आश्वमेधिकपर्व

अध्यायः ९८

Aswamedhika Parva (Sanskrit) · Adhyaya 98
अक्षर का आकार

वैशंपायन उवाच।

एवं श्रुत्वा वचस्तस्य धर्मपुत्रोऽच्युतस्य तु।
पप्रच्छ पुनरप्यन्यं धर्मं धर्मात्मजो हरिम्।।

वृथा च कति जन्मानि वृथा दानानि कानि च।
वृथा च जीवितं केषां नराणां पुरुषोत्तम।।

कीदृशासु ह्यवस्थासु दानं दत्तं जनार्दन।
इह लोकेऽनुभवति पुरुषः पुरुषोत्तम।।

गर्भस्थः किं समश्नाति किं बाल्ये वाऽपि केशव।
यौवनस्थेऽपि किं कृष्ण वार्धके वाऽपि किं भवेत्।।

सात्विकं कीदृशं दानं राजसं कीदृशं भवेत्।
तामसं कीदृशं देव तर्पयिष्यति किं प्रभो।।

उत्तमं कीदृशं दानं तेषां वा किं फलं भवेत्।
किं दानं नयति ह्यूर्ध्वं किं गतिं मध्यमां नयेत्।
गतिं जघन्यामथवा देवदेव ब्रवीहि मे।।

एतदिच्छामि विज्ञातुं परं कौतूहलं हि मे।
त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन।।

वैशंपायन उवाच।

एवं धर्मं प्रयत्नेन पृष्टः पाण्डुसुतेन वै।
उवाच वासुदेवोऽथ धर्मान्धर्मात्मजस्य तु।।

भगवानुवाच।

शृणु राजन्यथान्यायं वचनं तथ्यमुत्तमम्।
कथ्यमानं मया पुण्यं सर्वपापव्यपोहनम्।।

वृथा च दश जन्मानि चत्वारि च नराधिप।
वृथा दानानि पञ्चाशत्पञ्चैव च यथाक्रमम्।।

वृथा च जीवितं येषां ते च षट् परिकीर्तिताः।
अनुक्रमेण वक्ष्यामि तानि सर्वाणि पार्थिव।।

धर्मघ्नानां वृथा जन्म लुब्धानां पापिनां तथा।
वृथा पाकं च येऽश्नन्ति परदाररताश्च ये।
पाकभेदकरा ये च ये च स्युः सत्यवर्जिताः।।

मृष्टमश्नाति यश्चैकः क्लिस्यमानैस्तु बान्धवैः।
पितरं मातरं चैव उपाध्यायं गुरुं तथा।
मातुलं मातुलानीं च यो निहन्याच्छपेत वा।।

ब्राह्मणश्चैव यो भूत्वा सन्ध्योपासनवर्जितः।
निस्स्वाहो निस्स्वधश्चैव शूद्राणामन्नभुग्द्विजः।।

मम वा शंकरस्याथ ब्रह्मणो वा युधिष्ठिर।
अथवा ब्राह्मणानां तु ये न भक्ता नराधमाः।
वृथाजन्मान्यथैतेषां पापिनां विद्धि डव।।

अश्रद्धयाऽपि यद्दत्तमवामानेन वाऽपि यत्।
डंभार्थमपि यद्दत्तं यत्पाषण्डिहृतं नृप।।

शूद्राचाराय यद्दत्तं यद्दत्त्वा चानुकीर्तितम्।
रोषयुक्तं तु यद्दत्तं यद्दत्तमनुशोचितम्।।

डंभार्जितं च यद्दत्तं यच्च वाऽप्यनृतार्जितम्।
ब्राह्मणस्वं च यद्दत्तं चौर्येणाप्यार्जितं च यत्।।

अभिशास्ताहृतं यत्तु यद्दत्तं पतिते द्विजे।
निर्ब्रह्माभिहृतं यत्तु यद्दत्तं सर्वयाचकैः।।

व्राप्यैस्तु यद्धृतं दानमारूढपतितैश्च यत्।
यद्दत्तं स्वैरिणीभर्तुः श्वशुराननुवर्तिने।।

यद्ग्रामयाचकहृतं यत्कृतघ्नहृतं तथा।
उपपातकिने दत्तं देवविक्रयिणे च यत्।।

स्त्रीजिताय च यद्दत्तं यद्दत्तं राजसेविने।
गणकाय च यद्दत्तं यच्च कारणिकाय च।।

वृषलीपतये दत्तं यद्दत्तं शस्त्रजीविने।
भृतकाय च यद्दत्तं व्यालग्राहिहृतं च यत्।।

पुरोहिताय यद्दत्तं चिकित्सकहृतं च यत्।
यद्वणिंक्कर्मिणे दत्तं क्षुद्रमन्त्रोपजीविने।।

यच्छूद्रजीविने दत्तं यच्च देवलकाय च।
देवद्रव्याशिने यच्च यद्दत्तं चित्रकर्मिणे।।

रङ्गोपजीविने दत्तं यच्च मांसोपजीविने।
सेवकाय च यद्दत्तं यद्दत्तं ब्राह्मणब्रुवे।।

अदेशिने च यद्दत्तं दत्तं वार्धुषिकाय च।
यदनाचारिणे दत्तं यत्तु दत्तमनग्रये।।

असन्ध्योपासिने दत्तं यच्छूद्रग्रामवासिने।
यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत्।।

नास्तिकाया च यद्दत्तं धर्मविक्रयिणे च यत्।
वराकाय च यद्दत्तं यद्दत्तं कूटसाक्षिणे।।

ग्रामकूटाय यद्दत्तं दानं पार्तिवपुङ्गव।
वृथा भवति तत्सर्वं नात्र कार्या विचारणा।।

विप्राणामधरा एते लोलुपा ब्राह्मणाधमाः।
नात्मानं तारयन्त्येते न दातारं युधिष्ठिर।।

एतेभ्यो दत्तमात्राणि दानानि सुबहून्यपि।
वृथा भवन्ति राजेन्द्र भस्मन्याज्याहुतिर्यथा।।

एतेषु यत्फलं किंचिद्भविष्यति कथंचन।
राक्षसाश्च पिशाचाश्च तद्विलुंपन्ति हर्षिताः।।

वृथा ह्येतानि दत्तानि कथितानि समासतः।
जीवितं तु वृथा येषां चच्छृणुष्व युधिष्ठिर।।

ये मां न प्रतिपद्यन्ते शङ्करं वा नराधमाः।
ब्रैह्मणान्वा महीदेवान्वृथा जीवन्ति ते नराः।।

हेतुशास्त्रेषु ये सक्ताः कुदृष्टिपथमाश्रिताः।
देवान्निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः।।

कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः।
विप्रान्निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः।।

ये दुर्गां वा कुमारं वा वायुमग्निं जलं रविम्।
पितरं मातरं चैव गुरुमिन्द्रं निशाकरम्।
मूढा निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः।।

विद्यमाने धने यस्तु दानधर्मविवर्जितः।
मृष्टमश्नाति यश्चैको वृथा जीवति सोपि च।।

वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते।।

तमोनिविष्टचित्तेन दत्तं दानं तु यद्भवेत्।
तदस्य फलमश्नाति नरो गर्भगतो नृप।।

ईर्ष्यामत्सरसंयुक्तो डंभार्थं चार्थकारणात्।
ददाति दानं यो मर्त्यो बालभावे तदश्नुते।।

भोक्तं भोगमशक्तस्तु व्याधिभिः पीडितो भृशम्।
ददाति दानं यो मर्त्यो वृद्धभावे तदश्नुते।।

श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः।
ददाति दानं यो मर्त्यो यौवने स तदश्नुते।।

स्वयं नीत्वा तु यद्दानं भक्त्या पात्रे प्रदीयते।
तत्सार्वकालिकं विद्धि दानमामरणान्तिकम्।।

राजसं सात्विकं चापि तामसं च युधिष्ठिर।
दानं दानफलं चैव गतिं च त्रिविधां शृणु।।

दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वै।
उपकारवियुक्ताय यद्दत्तं तद्धि सात्विकम्।।

श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव।
दीयते यत्प्रहृष्टेन तत्सात्विकमुदाहृतम्।।

वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे।
समृद्धाय च यद्दत्तं तद्दानं राजसं स्मृतम्।।

संबन्धिने च यद्दत्तं प्रमत्ताय च पाण्डव।
फलार्थिभिरपात्राय तद्दानं राजसं स्मृतम्।।

वैश्वदेवविहीनाय दानमश्रोत्रियाय च।
दीयते तस्करायापि तद्दानं तामसं स्मृतम्।।

सरोषमवधूतं च क्लेशयुक्तमवज्ञया।
सेवकाय च यद्दतं तत्तामसमुदाहृतम्।।

देवाः पितृगणाश्चैव मुनयश्चाग्नयस्तथा।
सात्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर।।

दानवा दैत्यसङ्गाश्च ग्रहा यक्षाः सराक्षसाः।
राजसं दानमश्नन्ति वर्जितं पितृदैवतैः।।

पिशाचाः प्रेतसङ्घाश्च कश्मला ये मलीमसाः।
तामसं दानमश्नन्ति गतिं च त्रिविधां शृणु।।

सात्विकानां तु दानानामुत्तमं फलमश्नुते।
मध्यमं राजसानां तु तामसानां तु पश्चिमम्।।

अभिगम्योपनीतानां दानानामुत्तमं फलम्।
मध्यमं तु समाहूय जघन्यं याचते फलम्।।

अयाचितप्रदाता यः स याति गतिमुत्तमाम्।
समाहूय तु यो दद्यान्मध्यमां स गतिं व्रजेत्।
याचितो यश्च वै दद्याज्जघन्यां स गतिं व्रजेत्।।

उत्तमा दैविकी ज्ञेया मध्यमा मानुषी गतिः।
गतिर्जघन्या तिर्यक्षु गतिरेषा त्रिधा स्मृता।।

पात्रभूतेषु विप्रेषु संस्थितेष्वाहिताग्निषु।
यत्तु निक्षिप्यते दानमक्षयं संप्रकीर्तितम्।।

श्रोत्रियाणां दरिद्राणां भरणं कुरु पार्थिव।
समृद्धानां द्विजातीनां कुर्यास्तेषां तु रक्षणम्।।

दरिद्रान्वित्तहीनांश्च प्रदानैः सुष्ठु पूजय।
आतुरस्यैषधैः कार्यं नीरुजस्य किमौषधैः।।

पापं प्रतिग्रहीतारं प्रदातुरपगच्छति।
प्रतिग्रहीतुर्यत्पुण्यं प्रदातारमुपैति तत्।
तस्माद्दानं सदा कार्यं परत्र हितमिच्छता।।

वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु।
प्रयत्नेन विधातव्यो महादानमयो निधिः।।

येषां दाराः प्रतीक्षन्ते सहस्रस्येव लम्भनम्।
भुक्तशेषस्य भक्तस्य तान्निमन्त्रय पाण्डव।।

आमन्त्र्य तु निराशानि न कर्तव्यानि भारत।
कुलानि सुदरिद्राणि तेषामाशा हता भवेत्।।

मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः।
मद्याजिनो मन्नियमास्तान्प्रयत्नेन पूजयेत्।।

तेषां तु पावनायाहं नित्यमेव युधिष्ठिर।
उभे सन्ध्येऽधितिष्ठामि ह्यस्कन्नं तद्व्रतं मम।।

तस्मादष्टाक्षरं मन्त्रं मद्भक्तैर्वीतकल्मषैः।
सन्ध्याकाले तु जप्तव्यं सततं चात्मशुद्धये।।

अन्येषामपि विप्राणां किल्बिषं हि विनश्यति।
उभे सन्ध्येप्युपासीत तस्माद्विप्रो विशुद्धये।

दैवे श्राद्धेपि विप्रः स नियोक्तव्योऽजुगुप्सया।
जुगुप्सितस्तु यः श्राद्धं दहत्यग्निरिवेन्धनम्।।

भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम्।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः।।

न ब्राह्मणान्परीक्षेत दैवे कर्मणि धर्मवित्।
महान्भवेत्परीवादो ब्राह्मणानां परीक्षणे।।

ब्राह्मणानां परीवादं यः कुर्यात्स नराधमः।
रासभानां शुनां योनिं गच्छेत्पुरुषदूषकः।।

श्वत्वं प्राप्नोति निन्दित्वा परीवादात्खरो भवेत्।
कृमिर्भवत्यभिभवात्कीटो भवति मत्सरात्।।

दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः।
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः।।

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्।
नावमन्येत मेधावी कृशानपि कदाचन।।

एतत्त्रयं हि पुरुषं निर्दहेदवमानितम्।
तस्मादेतत्प्रयत्नेन नावमन्येत बुद्धिमान्।।

यथा सर्वास्ववस्थासु पावको दैवतं महत्।
तथा सर्वास्ववस्थासु ब्राह्मणो दैवतं महत्।।

व्यङ्गाः काणाश्च कुब्जाश्च वामनाङ्गास्तथैव च।
सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः।।

मन्युं नोत्पादयेत्तेषां न चारिष्टं समाचरेत्।
मन्युप्रहरणा विप्रा न विप्राः शश्त्रपाणयः।।

मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान्।
ब्राह्मणो हि महद्दैवं जातिमात्रेण जायते।।

ब्राह्मणः सर्वभूतानां धर्मकोशस्य गुप्तये।
किं पुनर्ये च कौन्तेय सन्ध्यां नित्यमुपासते।।

यस्यास्येन समश्नन्ति हव्यानि त्रिदिवौकसः।
कव्यानि चैव पितरः किं भूतमधिकं ततः।।

उत्पत्तिरेव विप्रस्य मूर्तिधर्मस्य शाश्वती।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते।।

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च।
आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः।
तस्मात्ते नावमन्तव्या मद्भक्ता हि द्विजाः सदा।।

आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः।
निगूढं निष्कलावस्थं तान्प्रयत्नेन पूजय।।

स्वगृहे वा प्रवासे वा दिवारात्रमथापि वा।
श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव।।

नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः।
नास्ति विप्रात्परो बन्धुर्नास्ति विप्रात्परो निधिः।
नास्ति विप्रात्परं तीर्थं न पुण्यं ब्राह्मणात्परम्।

न पवित्रं परं विप्रान्न द्विजात्पावनं परम्।
नास्ति विप्राप्तरो धर्मो नास्ति विप्रात्परा गतिः।।

पापकर्मसमाक्षिप्तं पतन्तं नरके नरम्।
त्रायते पात्रमप्येकं पात्रभूते तु तद्द्विजे।।

बालाहिताग्नयो ये च शान्ताः शूद्रान्नवर्जिताः।
मामर्चयन्ति तद्भक्तास्तेभ्यो दत्तमिहाक्षयम्।।

प्रदानैः पूजितो विप्रो वन्दितो वापि संस्कृतः।
सम्भाषितो वा दृष्टो वा मद्भक्तो दिवमुन्नयेत्।।

ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषास्तु माम्।
स तान्स्पृष्ट्वा च दृष्ट्वा च नरः पापैः प्रमुच्यते।।

मद्भक्ता मद्गतप्राणा मद्गीता मत्परायणाः।
बीजयोनिविशुद्धा यै श्रोत्रियाः संयतेन्द्रियाः।
शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात्।।

स्वंय नीत्वा विशेषेण दानं तेषां गृहेष्वथ।
निवापयेत्तु यद्भक्त्या तद्दानं कोटिसंमितम्।।

जाग्रतः स्वपतो वापि प्रवासेषु गृहेष्वथ।
हृदये न प्रणश्यामि यस्य विप्रस्य भावतः।।

स पूजितो वा दृष्टो वा स्पृष्टो वापि द्विजोत्तमः।
सम्भाषितो वा राजेन्द्र पुनात्येव नरं सदा।।

एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव।
मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि अष्टनवतितमोऽध्यायः।। 98 ।।