आश्वमेधिकपर्व

अध्यायः १००

Aswamedhika Parva (Sanskrit) · Adhyaya 100
अक्षर का आकार

युधिष्ठिर उवाच।

देवदेवेश दैत्यघ्नि परं कौतूहलं हि मे।
एतत्कथय सर्वज्ञ त्वद्भक्तस्य च केशव।
मानुषस्य च लोकस्य धर्मलोकस्य चान्तरम्।।

कीदृशं किंप्रमाणं वा किमधिष्ठानमेव च।
तरन्ति मानुषा देव केनोपायेन माधव।।

त्वगस्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते।
कथयस्व महादेव सुखदुःखमशेषतः।।

जीवस्य कर्मलोकेषु कर्मभिस्तु शुभाशुभैः।
अनुबद्धस्य तैः पाशैर्नीयमानस्य दारुणैः।।

मृत्युदूतैर्दुराधर्षैर्घोरैर्घोरपरक्रमैः।
वध्यस्याक्षिप्यमाणस्य विद्रुतस्य यमाज्ञया।।

पुण्यपापकृदातिष्ठेत्सुखदुःखमशेषतः।
यमदूतैर्द्रुराधर्षैर्नीयते वा कथं पुनः।
किं वा तत्र गता देव कर्म कुर्वन्ति मानवाः।।

कथं धर्मपरा यान्ति देवताद्विजपूजकाः।
कतं वा पापकर्माणो यान्ति प्रेतपुरं नराः।।

किं रूपं किं प्रमाणं वा वर्णः को वाऽस्य केशव।
जीवस्य गच्छतो नित्यं यमलोकं ब्रवीहि मे।।

भगवानुवाच।

शृणु राजन्यथावृतं यन्मां त्वं परिपृच्छसि।
तत्तेऽहं कथयिष्यामि मद्भक्तस्य नरेश्वर।।

षडशीतिसहस्राणि योजनानां युधिष्ठिर।
मानुष्यस्य च लोकस्य यमलोकस्य चान्तरम्।।

न तत्र वृक्षच्छाया वा न तटाकं सरोपि वा।
न वाप्यो दीर्घिका वाऽपि न कूपो वा युधिष्ठिर।।

न मण्टपं सभा वाऽपि न प्रपा न निकेतनम्।
न पर्वतो नदी वाऽपि न भूमेर्विवरं क्वचित्।।

न ग्रामो नाश्रमो वाऽपि नोद्यानं वा वनानि च।
न किंचिदाश्रयस्थानं पथि तस्मिन्युधिष्ठिर।।

जन्तोर्हि प्राप्तकालस्य वेदनार्तस्य वै भृशम्।
कारणैस्त्यक्तदेहस्य प्राणैः कण्ठगतैः पुनः।।

शरीराच्चाल्यते जीवो ह्यवशो मातरिश्वना।
निर्गतो वायुभूतस्तु षट्कोशात्तु कलेवरात्।।

शरीरमन्यत्तद्रूपं तद्वर्णं तत्प्रमाणतः।
अदृश्यं तत्प्रविष्टस्तु सोप्यदृष्टोऽथ केनचित्।।

सोन्तरात्मा देहवतामष्टाङ्गो यस्तु संचरेत्।
छेदनाद्भेदनाद्दाहात्ताडनाद्वा न नश्यति।

नाना रूपधरैर्घौरैः प्रचण्डेश्चण्डसाधनैः।
नीयमानो दुराधर्षैर्यमदूतैर्यमाज्ञया।।

पुत्रदारमयैः पाशैः संनिरूद्धोऽवशो बलात्।
स्वकर्मभिश्चानुगतः कृतैः सुकृतदुष्कृतैः।।

आक्रन्दमानः करुणं बन्धुभिर्दुःखपीडितैः।
त्यक्त्वा बन्धुजनं सर्वं निरपेक्षस्तु गच्छति।।

मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा।
दारैः पुत्रैर्वयस्यैश्च रुदद्भिस्त्यज्यते पुनः।।

अदृश्यमानस्तैर्दीनैरश्रुपूर्णमुखेक्षणैः।
स्वशरीरं परित्यज्य वायुभूतस्तु गच्छति।।

अन्धकारमपारं तं महाघेरं तमोवृतम्।
दुःखान्तं दुष्प्रतारं च दुर्गमं पापकर्मणाम्।।

दुःसहायं दुरन्तं च दुर्निरीक्षं दुरासदम्।
दुरापमतिदुःखं च पापिष्ठानां नरोत्तम।।

ऋषिभिः कथ्यमानं तत्पारंपर्येण पार्थिव।
त्रासं जनचति प्रायः श्रूयमाणं कथास्वपि।।

अवश्यं चैव गन्तव्यं तदध्वानं युधिष्ठिर।
प्राप्तकालेन संत्यज्य बन्धून्भोगान्धनानि च।।

जरायुजैरण्डजैश्च स्वेदजैरुद्भिदैस्तथा।
जङ्गमैः स्थिरसंज्ञैश्च गन्तव्यं यमसादनम्।।

देवासुरैर्मनुष्याद्यैर्वैवस्वतवशानुगैः।
स्त्रीपुंनपुंसकैश्चापि पृथिव्यां जीवसंज्ञितैः।।

मध्यमैर्युवभिर्वाऽपि बालैर्वृद्धैस्तथैव च।
जातमात्रैश्च गर्भस्थैर्गन्तव्यः स महापथः।।

पूर्वाह्णे वाऽपराह्णे वा सन्ध्याकालेऽथवा पुनः।
प्रदोषे वाऽर्धरात्रे वा प्रत्युषे वाऽप्युपस्थिते।।

प्रवासस्थैर्वनस्थैर्वा पर्वतस्थैर्जले स्थितैः।
क्षेत्रस्थैर्वा नभःस्थेर्वा गृहमध्यगतैरपि।।

भुञ्जद्भिर्वा पिबद्भिर्वा खादद्भिर्वा नरोत्तम।
आसीनैर्वा स्थितैर्वापि शयनीयगतैरपि।
जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः।।

मृत्युदूतैर्दुराधर्षैः प्रचण्डैश्चण्डसासनैः।
आक्षिप्यमाणा ह्यवशाः प्रयान्ति यमसादनम्।।

क्वचिद्भीतैः क्वचिन्मत्तैः प्रस्खलद्भिः क्वचित्क्वचित्।
क्रन्दद्भिर्वेदनार्तैस्तु गन्तव्यं यमसादनम्।।

निर्भर्त्स्यमानैरुद्विग्रैर्विधूतैर्भयविह्वलैः।
तुद्यमानशरीरैश्च गन्तव्यं तर्जितैस्तथा।।

कण्टकाकीर्णमार्गेण तप्तवालुकपांसुना।
दह्यमानैस्तु गन्तव्यं नरैर्दानविवर्जितैः।।

काष्ठोपलशिलाघातैर्दण्डोल्मुककशाङ्कुशैः।
हन्यमानैर्यमपुरं गन्तव्यं धर्मवर्जितैः।।

मेदःशोणितपूयाद्यैर्वक्त्रैर्गात्रैश्च सव्रणैः।
दग्धक्षतजकीर्णैश्च गन्तव्यं जीवघातकैः।।

वेदनार्तैस्च कूजद्भिर्विक्रोशद्भिश्च विस्वरम्।
वेदनार्तैः पतद्भिश्च गन्तव्यं जीवघातकैः।।

भग्रपादोरुहस्तङ्गैर्भग्रजङ्घाशिरोधरैः।
छिन्नकर्णोष्ठनासैश्च गन्तव्यं जीवघातकैः।।

शक्तिभिर्भिण्डिपालैश्च शङ्कुतोमरसायकैः।
तुद्यमानैस्तु शूलाग्रैर्गन्तव्यं जीवघातकैः।।

श्वभिर्व्याघ्रैर्वृकैः काकैर्भक्ष्यमाणाः समन्ततः।
तुद्यमानाश्च गच्छन्ति राक्षसैर्मांसघातिभिः।।

महिषैश्च मृगैश्चापि सूकरैः पृषतैस्तथा।
भक्ष्यमाणैस्तदध्वानं गन्तव्यं मांसखादिभिः।।

सूचीसुतीक्ष्णतुण्डाभिर्मक्षिकाभिः समन्ततः।
तुद्यमानैश्च गन्तव्यं पापिष्ठैर्बालघातकैः।।

विस्रब्धं स्वामिनं मित्रं स्त्रियं वा घ्रन्ति ये नराः।
शस्त्रैर्निर्भिद्यमानैश्च गन्तव्यं यमसादनम्।।

खादयन्ति च ये जीवान्दुःखमापादयन्ति च।
राक्षसैश्च श्वभिश्चैव भक्ष्यमाणा व्रजन्ति च।।

ये हरन्ति च वस्त्राणि शय्यां प्रावरणानि च।
ते यान्ति विद्रुता नग्नाः पिशाचा इव तत्पथं।।

गाश्च धान्यं हिरण्यं वा बलात्क्षेत्रं गृहं तथा।
ये हरन्ति दुरात्मानः परस्वं पापकारिणः।।

पाषाणैरुल्मुकैर्दण्डैः काष्ठघातैश्च चर्झरैः।
हन्यमानैः क्षताकीर्णैर्नन्तव्यं तैर्यमालयम्।।

ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः।
आक्रोशन्तीह ये नित्यं प्रहरन्ति च ये द्विजान्।।

शुष्ककण्ठा निबद्धास्ते छिन्नजिह्वाक्षिनासिकाः।
पूयशोणितदुर्गन्धा भक्ष्यमाणाश्च जंबुकैः।।

चण्डालैर्भीषणैश्चण्डैस्तुद्यमानाः समन्ततः।
क्रोशन्तः करुणं घोरं गच्छन्ति यमासादनम्।।

तत्र चापि गताः पापा विष्ठाकूपेष्वनेकशः।
जीवन्तो वर्षकोटीस्तु क्लिश्यन्ते वेदनात्ततः।।

ततश्च मुक्ताः कालेन लोके चास्मिन्नराधमाः।
विष्ठाक्रिमित्वं गच्छन्ति जन्मकोटिशतं नृप।।

विद्यमानधनैर्यैस्तु लोभडंभानृतान्वितैः।
श्रोत्रियेभ्यो न दत्तानि दानानि कुरुपुङ्गव।।

ग्रीवापाशनिबद्धास्ते हन्यमानाश्च राक्षसैः।
क्षुत्पिपासाश्रमार्तास्तु यान्ति प्रेतपुरं नराः।।

अदत्तदाना गच्छन्ति शुष्ककण्ठास्यतालुकाः।
अन्नं पानीयसहितं प्रार्थयन्तः पुनःपुनः।।

स्वामिन्बुभक्षातृष्णार्ता गन्तुं नैवाद्य शक्नुमः।
ममान्नं दीयतां स्वामिन्पानीयं दीयतां मम।
इति ब्रुवन्तस्तैर्दूतैः प्राप्यन्ते वै यमालयम्।।

वैशंपायन उवाच।

तच्छ्रुत्वा वचनं विष्णोः पपात भुवि पाण्डवः।
निस्संज्ञो भयसंत्रस्तो मूर्छया समभिप्लुतः।।

ततो लब्ध्वा शनैः संज्ञां समाश्वस्तोच्युतेन सः।
नेत्रे प्रक्षाल्य तोयेन भूयः केशवमब्रवीत्।।

भीतोस्म्यहं महादेव श्रुत्वा मार्गस्य विस्तरम्।
केनोपायेन तं मार्गं तरन्ति पुरुषाः सुखम्।।

भगवानुवाच।

इह ये धार्मिका लोके जीवगातविवर्जिताः।
गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः।।

अस्मान्मानुष्यलोकात्ते समार्याः सहबान्धवाः।
यमध्वानं तु गच्छन्ति यथावत्तं निबोध मे।।

ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पाण्डव।
ये प्रयच्छन्ति विप्रेभ्यस्ते सुखं यान्ति तत्फलम्।।

अन्नं ये च प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम्।
क्षोत्रियेभ्यो विशेषेण प्रीत्या परमया युताः।।

ते विमानैर्महात्मानो यान्ति चित्रैर्यमालयम्।
सेव्यमाना वरस्त्रीभिरप्सरोभिर्महापथम्।।

ये च नित्यं प्रभाषन्ते सत्यं निष्कल्मषं वचः।
ते च यान्त्यमलाभ्राभैर्विमानैर्वृषयोजितैः।।

कपिलाद्यानि पुण्यानि गोप्रदानानि ये नराः।
ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः।।

ते यान्त्यमलवर्णाभैर्विमानैर्वृषयोजितैः।
वैवस्वतपुरं प्राप्य ह्यप्सरोभिर्निषेविताः।।

उपानहौ च च्छत्रं च शयनान्यासनानि च।
विप्रेभ्यो ये प्रयच्छन्ति वस्त्राण्याभरणानि च।।

ते यान्त्यश्वैर्वृषैर्वाऽपि कुञ्जरैरप्यलङ्कृताः।
धर्मराजपुरं रम्यं सौवर्णच्छत्रशोभिताः।।

ये च भक्ष्याणि दास्यन्ति भोज्यं पेयं तथैव च।
स्निग्धान्नान्यापि विप्रेभ्यः श्रद्धया परया युताः।।

ते यान्ति काञ्चनार्यानैः सुखं वैवस्वतालयम्।
वरस्त्रीभिर्यथाकामं सेव्यमानाः सहस्रशः।।

ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु।
ब्राह्मणेभ्यः प्रयत्नेन श्रद्दधानाः सुसंस्कृताः।।

चक्रवाकप्रयुक्तैस्तु यानै रुक्ममयैः शुभैः।
यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम्।।

ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च।
हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः।।

ये प्रयच्छन्ति विप्रेभ्यो विचित्रान्नं घृताप्लुतम्।
ते व्रजनत्यमलाभ्राभैर्विमानैर्वायुवेगिभिः।
पुरं तत्प्रेतनाथस्य नानाजनसमाकुलम्।

पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम्।
ते सुतृप्ताः सुखं यान्ति भवनैर्हंसचोदितैः।।

ये तिलं तिलधेनुं वा धृतधेनुमथापि च।
श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः।।

सूर्यमण्डलसंकाशैर्यानैस्ते यान्ति निर्मलैः।
गीयमानैस्तु गन्धर्वैर्वैवस्वतपुरं नृप।।

येषां वाप्यश्च कूपाश्च तटाकानि सरांसि च।
दीर्घिकाः पुष्करिण्यश्च सजलाश्च जलाशयाः।।

यानैस्ते यान्ति चन्द्राभैर्दिव्यघण्टानिनादितैः।
चामरैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः।
नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम्।।

येषां देवगृहाणीह चित्राण्यायतनानि च।
मनोहराणि कान्तानि दर्शनीयानि भान्ति च।।

ते व्रजन्त्यमलाभ्राभैर्विमानैर्वायुवेगिभिः।
पुरं तत्प्रेतनाथस्य नानाजनपदाकुलम्।।

वैवस्वतं च पश्यन्ति सुखचित्तं सुखस्थितम्।
यमेन पूजिता यान्ति देवसालोक्यतां ततः।।

देवानुद्दिश्य लोकेषु प्रपासु करकोद्धृतम्।
शीतलं सलिलं रम्यं तृषितेभ्यो दिशन्ति ये।
ते तु तृप्ति परां यान्ति प्राप्य सौख्यं महापथम्।।

काष्ठपादुकदा यान्ति तदध्वानं सुखं नराः।
सौवर्णमणिपीठे तु पादं कृत्वा स्थोत्तमे।।

आरामान्वृक्षषण्डांश्च रोपयन्ति च ये नराः।
संवर्धयन्ति चाव्यग्रं फलपुष्पोपशोभितम्।।

वृक्षच्छायासु रम्यासु शीतलासु स्वलङ्कृताः।
यान्ति ते वाहनैर्दिव्यैः पूज्यमाना मुहुर्मुहुः।

सेव्यमानाः सुरूपाभिरुत्तमाभिः प्रयत्नतः।
स्त्रीभिः कनकवर्णाभिर्यथाकामं यथासुखम्।।

अश्वयानं तु गोयानं हस्तियानमथापि च।
ये प्रयच्छन्ति विप्रेभ्यो विमानैः कनकोपमैः।।

सुवर्णं रजतं वाऽपि विद्रुमं मौक्तिकं तथा।
ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः।
ते व्रजन्ति वरस्त्रीभिः सेव्यमाना यथासुखम्।।

भूमिदा यान्ति तं लोकं सर्वकामैः सुतर्पिताः।
उदितादित्यसंकाशैर्विमानैर्वृषयोजितैः।।

कन्यां ये च प्रयच्छन्ति विप्राय श्रोत्रियाय च।
दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम्।।

सुगन्धान्गन्धसंयोगान्पुष्पाणि सुरभीणि च।
प्रयच्छन्ति द्विजाग्रेभ्यो भक्तया परमया युताः।।

सुगन्धाः धर्मपुरं यानैर्विचित्रैरप्यलङ्कृताः।।
यान्ति धर्मपुरं यानैर्विचित्रैरप्यलङ्कृताः।।

दीपया यान्ति यानैश्च द्योतयन्तो दिशो दश।
आदित्यसदृशाकारैर्दीप्यमाना इवाग्नयः।।

गृहावसथदातारो गृहैः काञ्चनवेदिकैः।
व्रजन्ति बालसूर्याभैर्धर्मराजपुरं नराः।।

जलभाजनदातारः कुण्डिकाकरकप्रदाः।
पूज्यमाना वरस्त्रीभिर्यान्ति तृप्ता महागजैः।।

पादाभ्यङ्गं शिरोभ्यह्गं पानं पादोदकं तथा।
ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम्।।

विश्रामायन्ति ये विप्राञ्श्रान्तानध्वनि कर्शितान्।
चक्रवाकप्रयुक्तेन यान्ति यानेन तेऽपि च।।

स्वागतेन च यो विप्रान्पूजयेदासनेन च।
स गच्छति तदध्वानं सुखं परमनिर्वृतः।।

नमो ब्रह्मण्यदेवेति यो मां दृष्ट्वाऽभिवादयेत्।
व्रतीवं प्रयतो नित्यं स सुखं तत्पदं व्रजेत्।।

नमः सर्वसहाभ्यश्चेत्यभिख्याय दिनेदिने।
नमस्करोति नित्यं गां स सुखं याति तत्पथं।।

नमोस्तु प्रियदत्तायेत्येवंवादी दिनेदिने।
भूमिमाक्रमते प्रातः सयनादुत्थितश्च यः।।

सर्वकामैः स तृप्तात्मा सर्वभूषणभूषितः।
याति यानेन दिव्येन सुकं वैवस्वतालयम्।।

अनत्तराशिनो ये तु डंभानृतविवर्जिताः।
तेऽपि सारसयुक्तेन यान्ति यानेन वै सुखम्।।

ये चाप्येकेन भुक्तेन डंभानृतविवर्जिताः।
हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम्।।

चतुर्थेन च भुक्तेन वर्तन्ते ये जितेन्द्रियाः।
यान्ति ते धर्मनगरं यानैर्बर्हिणयोजितैः।।

तृतीयदिवसेनेह भुञ्जते ये जितेन्द्रियाः।
तेऽपि हस्तिरथं यान्ति तत्पथं कनकोज्ज्वलैः।।

षष्ठान्नकालिको यस्तु वर्षमेकं तु वर्तते।
कामक्रोधवनिर्मुक्तः शुचिर्नित्यं जितेन्द्रियः।
स याति कुञ्जरस्थैस्तु जयशब्दरवैर्युतः।।

पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः।
धर्मराजपूरं रम्यं दिव्यस्त्रीगणसेवितम्।।

ये च मासोपवासं वै कुर्वते संयतेन्द्रियाः।
तेऽपि सूर्यादयप्रख्यैर्यान्ति यानैर्यमालयम्।।

अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना।
स यात्यग्निप्रकाशेन विमानेन यमालयम्।।

गोकृते स्त्रीकृते चैव हत्वा विप्रकृतेऽपि च।
ते यान्त्यमरकन्याभिः सेव्यमाना रविप्रभाः।।

ये च कुर्वन्ति मद्भक्तास्तीर्थयात्रां जितेन्द्रियाः।
ते पन्थानं महात्मानो यानैर्यान्ति सुनिर्वृताः।।

ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः।
हंससारससंयुक्तैर्यानैस्ते यान्ति तत्पथम्।।

परपीडामकृत्वैव भृत्यान्बिभ्रति ये नराः।
तत्पथं ससुखं यान्ति विमानैः काञ्चनोज्ज्वलैः।।

ये समाः सर्वभूतेषु जीवानामभयप्रदाः।
क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास्तथा।

पूर्णचन्द्रप्रतीकाशैर्विमानैस्ते महाप्रभाः।
यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः।।

ये मामेकान्तभावेन देवं त्र्यंबकमेव वा।
पूजयन्ति नमस्यन्ति स्तुवन्ति च दिनेदिने।
धर्मराजपुरं यान्ति यानैस्तेऽर्कसमप्रभैः।।

पूजितास्तत्र धर्मेण स्वयं माल्यादिभिः शुभैः।
यान्त्येव धर्मलोकं वा रुद्रलोकमथापि वा।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि शततमोऽध्यायः।। 100 ।।