददृशुः समरे भीष्मं समुद्यतमहायुधम् ।
ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः ।।

बहुधा भीष्ममानर्च्छुर्मार्गणैः क्षतमार्गणैः ।
विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः ।।

पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् ।
चक्रे शरविघातं च क्रीडन्निव पितामहः ।।

नाभिसंधत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहुः ।
स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिने ।।

जघान द्रुपदानीके रथान्सप्त महारथः ।
ततः किलकिलाशब्दः क्षणेन समभूत्तदा ।।

मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् ।
ते नराश्वरथव्रातैर्मार्गणैश्च परंतप ।।

तमेकं छादयामासुर्मेघा इव दिवाकरम् ।
भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ।।

ततस्तस्य च तेषां च युद्धे देवासुरोपमे ।
किरीटी भीष्ममानर्च्छ पुरस्कृत्य शिखण्डिनम् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसयुद्धे अष्टादशाधिकशततमोऽध्यायः ।।