भीष्मपर्व
अध्यायः ११७
सञ्जय उवाच।
शिखण्डी तु रणे भीष्ममासाद्य पुरुषर्षभम् ।
दशभिर्निशितैर्भल्लैराजघान स्तनान्तरे ।।
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा ।
संप्रेक्षत कटाक्षेण निर्दहन्निव भारत ।।
स्त्रीत्वं तस्य स्मरन्राजन्सर्वलोकस्य पश्यतः।
नाजघान रणे भीष्मः स च तन्नावबुद्धवान् ।।
अर्जुनस्तु महाराज शिखण्डिनमभाषत ।
अभित्वरस्वास्य वधे शिखण्डिन्रथसत्तम ।।
किं ते विवक्षया वीर जहि भीष्मं महारथम् ।
न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले ।।
यः शक्तः समरे भीष्मं योधयेत पितामहम् ।
ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ।।
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।
शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ।।
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव ।
अर्जुनं समरे क्रुद्धं वारयामास सायकैः ।।
तथैव च चमूं सर्वां पाण्डवानां महारथः ।
अप्रैषीत्स शरैस्तीक्ष्णैः परलोकाय मारिष ।।
तथैव पाण्डवा राजन्सैन्येन महता वृताः ।
भीष्मं संछादयामासुर्मेघा इव दिवाकरम् ।।
स समन्तात्परिवृतो भीष्मो हि भरतर्षभ ।
निर्ददाह रणे शूरान्वने वह्निरिव ज्वलन् ।।
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।
अयोधयच्च यत्पार्थं जुगोप च पितामहम् ।।
कर्मणा तेन समरे तव पुत्रस्य धन्विनः ।
दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ।।
यदेकः समरे पार्थान्सानुगान्समयोधयत् ।
न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् ।।
दुःशासनेन समरे रथिनो विरथीकृताः ।
सादिनश्च महेष्वासा हस्तिनश्च महाबलाः ।।
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्वसुधातले ।
शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ।।
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणम् ।
तथा जज्वाल पुत्रस्ते पाण्डुसेनां विनिर्दहन् ।।
तं भारतमहामात्रं पाण्डवानां महारथः ।
जेतुं नोत्सहते कश्चिन्नाभ्युद्यातुं कथंचन ।।
ऋते महेन्द्रतनयाच्छ्वेताश्वात्कृष्णसारथेः ।
स हि तं समरे राजन्निर्जित्य विजयोऽर्जुनः ।।
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ।
विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः ।।
पुनः पुनः समाश्वस्य प्रायुध्यत मदोत्कटः ।
अर्जुनस्तु रणे राजन्योधयन्संव्यराजत ।।
शिखण्डी तु रणे राजन्विव्याधैव पितामहम् ।
शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ।।
न च स्म ते रुजं चक्रुः पितुस्तव जनेश्वर ।
स्मय्रमानस्तु गाङ्गेयस्तान्बाणाञ्जगृहे तदा ।।
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति ।
तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ।।
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे।
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनां ।।
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष ।
अभिद्रवत संग्रामे फल्गुनं सर्वतो रणे ।।
भीष्मो वः समरे सर्वान्पायिष्यति धर्मवित्।
तद्भयं सुमहत्त्यक्त्वा पाण्डवान्प्रति युध्यत ।।
एष तालेन महता भीष्मस्तिष्ठति पालयन्।
सर्वेषां धार्तराष्ट्राणां समरे शर्म वर्म च ।।
देवा अपि समुद्युक्ता नालं भीष्मं समासितुम् ।
किमु पार्था महात्मानं मर्त्यभूता महाबलाः ।।
तस्माद्द्रवत मा योधाः फल्गुनं प्राप्य संयुगे ।
अहमद्य रणे यत्तो योधयिष्यामि पाण्डवम् ।।
सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपैः ।
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः ।।
अर्जुनं प्रति संयत्ता बलवन्तो महाबलाः ।
ते विदेहाः कलिङ्गाश्च दासेरकगणाश्च ह ।।
अभिपेतुर्निषादाश्च सौवीराश्च महारणे ।
बाह्लीका दरदाश्चैव प्रतीच्योदीच्यमालवाः ।।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।
साल्वः शकास्त्रिगर्ताश्च अम्बष्ठाः केकयौः सह ।।
अभिपेतू रणे पार्थं पतङ्गा इव पावकम् ।
स तान्सर्वान्सहानीकान्महाराज महारथान् ।।
दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनञ्जयः ।
स तैरस्त्रैर्महावेगैर्ददाह सुमहाबलः ।।
शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः ।
तस्य बाणसहस्राणि सृजतो दृढधन्विनः ।।
दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत।
ते शरार्ता महाराज विप्रकीर्णमहाध्वजाः ।।
नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् ।
सध्वजा रथिनः पेतुर्हयारोहा हयैः सह ।।
सगजाश्च गजारोहाः किरीटिशरताडिताः ।
ततोऽर्जुनभुजोत्सृष्टैरावृताऽऽसीद्वसुंधरा ।।
विद्रुतं दिक्षु सर्वासु शरैर्बलमदृश्यत ।
अथ पार्थो महाराज द्रावयित्वा वरूथिनीम् ।।
दुःशासनाय सुबहून्प्रेषयामास सायकान् ।
ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः ।।
धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ।
हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ।।
विविंशतिं च विंशत्या विरथीकृतवान्प्रभुः ।
आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ।।
कृपं विकर्णं शल्यं च विद्ध्वा बहुभिरायसैः ।
चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ।।
एवं ते विरथाः सर्वे कृपः शल्यश्च मारिष ।
दुःशासनो विकर्णश्च तथैव च विविंशतिः ।।
संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना ।
पूर्वाह्णे भरतश्रेष्ठ पराजित्य महारथान् ।।
प्रजज्वाल रणे पार्थो विधूम इव पावकः ।
तथैव शरवर्षेण भास्करो रश्मिवानिव ।।
अन्यानपि महाराज तापयामास पार्थिवान् ।
पराङ्मुखीकृत्य तथा शरवर्षैर्महारथान् ।।
प्रावर्तयत संग्रामे शोणितोदां महानदीम् ।
मध्येन कुरुसैन्यानां पाण्डवानां च भारत ।।
तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये ।
भीष्मं प्रति पराक्रान्ताः पाण्डवाः सह सृञ्जयैः ।।
ते पराक्रान्तमालोक्य युधि राजन्पितामहम् ।
न न्यवर्तन्त ते पुत्रा ब्रह्मलोकपुरस्कृताः ।।
इच्छन्तो निधनं युद्धे स्वर्गलोकपरायणाः ।
पाण्डवानभ्यवर्तन्त तावका युद्धदुर्मदाः ।।
पाण्डवाश्च महाराज स्मरन्तो विविधान्बहून् ।
क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ।।
भयं त्यक्त्वा रणे शूराः स्वर्गलोकपुरस्कृताः।
तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ।।
गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः ।
रथाश्च निहता नागैर्हयाश्चैव पदातिभिः ।।
अन्तरा च्छिद्यमानानि शरीराणि शिरांसि च ।
निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ।।
छन्नमायोधनं राजन्कुण्डलाङ्गदधारिभिः।
पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ।।
रथनेमिनिकृत्तैश्च गजैश्चैवावपोथितैः ।
पादातश्चाप्यधावन्त साश्वाश्च हययोधिनः ।।
गजाश्च रथयोधाश्च परिपेतुः समन्ततः ।
विकीर्णाश्च रथा भूमौ भग्रचक्रयुगध्वजाः ।।
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम ।
छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ।।
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह ।
प्रणेर्दुर्भक्ष्यमासाद्य विकृताश्च सगद्विजाः ।।
ववुर्बहुविधश्चैव दिक्षु सर्वासु मारुताः।
दृश्यमानेषु रक्षःसु भूतेषु च नदत्सु च ।।
काञ्चनानि च दामानि पताकाश्च महाधनाः ।
धूयमाना व्यदृश्यन्त सहसा मारुतेरिताः ।।
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः ।
विकीर्णाः समदृश्यन्त शतशोऽथ सहस्रशः ।।
सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः।
क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः ।।
समन्ततश्च दृश्यन्ते पतिता धरणीतले ।
`इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः।'
पेतुरार्तस्वरं कृत्वा तत्रतत्र महागजाः ।।
सेनापतिस्तु समरे प्राह सेनां महारथः ।
अभ्यद्रवत गाङ्गेयं सैनिकाः किं कृतेन वः ।।
सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः ।
अभ्यद्रवन्त गोङ्गेयं शस्त्रवृष्ट्या समन्ततः ।।
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ।
अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ।।
तं शिखण्डी रणे यान्तमभ्यद्रवत दंशितः ।
ततः समाहरद्भीष्मस्तदस्त्रं पावकोपमम् ।।
एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः।
निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसयुद्धे सप्तदशाधिकशततमोऽध्यायः ।।