आश्वमेधिकपर्व

अध्यायः ९९

Aswamedhika Parva (Sanskrit) · Adhyaya 99
अक्षर का आकार

वैशंपायन उवाच।

श्रुत्वैवं सात्विकं दानं राजसं तामसं तथा।
पृथक्पृथक्त्वेन गतिं फलं चापि पृथक्पृथक्।।

अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः।
युधिष्ठिरो धर्मरतः केशवं पुनरब्रवीत्।।

बीजयोनिविशुद्धानां लक्षणानि वदस्व मे।
बीजदोषेण लोकेश जायन्ते च कथं नराः।।

आचारदोषं देवेशं वक्तुगर्हस्यशेषतः।।
ब्राह्मणानां विशेषं च गुणदोषौ च केशव।।

चातुर्वर्ण्यस्य कुत्स्नस्य वर्तमानाः प्रतिग्रहे।
केन विप्रा विशेषेण तरन्ते तारयन्ति च।
एतान्कथय देवेश त्वद्भक्तस्य नमोस्तु ते।।

भगवानुवाच।

शृणु राजन्यथावृत्तं बीजयोनिं शुभाशुभम्।
येन तिष्ठति लोकोयं विनश्यति च पाण्डव।।

अविप्लुतब्रह्मचर्यो यस्तु विप्रो यथाविधि।
स बीजं नाम विज्ञेयं तस्य बीजं शुभं भवेत्।।

कन्या चाक्षतयोनिः स्यात्कुलीना पितृमातृतः।
ब्राह्मणादिषु विवाहेषु परिणीता यथाविधि।
सा प्रशस्ता वरारोहा तस्या योनिः प्रशस्यते।।

मनसा कर्मणा वाचा या गच्छेत्परपूरुषम्।
योनिस्तस्या नरश्रेष्ठ गर्भाधानं न चार्हति।।

स्वैरिण्या यस्तु पापात्मा संतानार्थमिहेच्छति।
स कुलान्पातयत्याशु दशपूर्वान्दशापरान्।।

दुष्टयोनौ तु यो मोहाद्रेतः सिञ्चति मूढधीः।
तद्रेतसा समुत्पन्नः षडङ्गविदपि द्विजः।
साधुभिः स बहिष्कार्यः श्वापाक इव पार्थिवा।।

कर्मणा मनसा वाचा या भवेत्स्वैरचारिणी।
सा कुलघ्रीति विज्ञेया तस्यां जातः श्वपाचकः।।

दैवे पित्र्ये तथा दाने भोजने सहभाषणे।
शयने सहसंबन्धे न योग्या दृष्टयोनिजाः।।

न तस्माद्दुष्टयोन्यां तु गर्भमुत्पादयेद्बुधः।
मोहेन कुरुते यस्तु कुलं हन्ति त्रिपूरुषम्।।

कानीकनश्च सहोञश्च तथोभौ कुण्डगोलकै।
आरूढपतिताज्जातः परितस्यापि यः सुतः।
षडेते विप्रचण्डाला निकृष्टाः श्वपचादपि।।

यो यत्र तत्र वा रेतः सिक्त्वा शूद्रासु वा चरेत्।
कामचारी स पापात्मा बीजं तस्याशुभं भवेत्।।

अशुद्धं तद्भवेद्बीजं शुद्धां योनि न चार्हति।
दूषयत्यपि तां योनिं शुना लीढं हविर्यथा।।

शूद्रयोनौ पतेद्बीजं हाहाशब्दं द्विजन्मनः।
कुर्यात्पुरीषगर्तेषु पतितोऽस्मीति दुःखितः।।

मामधःपातयन्नेष पापात्मा काममोहितः।
अधोगतिं प्रजोत्क्षिप्रमिति शप्त्वा पतेत्तु तत्।।

आत्मा हि शुक्लमुद्दिष्टं दैवतं परमं महत्।
तस्मात्सर्वप्रयत्नेन निरुन्ध्याच्छुक्लमात्मनः।।

आयुस्तेजो बलं वीर्यं प्रज्ञा श्रीश्च महद्यशः।
पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया।।

अविप्लुतब्रह्मचर्यैर्गृहस्थश्रममाश्रितैः।
पञ्चयज्ञपरैर्धर्मः स्थाप्यते पृथिवीतले।।

सायंप्रातस्तु ये सन्ध्यां सम्यङ्नित्यमुपासते।
नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च।।

यो जपेत्पावनीं देवीं गायत्रीं वेदमातरम्।
न सीदेत्प्रतिगृह्णानः पृथिवीं च ससागराम्।।

ये चास्य दुःस्थिताः केचिद्ग्रहाः सूर्यादयो दिवि।
ते चास्य सौम्या जायन्ते शिवाः शुभकरास्तथा।।

यत्र यत्र स्थिताश्चैव दारुणाः पिशिताशनाः।
घोररूपा महाकाया धर्षयन्ति न तं द्विजम्।।

पुनन्तीह पृथिव्यां च चीर्णवेदव्रता नराः।
चतुर्णामपि वेदानां सा हि राजन्गरीयसी।।

अचीर्णिव्रतवेदा ये विकर्मफलमाश्रिताः।
ब्राह्ममा नाममात्रेण तेऽपि पूज्या युधिष्ठिर।
किं पुनर्यस्तु सन्ध्ये द्वे नित्यमेवोपतिष्ठते।।

शीलमध्ययनं दानं शौचं मार्दवमार्जवम्।
तस्माद्वेदाद्विशिष्टानि मनुराह प्रजापतिः।।

भूर्भुवस्स्वरिति ब्रह्म यो वेदनिरतो द्विजः।
स्वदारनिरतो दान्तः स विद्वान्स च भूसुरः।।

सन्ध्यामुपासते ये वै नित्यमेव द्विजोत्तमाः।
ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः।।

सावित्रीमात्रसारोपि वरो विप्रः सुयन्त्रितः।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी।।

सावित्रीं चैव वेदांश्च तुलयाऽतोलयन्पुरा।
सदेवर्षिगणाश्चैव सर्वे ब्रह्मपुरस्सराः।
चतुर्णामपि वेदानां सा हि राजन्गरीयसी।।

यथा विकसिते पुष्पे मधु गृह्णन्ति षट्पदाः।
एवं गृहीता सावित्री सर्ववेदे च पाण्डवः।।

तस्मात्तु सर्ववेदानां सावित्री प्राण उच्यते।
निर्जीवा हीतरे वेदा विना सावित्रिया नृपः।।

नायन्त्रितश्चतुर्वेदी शीलभ्रष्टः स कुत्सितः।
शीलवृत्तसमायुक्तः सावित्रीपाठको वरः।।

सहस्रपरमां देवीं शतमध्यां दशावराम्।
सावित्रीं जप कौतेय सर्वपापप्रणाशिनीम्।।

युधिष्ठिर उवाच।

त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्यसि।
नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा।।

भागवानुवाच।

यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत्।
करोति चेन्नमस्कारमुपहारं च कारयेत्।।

स्तौति यः स्तुतिभिर्मां च ऋग्यजुस्सामभिः सदा।
न तोषयति चेद्धिप्रान्नाहं तुष्यामि भारत।।

ब्राह्मणे पूजिते नित्यं पूजितोस्मि न संशयः।
आक्रुष्टे चाहमाक्रुष्टो भवामि भरतर्षभ।।

परा मयि गतिस्तेषां पूजयन्ति द्विजं हि ये।
यदहं द्विजरूपेण वसामि वसुधातले।।

यस्तान्पूजयति प्राज्ञो मद्गतेनान्तरात्मना।
तमहं स्वेन रूपेण पश्यामि नरपुङ्गव।।

कुब्जाः काणा वामनाश्च दरिद्रा व्याधितास्तथा।
नावमान्या द्विजाः प्राज्ञैर्मम रूपा हि ते द्विजाः।।

ये केचित्सागरान्तायां पृथिव्यां द्विजसत्तमाः।
मम रूपं हि तेष्वेवमर्चितेष्वर्चितोऽस्म्यहम्।।

बहवस्तु न जानन्ति नरा ज्ञानबहिष्कृताः।
यदहं द्विजरूपेण वसामि वसुधातले।।

अवमन्यन्ति ये विप्रान्स्वधर्मान्पातयन्ति ते।
प्रेषणैः प्रेषयन्ते च शुश्रूषां कारयन्ति च।।

मृतांश्चात्र परत्रेमान्यमदूता महाबलाः।
निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः।।

आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु।
तान्मृतान्यमलोकस्थान्निपात्य पृथिवीतले।।

आक्रम्योरसि पादेन क्रूरः संरक्तलोचनः।
अग्निवर्णैस्तु संदंशैर्यमो जिह्वां समुद्धरेत्।।

ये च विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा।
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः।।

तेषां घोरा महाकाया वक्रतुण्डा महाबलाः।
उद्धरन्ति मुहूर्तेन स्वगाश्चक्षुर्यमाज्ञया।।

यः प्रहारं द्विजेन्द्राय दद्यात्कुर्याच्च शोणितम्।
अस्थिभङ्गं च यः कुर्यात्प्राणैर्वा विप्रयोजयेत्।
सोनुपूर्व्येण यातीमान्नरकानेकविंशतिम्।।

शूलमारोप्यते पश्चाज्ज्वलने परिपच्यते।
बहुवर्षसहस्राणि पच्यमानस्त्ववाक्छिराः।
नावमुच्येत दुर्मेदा न तस्य क्षीयते गतिः।।

ब्राह्मणान्वा विचार्यैव व्रजन्तै वधकाङ्क्षया।
शतर्वषसहस्राणि तामिस्रे परिपच्यते।।

उत्पाद्य शोणितं गात्रात्संरंभमतिपूर्वकम्।
सपर्ययेण यातीमान्नरकानेकविंशतिम्।।

तस्मान्नाकुशलं ब्रूयान्न शुष्कां गतिमीरयेत्।
न ब्रूयात्परुषां वाणीं न चैवैनानतिक्रमेत्।।

ये विप्राञ्श्लक्ष्णया वाचा पूजयन्ति नरोत्तमाः।
अर्चितश्च स्तुतश्चैव तैर्भवामि न संशयः।।

तर्जयन्ति च ये विप्रान्क्रोशयन्ति च भारत।
आक्रुष्टस्तर्जितश्चाहं तैर्भवामि न संशयः।।

यश्चन्दनैश्चागरुधूपदीपै-
रभ्यर्चयेत्काष्ठमयीं ममार्चाम्।
तेनार्चितो नैव भवामि सम्य-
ग्विप्रार्चनादस्मि समर्चितोऽहम्।।

विप्रप्रसादाद्धरणीधरोऽहं
विप्रप्रसादादसुराञ्जयामि।
विप्रप्रसादाच्च सदक्षिणोऽहं
विप्रप्रसादादजितोऽहमस्मि।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि एकोनशततमोऽध्यायः।। 99 ।।