भीष्मपर्व

अध्यायः ११४

Bhishma Parva (Sanskrit) · Adhyaya 114
अक्षर का आकार

सञ्जय उवाच।

अर्जुनस्तु रणे शल्यं यतमानं महारथम्।
छादयामास समरे शरैः सन्नतपर्वभिः ।।

सुशर्माणं कृपं चव त्रिभीस्त्रिभिरविध्यत।
प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ।।

चित्रसेनं विकर्णं च कृतवर्माणमेव च ।
दुर्मर्षणं च राजेन्द्र ह्यावन्त्यौ च महारथौ ।।

एकैकं त्रिभिरानर्च्छत्कङ्कबर्हिणवाजितैः ।
शरैरतिरथो युद्धे पीडयन्वाहिनीं तव।।

जयद्रथो रणे पार्थं विद्ध्वा भारत सायकैः ।
भीमं विव्याध तरसा चित्रसेनरथे स्थितः ।।

शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः ।।
विव्याधाते महाराज बहुधा मर्ममेदिभिः ।।

चित्रसेनादयश्चैव पुत्रास्तव विशांपते ।
पञ्चाभिः पञ्चभिस्तूर्णं सुंयुगे निशितैः शरैः ।।

आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष ।
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ ।।

अपीडयेतां समरे त्रिगर्तानां महद्बलम् ।
सुशर्माणि रणे पार्थं शरैर्नवभिराशुगैः ।।

ननाद बलवन्नादं त्रासयानो महद्बलम् ।
अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ ।।

विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ।
तेषां च रथिनां मध्ये कौन्तेयौ भरतर्षभौ ।।

क्रीडमानौ रथोदारौ चित्ररूपौ व्यदृश्यताम् ।
आमिषेप्सू गवां मध्ये सिंहाविव मदोत्कटौ ।।

छित्त्वा धनूंषि शूराणां शरांश्च बहुधा रणे ।
पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ।।

रथाश्च बहवो भग्ना हयाश्च शतशो हताः।
गजाश्च सगजारोहाः पेतुरुर्व्यां महाहवे ।।

रथिनः सादिनश्चापि तत्रतत्र निषूदिताः।
दृश्यन्ते बहवो राजन्वेषमानाः समन्ततः ।।

हतैर्गजपदात्योघैर्वाजिभिश्च निषूदितैः।
रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ।।

छत्रैश्च बहुधा च्छिन्नैर्ध्वजैश्च विनिपातितैः ।
अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ।।

केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा ।
उष्णीषैर्ऋष्टिभिश्चैव चामरव्यजनैरपि ।।

तत्रतत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः ।
ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ।।

तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् ।
शरैः संवार्य तान्वीरान्यज्जघान महाबलः ।।

पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनपराक्रमम् ।
गाङ्गेयस्य रथाभ्याशमुपजग्मे महाबलः ।।

कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।
विन्दानुविन्दावावन्त्यौ नाजहुः संयुगं तदा ।।

ततो भीमो महेष्वासः फल्गुनश्च महारथः ।
कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ।।

ततो बर्हिणवाजानामयुतान्यर्बुदानि च।
धनञ्जयरथे तूर्णं पातयन्ति स्म भूमिपाः ।।

ततस्तञ्शरजालेन सन्निवार्य महारथान् ।
पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ।।

शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः ।
आजघानोरसि क्रुद्धो भल्लैः सन्नतपर्वभिः ।।

तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः ।
अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ।।

अथान्यद्धनुरादाय समरे भारसाधनम् ।
मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ।।

त्रिभिः शरैर्महाराज वासुदेवं कच पञ्चभिः ।
भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ।।

ततो द्रोणो महाराज मागधश्च महारथः ।
दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः।।

यत्र पार्थो महाराज भीमसेनश्च पाण्डवः ।
कौरव्यस्य महासेनां जघ्नुतुः सुमहारथौ ।।

जयत्सेनस्तु समरे भीमं भीमायुधं युधि।
विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ।।

तं भीमो दशभिर्विद्धा पुनर्वीव्याध पञ्चभिः ।
सारथिं चास्य भल्लेन रथनीडादपातयत् ।।

उद्भ्रांतैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः ।
मागधोऽपसृतो राजा सर्वसैन्यस्य पश्यतः ।।

द्रोणश्च विवरं दृष्ट्वा भीमसेनं शिलीमुखैः ।
विव्याध बाणैर्निशितैः पञ्चषष्टिभिरायसैः ।।

तं भीमः समरश्लाघी गुरुं पितृसमं रणे।
विव्याध पञ्चभिर्भल्लैस्तथा षष्ट्या च भारत ।।

अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः।
व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथाऽनिलः ।।

ततो भीष्मश्च राज च कौसल्यश्च बृहद्बलः ।
समवर्तन्त संक्रुद्धा भीमसेनधनञ्जयौ ।।

तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः ।
अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ।।

शिखण्डी तु समासाद्य भरतानां पितामहम् ।
अभ्यद्रवत संहृष्टो भयं त्यक्त्वा महारथात् ।।

युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् ।
अयोधयन्रणे भीष्मं सहिताः सर्वसृञ्जयैः ।।

तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् ।
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ।।

ततः प्रववृते युद्धं कौरवाणां भयावहम्।
तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ।।

तावकानां जये भीष्मो ग्लह आसीद्विशांपते ।
तत्र हि द्यूतमासक्तं विजयायेतराय वा ।।

धृष्टद्युम्नस्तु राजेन्द्र सर्वसैन्यान्यचोदयत्।
अभ्यद्रवत गाङ्गेयं मा भैष्ट रथसत्तमाः ।।

सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी ।
भीष्मं समभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ।।

भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् ।
आपतन्तीं महाराज वेलामिव महोदधिः ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसयुद्धे चतुर्दशाधिकशततमोऽध्यायः ।।