भीष्मपर्व

अध्यायः ११२

Bhishma Parva (Sanskrit) · Adhyaya 112
अक्षर का आकार

सञ्जय उवाच।

अथ वीरो महेष्वासो मत्तवारणविक्रमः।
समादाय महच्चापं मत्तवारणवारणम् ।।

विधुन्वानो नरश्रेष्ठो द्रावयाणो वरूथिनीम् ।
पृतनां पाण्डवेयानां गाहमानो महाबलः ।।

निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् ।
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ।।

द्रोण उवाच।

अयं हि दिवसस्तात यत्र पार्थो महाबलः।
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ।।

उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव च ।
योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्तते मनः ।।

दिक्ष्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः ।
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ।।

नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः ।
रसते व्यथते भूमिः कम्पतीव च सर्वशः ।।

कङ्कगृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः ।
शिवाश्चैवाशिवा घोरा वेदयन्त्यो महद्भयम् ।।

पपात महती चोल्का मध्येनादित्यमण्डलात्।
सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ।।

परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्।
वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ।।

देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः ।
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ।।

अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं दिवाकरम् ।
अवाक्शिराश्च भगवानुपातिष्ठत चन्द्रकमाः ।।

वपूंषि च नरेन्द्राणां विगताभानि लक्षये ।
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताःक ।।

सेनयोरुभयोश्चापि समन्ताच्छ्रूयते महान्।
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निःस्वनः ।।

ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे।
अपास्यान्यान्रणे योधानभ्येष्यति पितामहम् ।।

हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः ।
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ।।

तं चेह निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् ।
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः।।

अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् ।
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ।।

असंकल्पध्वजश्चैव याज्ञसेनिर्महाबलः ।
न चामङ्गलिके तस्मिन्प्रहरेदापगासुतः ।।

एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् ।
अभ्युद्यतो रणे पार्थः कुरुवृद्धमुपाद्रवत् ।।

युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसंगतः ।
मम चास्त्रसमारम्भः प्रजानामशिवं ध्रुवम् ।।

मनस्वी बलवाञ्शूरः कृतास्त्रोऽलघुविक्रमः ।
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ।।

अजेयः समरे चापि देवैरपि सवासवैः ।
बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ।।

विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः ।
`अभ्युद्यतं रणे दृष्ट्वा भैरवास्त्रं च पाण्डवम् ।'
तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रत ।।

पश्याद्यैतन्महाघोरे संयुगे वैशसं महत्।
हेमचित्राणि शूरणां महान्ति च शुभानि च ।।

कवचान्यवदीर्यन्ते शरैः सन्नतपर्वभिः ।
छिद्यन्ते च ध्वजाग्राणि तोमराश्च धनूंषि च ।।

प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः ।
वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना ।।

नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः ।
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ।।

रथनागहयावर्तां महाघोरां सुदुर्गमाम् ।
रथेन संग्रामनदीं तरत्येष कपिध्वजः ।।

ब्रह्मण्यता दमो दानं तपश्च चरितं महत्।
इहैव दृश्यते पार्थे भ्राता यस्य धनञ्जयः ।।

भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ ।
वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ।।

तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः ।
तपोभावितदेहस्य कोपो दहति वाहिनीम् ।।

एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः ।
दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ।।

एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना ।
महोर्मिनद्धं सुमहत्तिमिनेव महाजलम् ।।

हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे ।
याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ।।

दुर्गमं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः ।
समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ।।

सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ ।
पर्यरक्षन्त राजानं यमौ च मनुजेश्वरम् ।।

उपेन्द्रसदृशश्यामो महाशाल इवोद्गतः ।
एष गच्छत्यनीकाग्रे द्वितीय इव फल्गुनः ।।

उत्तमास्त्राणि चाधत्स्व गृहीत्वा च महद्धनुः ।
पार्षतं याहि राजानं युध्यस्व च वृकोदरम् ।।

को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः ।
क्षत्रधर्मं तु संप्रेक्ष्य ततस्त्वां नियुनज्म्यहम् ।।

एष चातिरणे भीष्मो दहते वै महाचमूम् ।
युद्धेषु सदृशस्तात यमस्य वरुणस्य च ।।

सञ्जय उवाच।

पुत्रं समनुशास्यैवं भारद्वाजः प्रतापवान्।
महारणे महाराज धर्मराजमयोधयत् ।।

।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
दशमदिवसयुद्धे द्वादशाधिकशततमोऽध्यायः ।।