भीष्मपर्व
अध्यायः ११५
धृतराष्ट्र उवाच।
कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय।
अयुध्यत महावीर्यः पाण्डवैः सह सृज्जयैः ।।
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन्।
आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ।।
सञ्जय उवाच।
कुरवः पाण्डवैः सार्धं यदयुध्यन्त भारत।
यथा च तदभूद्युद्धं तत्तु वक्ष्यामि सांप्रतम् ।।
गमिताः परलोकाय परमास्त्रैः किरीटिना ।
अहन्यहनि संप्राप्ते तावकानां महारथाः ।।
यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः ।
पार्थानामकरोद्भीष्मः सततं समिति क्षयम् ।।
कुरुभिः सहितं भीष्मं युध्यमानं परंतप ।
अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ।।
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे ।
अवर्तत महारौद्रः सततं समिति क्षयः ।।
तस्मिन्नयुतशो राजन्भूयशश्च परंतपः ।
भीष्मः शान्तनवो योधाञ्जघान परामास्त्रवित् ।।
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव ।
ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ।।
दशाहानि तथा तप्त्वा भीष्मः पाण्डववाहिनीम् ।
निरविद्यत धर्मात्मा जीविते स परंतपः ।।
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिसुखं रणे।
न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति ।।
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव ।
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ।।
भीष्म उवाच।
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद ।
शृणुष्व वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ।।
निर्विष्णोऽस्मि भृशं तात देहेनानेन भारत ।
घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ।।
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृज्जयांस्तथा ।
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ।।
सञ्जय उवाच।
तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः ।
भीष्मं प्रति ययौ राजा संग्रामे सह सृञ्जयैः ।।
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः ।
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ।।
अभिद्रवध्यं युद्ध्यध्वं भीष्मं जयत संयुगे ।
रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ।।
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः ।
भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ।।
मा वो भीष्माद्भयं किंचिदस्त्वद्य युधि सृञ्जयाः।
ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ।।
ते तथा समयं कृत्वा दशमेऽहनि पाण्डवाः।
ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्च्छिताः ।।
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् ।
भीष्मस्य पातने यत्नं परमं ते समास्थिताः ।।
ततस्त्व सुतादिष्टा नानाजनपदेश्वराः।
द्रोणेन सहपुत्रेण सहसेना महाबलाः ।।
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः ।
भीष्मं समरमध्यस्थं पालयांचक्रिरे तदा ।।
ततस्तु तावकाः शूराः पुरस्कृत्य महाव्रतम्।
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ।।
चेदिभिस्तु सपाञ्चालैः सहितो वानरध्वजः ।
ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ।।
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् ।
अभिमन्युः सहामात्यं दुर्योधमयोधयत् ।।
विराटस्तु सहानीकः सहसेनं जयद्रथम् ।
वृद्धक्षत्रस्य दायादमाससाद परंतप ।।
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः ।
भीमसेनोऽभिगुप्तस्तु नागानीकमुपाद्रवत् ।।
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् ।
द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोदरैः ।।
कर्णिकारध्वजं चैव सिंहकैतुररिंदमः ।
प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ।।
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् ।
राजभिः समरे पार्थमभिपेतुर्जिघांसवः ।।
तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे ।
संप्रधावत्स्वनीकेषु मेदिनी समकम्पत ।।
तान्यनीकान्यनीकेषु समयुध्यन्त भारत ।
तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ।।
ततस्तेषां प्रयततामन्योन्यमभिधावताम् ।
प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत ।।
शङ्खदुन्दुभिघोषश्च वारणानां च बृंहितैः ।
सिंहनादश्च सैन्यानां दारुणः समपद्यत ।।
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा ।
हाराङ्गदकिरीटेषु निष्प्रभा समपद्यत ।।
रजोमेघास्तु संजज्ञुः शस्त्रविद्युद्भिरावृताः ।
धनुषां चापि निर्घोषो दारुणः समपद्यत ।।
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः ।
रथघोषश्च संजज्ञे सेनयोरुभयोरपि ।।
प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् ।
निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ।।
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे ।
कुञ्जरान्कुञ्जरा जघ्नुः पादातांश्च पदातयः ।।
तत्रासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह।
भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ।।
तयोः समागमो घोरो बभूव युधि भारत।
अन्योन्यस्य वधार्थाय जिगीषूणां महाहवे ।।
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसयुद्धे पञ्चादशाधिकशततमोऽध्यायः ।।