भीष्मपर्व

अध्यायः ११९

Bhishma Parva (Sanskrit) · Adhyaya 119
अक्षर का आकार

एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् ।
विव्यधुः समरे भीष्मं परिवार्य समन्ततः ।।

शतघ्नीभिः सुघोराभिः परिघैश्च परश्वथैः ।
मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वशः ।।

शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः ।
नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च सर्वशः ।।

अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ।
स विशीर्णतनुत्रामाः पीडितो बहुभिस्तदा ।।

न विव्यथे तदा भीष्मो भिद्यमानेषु मर्मसु ।
संदीप्तशरचापाग्निरस्त्रप्रसृतमारुतः ।।

नेमिनिर्ह्रादसंतापो महास्त्रोदयपावकः ।
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः ।।

युगान्तागनिसमप्रख्यः परेषां समपद्यत ।
निवृत्य रथसङ्घानामन्तरेण विनिःसृतः।।

दृश्यते स्म नेरन्द्राणां पुनर्मध्यगतश्चरन् ।
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च ।।

पाण्डवानीकिनीमध्यमाससाद विशांपते।
ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् ।।

द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ।
भीमघोषैर्महावेगैर्मर्मावरणभेदिभिः ।।

षडेतान्निशितैर्भीष्मः प्रविव्याधोत्तकैः शरैः ।
तस्य ते निशितान्बाणात्सन्निवार्य महारथाः ।।

दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ।
शिखण्डी तु महाबाणान्यान्मुमोच महारथः ।।

न चक्रुस्ते रुजं तस्य स्वर्मपुङ्खाः शिलाशिताः।
ततः किरीटी संरब्धो भीष्ममेवाभ्यधावत ।।

शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्।
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः ।।

द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च ।।

सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ।
तत्र शस्त्राणि दिव्यानि दर्शयन्तो महारथाः ।।

अभिपेतुर्भृशं क्रुद्धाश्चादयन्तश्च पाण्डवम् ।
तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति ।।

उद्धूतानां यथा शब्दः समुद्राणां युगक्षये ।
घ्नत त्वरत गृह्णीत विद्ध्यध्वमवकर्तत ।।

इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ।
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः ।।

अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।।

विराटद्रुषदौ चोभौ राक्षसश्च घटोत्कचः ।
अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्च्छिताः ।।

समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ।
तेषां समभवद्युद्धं तुमुलं रोमहर्षणम् ।।

संग्रमे भरतश्रेष्ठ देवानां दानवैरिव ।
शिखण्डी तु रणे श्रेष्ठो रक्ष्ममाणः किरीटिना ।।

अविध्यद्दशभिर्भीषअमं छिन्नधन्वानमाहवे।
सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ।।

सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम्।
तदप्यस्य शितैर्बाणैस्त्रिभिश्चिच्छेद फल्गुनः ।।

एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः ।
धनुश्चिच्छेद भीष्मस्य सव्यसाची परंतपः ।।

स च्छिन्नधन्वा संक्रुद्धाः सृक्किणी परिसंलिहन् ।
शक्तिं जग्राह तरसा गिरीणामपि दारणीम् ।।

तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति ।
तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव ।।

समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ।
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः ।।

संक्रुद्धो भरतश्रेष्ठ भीष्मवाहुप्रवेरिताम् ।
सा पपात तथा च्छिन्ना संक्रुद्धेन किरीटिना ।।

मेघबृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ।
छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः ।

अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः।
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् ।।

यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः ।
`अजय्यश्चैव सर्वेषां लोकानामिति मे मतिः ।'
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवान् ।।

अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः।
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदवहम् ।।

स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ।
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ।।

एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः ।
ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ।।

यत्ते व्यवसितं तात तदस्माकमपि प्रियम् ।
तत्कुरुष्व महाराज युद्धे बुद्धिं निवर्तय ।।

अस्य वाक्यस्य निधने प्रादुसासीच्छिवोऽनिलः ।
अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ।।

देवदुन्दुभयश्चैव संप्रणेदुर्महास्वनाः।
पपात पुष्पवृष्टिश्च भीष्मस्योपरि मारिष ।।

न च ताः शुश्रुवे कश्चित्तेषां संवदतां गिरः।
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ।।

संभ्रमश्च महानासीत्रिदशानां विशांपते ।
पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ।।

इति देवगणानां च वाक्यं श्रुत्वा महातपाः।
ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ।।

भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ।
शिखण्डी तु महाराज भरतानां पितामहम् ।।

आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ।
स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः ।।

नाकम्पत महाराज क्षितिकम्पे यथाऽचलः ।
ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः ।।

गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्।
पुनः पुनः शतैरेनं त्वरमाणो धनञ्जयः ।।

सर्वगात्रेषु संक्रुद्धस्तथा मर्मस्वताडयत् ।
एवमन्यैरपि भृशं विद्ध्यमानः सहस्रशः ।।

तानप्याशु शरैर्भीष्मः प्रविव्याध महारथः ।
तैश्च मुक्ताञ्छरान्भीष्मो युधि सत्यपराक्रमः ।।

निवारयामास शरैः समं सन्नतपर्वभिः ।
शिखण्डी तु रणे बाणान्यान्मुमोच महारथः ।।

न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलासिताः ।
ततः किरीटी संक्रुद्धो भीष्ममेवाभ्यवर्तत ।।

शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्।
अथैनं नवभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ।।

सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ।
सोऽन्यत्कार्मुकमादाय गाङ्गेयो बलवत्तरम् ।।

तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरघातयत् ।
निमेषार्धेन कौन्तेय आत्तमात्तं महारणे ।।

एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यथ।
ततः शान्तनवो भीष्मो बीभत्सुं नात्यवर्तत ।।

अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्।
सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ।।

एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः ।
शरैरनेकसाहस्त्रैर्मामेवाभ्यपतद्रणे ।।

न चैष समरे शक्यो जेतुं वज्रभृता अपि।
न चापि सहिता वीरा देवदानवराक्षसाः ।।

मां चापि शक्ता निर्जेतुं किमु मर्त्या महारथाः ।
`ऋतेऽर्जुनं सुसंक्रुद्धमेतत्सत्यं ब्रवीमि ते ।।'

एवं तयोः संवदतोः फल्गुनो निशितैः शरैः।
शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ।।

ततो दुःशासनं भीष्मः स्मयमान इवाब्रवीत् ।
अर्दितो निशितैर्बाणैर्भृशं गाण्डीवधन्वना ।।

वज्राशनिसमस्पर्शाः सुपुङ्खाः सुप्रतेजनाः ।
सुमुक्ता अव्यवच्छिन्ना नेमे बाणाःशिखण्डिनः ।।

निकृन्तमाना मर्माणि दृढावरणभेदिनः ।
सुसला इव मे ध्नन्ति नेमे बाणः शिखण्डिनः ।।

वज्रदण्डसमस्पर्शा वज्रवेगदुरासदाः ।
मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ।।

नाशयन्तीव मे प्राणान्यमदूता इवागताः ।
गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ।।

भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः।
समाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ।।

अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ।
कृन्तन्ति मम गात्राणि माघमां सेगवा इव ।।

सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाःक ।
वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ।।

इति ब्रुवञ्छान्तनवो दिधक्षुरिव पाण्डवम् ।
शक्तिं भीष्मः स पार्थाय ततश्चिक्षेप भारत ।।

तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत्।
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ।।

चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् ।
खङ्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयाय वा ।।

तस्य तच्छतधा चर्म व्यधमत्सायकैस्तथा ।
रथादनवरूढस्य तदद्भुतमिवाभवत् ।।

ततो युधिष्ठिरो राजा स्वान्यनीकान्यचोदयत्।
अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि ।।

अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः।
पट्टसैश्च सुनिस्त्रिंशैर्नाराचैश्च तथा शितैः ।।

वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः ।
सिंहनादस्ततो घोरः पाण्डवानामभूत्तदा ।।

तथैव तव पुत्राश्च नेदुर्भीष्मजयैषिणः।
तमेकमभ्यरक्षन्त सिंहनादांश्च चक्रिरे ।।

तत्रासीत्तुमुलं युद्धं तावकानां परैः सह।
दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ।।

आसीद्धोर इवावर्तो मुहूर्तमुदधेरिव ।
सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ।।

असौम्यरूपा पृथिवी शोणिताक्ताऽभवत्तदा।
समं च विषमं चैव न प्राज्ञायत किंचन ।।

योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि ।
अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ।।

ततः सेनामुखे तस्मिन्स्थितः पार्थो धनुर्धरः।
मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ।।

`तत्राद्भुतमपश्याम पाण्डवानां पराक्रमम्।
द्रावयामासुरिषुभिः सर्वान्भीष्मपदानुगान् ।।'

वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात्।
पीड्यमानाः शितैः शस्त्रैः प्राद्रवाम रणे तदा ।।

`पाण्डवैः पञ्चभिः सार्धं सात्यकेन च धन्विना।
धृष्टद्युम्नसुखैः सर्वैः पाञ्चालैश्च समन्ततःक ।।

भिद्यमानाः शरैस्तीक्ष्णैः सर्वे कार्ष्णिपुरोगमैः।
द्रोणद्रौणिकृतैः सार्धं सर्वे शल्यशलादयः।
तावकाः समरे राजञ्जहुर्भीष्मं महामृधे ।।'

सौवीराः कितवाः प्राच्याःप्रतीच्योदीच्यमालवाः।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।।

साल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह।
द्वादशैते जनपदाः शरार्ता व्रणपीडिताः।
संग्रामे प्रजहुर्भीष्मं युध्यमानाः किरीटिना ।।

ततस्तमेकं बहवः परिवार्य समन्ततः ।
परिकाल्य कुरून्सर्वाञ्शरर्षैरवाकिरन् ।।

निपातयत गृह्णीत युध्यध्वमवकृन्तत।
इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ।।

निहत्य समरे राजञ्शतशोऽथ सहस्रशः ।
न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ।।

एवंभूतस्तव पिता शरैर्विशकलीकृतः।
शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् ।।

किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ।
हाहेति दिवि देवानां पार्थिवानां च भारत ।।

पतमाने रथाद्भीष्मे बभूव सुमहास्वनः ।
संपतन्तमभिप्रेक्ष्य महात्मानं पितामहम् ।।

सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः ।
स पपात महाबाहुर्वसुधामनुनादयन् ।।

इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ।
धरणीं न स पस्पर्श शरसङ्घैः समावृतः ।।

शलतल्पे महेष्वासं शयानं पुरुषर्षभम्।
रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ।।

अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी ।
पतन्स ददृशे चापि दक्षिणेन दिवाकरम् ।।

संज्ञां चोपालभद्वीरः कालं संचिन्त्य भारत ।
अन्तरिक्षे च शुश्राव दिव्या वाचः समन्ततः ।।

कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः ।
कालकर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने ।।

स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत्।
धारयिष्याम्यहं प्राणान्पतितिऽपि महीतले ।।

उत्तरायणमन्विच्छन्सुगतिप्रतिकाङ्क्षया।
तस्य तन्मतमाज्ञाय गह्गा हिमवतः सुताः ।।

महर्षीन्हंसरूपेण प्रेषयामास तत्र वै।
ततस्तं प्रति ते हंसास्त्वरिता मानसौकसः ।।

आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम्।
यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ।।

ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः ।
अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम् ।।

ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम्।
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ।।

इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः ।
भीष्मः कथं महात्मा सन्संस्थाता दक्षिणायने ।।

इत्युक्त्वा प्रस्थिता हंसा दक्षिणामभितो दिशम्।
संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ।।

तानब्रवीच्छान्तनवो नाहं गन्ता कथंचन ।
दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम् ।।

गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् ।
उदगायन आदित्ये हंसाः सत्यं ब्रवीमि वः ।।

धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया।
प्राणानां च समुत्सर्ग ऐश्वर्यं नियतं मम ।।

तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने।
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना ।।

छन्दतस्ते भवेन्मृत्युरिति तत्सत्यमस्तु मे।
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति ।।

इत्युक्त्वा तांस्तदा हंसान्स शेते शरतल्पगः ।
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि ।।

पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ।
तस्मिन्हते महासत्वे भरतानां पितामहे ।।

न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ।
संमोहश्चैव तुमुलः करूणामभवत्तदा ।।

कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः ।
विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ।।

दध्युश्चैव महाराज न युद्धे दधिरे मनः ।
ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ।।

अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि।
`दुःखार्तास्ते ततो राजन्कुरूणां पतयोऽभवन् ।'
अभाव सहसा राजन्कुरुराजस्य तर्कितः ।।

हतप्रवीरास्तु वयं निकृत्ताश्च शितैः शरैः ।
कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ।।

पाणडवाश्च जयं लब्ध्वा परत्र च परां गतिम् ।
सर्वे दध्युर्महाशङ्खञ्शूराः परिघवाहवः ।।

सोमकाश्च सपाञ्चालाः प्राहृष्यन्त जनेश्वर ।
ततस्तूर्यसहस्रेषु नदत्सु स महाबलः ।।

आस्फोटयामास भृशं भीमसेनो ननाद च।
सेनयोरुभयोश्चापि गाङ्गेये निहते विभौ ।।

संन्यस्य विराः शस्त्राणि प्राध्यायन्त समन्ततः ।
प्राक्रोशन्प्राद्रवंश्चान्ये जग्मुर्मोहं तथाऽपरे ।।

क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चान्येऽभ्यपूजयन्।
ऋषयः पितरश्चैव प्रशशसुर्महाव्रतम् ।।

भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ।
महोपनिषदं चैव योगमास्थाय विर्यवान् ।।

जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसयुद्धे एकोनविंशत्यधिकशततमोऽध्यायः ।।