भीष्मपर्व

अध्यायः ११३

Bhishma Parva (Sanskrit) · Adhyaya 113
अक्षर का आकार

सञ्जय उवाच।

भगदत्तः कृपः शल्यः कृतवर्ता तथैव च।
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ।।

चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा।
दशैते तावका योधा भीमसेनमयोधयन् ।।

महत्या सेनया युक्ता नानादेशसमुत्थया ।
भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ।।

शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् ।
कृतवर्मा त्रिभिर्भाणैः कृपश्च नवभिः शरैः ।।

चित्रसेनो विकर्णश्च भगदत्तश्च मारिष ।
दशभिर्दशभिर्बाणैर्भीमसेनमताडयन् ।।

सैन्धवश्च त्रिभिर्बाणैर्भीमसेनमडायत् ।
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ।।

दुर्मर्षणस्तु विंशत्या पाण्डवं निशितैः शरैः।
स तान्सर्वान्महाराज राजमानान्पृथक्पृथक् ।।

प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ।
जघान समरे वीरः पाण्डवः परवीरहा ।।

सप्तभिः शल्यमाविध्यत्कृतवर्माणमष्टभिः ।
कृपस्य सशरं चापं मध्ये चिच्छेद भारत ।।

अथैनं च्छिन्नधन्वानं पुनर्विव्याध सप्तभिः ।
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् ।।

दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ।
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् ।।

विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ।
अथान्यद्धनुरादाय गौतमो रथिनां वरः ।।

भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः।
स विद्धो दशभिर्बाणैस्तोत्रैरिव महाद्विपः ।।

ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् ।
गौतमं ताडयामास शरैर्बहुभिराहवे ।।

सैन्धवस्य तथाऽश्वांश्च सारथिं च त्रिभिः शरैः ।
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ।।

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।
शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ।।

तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद मारिष ।
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ।।

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ।।

अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः ।
महारथाञ्शरैर्विद्ध्वा वारयित्वा च मारिष ।।

विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ।
तदा न ममृषे शल्यो भीमसेस्य विक्रमम् ।।

स संधाय शरांस्तीक्ष्णान्करमारपरिमार्जितान् ।
भीमं विव्याध समरे तिष्ठितिष्ठेति चाब्रवीत् ।।

कृपश्च कृतवर्माच भगदत्तश्च वीर्यवान् ।
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ।।

दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान्।
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिन्दमाः ।।

स च तान्प्रति विव्याध पञ्चभिः पञ्चभिः शरैःक ।
शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ।।

तं शल्यो नवभिर्भित्त्वा पुनर्विव्याध पञ्चभिः ।
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ।।

विशोकं प्रेक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् ।
मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरुसि चार्पयत् ।।

तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ।
ताजयामास समरे सिंहवाद्विननाद च ।।

ते हि यत्ता महेष्वासाः पाण्डवं युद्धकोविदम् ।
त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ।।

सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे ।
पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ।।

स तु क्रोधसमाविष्टः पाण्डवानां महारथः ।
मद्रेश्वरं त्रिभिर्बाणैर्भृशं विद्ध्वा महायशाः ।।

कृपं च नवभिर्बाणैर्भृशं विद्ध्वा समन्ततः ।
प्रग्ज्योतिषं शतैराजौ राजन्विव्याध सायकैः ।।

ततस्तु सशरं चापं सात्वतस्य महात्मनः ।
क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ।।

तथान्यद्धनुरादाय कृतवर्मा वृकोदरम् ।
आजघान भ्रुवोर्मध्ये नाराचेन परंतपः ।।

भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः ।
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ।।

द्वाभ्यां द्वाभ्यां तु विव्याध गौतमप्रभृतीन्रथान् ।
तेऽपि तं समरे राजन्विव्यधुर्निशितैः शरैः ।।

स तथा पीड्यमानोऽपि सर्वशस्त्रैर्महारथैः ।
मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ।।

ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् ।
प्रेषयामासुरव्याग्राः शतशोऽथ सहस्रशः ।।

तस्य शक्तिं महावेगां भगदत्तो महारथः।
चिक्षेप समरे वीरः स्वर्णदण्डां महमते ।।

तोमरं सैन्धवो राजा पट्टसं च महाभुजः ।
शतघ्नीं च कृपो राजञ्छरं शल्यश्च संयुगे ।।

अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् ।
भीमसेनं समुद्दिश्य प्रेषयमासुरोजसा ।।

तोमरं च द्विधा चक्रे क्षुरप्रेणानिलात्मजः ।
पट्टसं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ।।

स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः ।
मद्रराजप्रयुक्तं च शरं छित्त्वा महारथः ।।

शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे।
तथेतराञ्शरान्घोराञ्शरैः सन्नतपर्वभिः ।।

भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत्।
तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ।।

ततो धनञ्जयस्तत्र वर्तमाने महारणे ।
आजगाम रथेनाजौ भीमं दृष्ट्वा महारथम् ।।

निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ।
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ ।।

न शशंसुर्जयं तत्र तावकाः पुरुषर्षभाः ।
अथार्जुनो रणे भीमं योधयन्तं महारथान् ।।

भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम्।
आससाद रणे वीरांस्तावकान्दश भारत ।।

ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः।
बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ।।

ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।
अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ।।

सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः ।
जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ ।।

तच्छ्रुत्वा वचनं तस्य त्रैगर्तः प्रस्थलाधिपः ।
अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ।।

रथैरनेकसाहस्रैः समन्तात्पर्यवारयत् ।
ततः प्रववृते युद्धमर्जुनस्य परैः सह ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसयुद्धे त्रयोदशाधिकशततमोऽध्यायः ।।