आश्वमेधिकपर्व
अध्यायः ९७
वैशंपायन उवाच।
एवमात्मोद्भवं सर्वं यगदुद्दिश्य केशवः।
धर्मान्धर्मात्मजस्याथ पुण्यानकथयत्प्रभुः।।
शृणु पाण्डव तत्वेन पवित्रं पापनाशनम्।
कथ्यमानं मया पुण्यं धर्मशास्त्रफलं महत्।।
यः शृणोति शुचिर्भूत्वा एकचित्तस्तपोयुतः।
स्वर्ग्यं यशस्यामायुष्यं धर्मं ज्ञेयं युधिष्ठिर।।
श्रद्दधानस्य तस्येह यत्पापं पूर्वसंचितम्।
विनश्यत्याशु तत्सर्वं मद्भक्तस्य विशेषतः।।
वैशंपायन उवाच।
एवं श्रुत्वा वचः पुण्यं सत्यं केशवभाषितम्।
प्रहृष्टमनसो भूत्वा चिन्तयन्तोऽद्भुतं परम्।।
देवब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस्तथा।
भूता यक्षग्रहाश्चैव गुह्यका भुजगास्तथा।।
वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः।
तथा भागवताश्चापि पञ्चकालमुपासकाः।।
कौतूहलसमाविष्टाः प्रहृष्टैन्द्रियमानसाः।
श्रोतुकामाः परं धर्मं वैष्णवं धर्मशासनम्।
हृदि कर्तुं च तद्वाक्यं प्रणेमुः शिरसा नताः।।
ततस्तान्वासुदेवेन दृष्टान्दिव्येन चक्षुषा।
विमुक्तपापानालोक्य प्रणम्य शिरसा हरिम्।
पप्रच्छ केशवं धर्मं धर्मपुत्रः प्रतापवान्।।
युधिष्ठिर उवाच।
कीदृशी ब्राह्मणस्याथ क्षत्रियस्यापि कीदृशी।
वैश्यस्य कीदृशी देव गतिः शूद्रस्य कीदृशी।।
कथं बध्येत पाशेन ब्राह्मणस्तु यमालये।
क्षत्रियो वाथ वैश्यो वा शूद्रो वा बध्यते कथम्।
एतत्कर्मफलं ब्रूहि लोकनाथ नमोस्तु ते।।
वैशंपायन उवाच।
पृष्टोऽथ केशवो ह्येवं धर्मपुत्रेण धीमता।
उवाच संसारगतिं चातुर्वर्ण्यस्य कर्मजाम्।।
भगवानुवाच।
शृणु वर्णक्रमेणैव धर्मं धर्मभृतां वर।
नास्ति किंचिन्नरश्रेष्ठ ब्राह्मणस्य तु दुष्कृतम्।।
शिखांयज्ञोपवीता ये सन्ध्यां ये चाप्युपासते।
यैश्च पूर्णाहुतिः प्राप्ता विधिवज्जुह्वते च ये।।
वैश्वदेवं च ये चक्रुः पूजयन्त्यतिथींश्च ये।
नित्यं स्वाध्यायशीलाश्च जपयज्ञपराश्च ये।।
सायंप्रातर्हुताशाश्च शूद्रभोजनवर्जिताः।
डंभानृतविमुक्ताश्च स्वदारनिरताश्च ये।
पञ्चयज्ञपरा ये च येऽग्निहोत्रमुपासते।।
दहन्ति दुष्कृतं येषां हूयमानास्त्रयोऽग्नयः।
नष्टदुष्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते।।
ब्रह्मलोके पुनः कामं गन्धर्वैर्ब्रह्मगायकैः।
उद्गीयमानाः प्रयतैः पूज्यमानाः स्वयंभुवा।
ब्रह्मिलोके प्रमोदन्ते यावदाभूतसंप्लुवम्।।
क्षत्रियोपि स्थितो राज्ये स्वधर्मपरिपालकः।
सम्यक्प्रजाः पालयिता षड्भागनिरतः सदा।।
यज्ञदानरतो धीरः स्वदारनिरतः सदा।
शास्त्रानुसारी तत्वज्ञः प्रजाकार्यपरायणः।।
विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः।
सत्यसन्धः शुचिर्नित्यं लोभडंभविवर्जितः।
क्षत्रियोप्युत्तमां याति गतिं देवनिषेविताम्।।
तत्र दिव्याप्सरोभिस्तु गन्धर्वैश्च विशेषतः।
सेव्यमानो महातेजाः क्रीडते शक्रपूजितः।।
चतुर्थगानि वै त्रिंशत्क्रीडित्वा तत्र देववत्।
इह मानुष्यलोके तु चतुर्वेदी द्विजो भवेत्।।
कृषिगोपालनिरतो धर्मानवेषणतत्परः।
दानधर्मेपि निरतो विप्रशुश्रूषकस्तथा।।
सत्यसन्धः शुचिर्नित्यं लोभडंभविवर्जितः।
ऋजुः स्वदारनिरतो हिंसाद्रोहविवर्जितः।।
वणिग्धर्मान्नमुञ्चन्वै देवब्राह्मणपूजकः।
वैश्यः स्वर्गतिमाप्नोति पूज्यमानोप्सरोगणैः।।
चतुर्युगानि वै त्रिंशत्क्रीडित्वा दश पञ्च च।
इह मानुष्यलोके च राजा भवति वीर्यवान्।।
सुवर्णकोट्यः पञ्चाशद्रत्नानां च शतं तथा।
हस्त्यश्वरश्वसंयुक्तो महाभोगांश्च सेवते।।
त्रयाणामपि वर्णानां शुश्रूषानिरतः सदा।
विशेषतस्तु विप्राणां दासवद्यस्तु तिष्टति।।
अयाचितप्रदाता च सत्यशौचसमन्वितः।
गुरुदेवार्चनरतः परदारविवर्जितः।।
परपीडामकृत्वैव भत्यवर्गं बिभर्ति यः।
शूद्रोपि स्वर्गमाप्नोति जीवानामभयप्रदः।।
स स्वर्गकलोके क्रीडित्वा वर्षकोटिं महातपाः।
इह मानुषलोके तु वैश्यो धनपतिर्भवेत्।।
एवं धर्मात्परं नास्ति महत्संसारमोक्षणम्।
न च धर्मात्पर किंचित्पापकर्मव्यपोहनम्।।
तस्माद्धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम्।
न हि धर्मानुरक्तानां लोके किंचन दुर्लभम्।।
स्वयंभुविहितो धर्मो यो यस्येह नरेश्वर।
स तेन क्षपयेत्पापं सम्यगाचरितेन च ।।
सहजं यद्भदेत्कर्म न तत्त्याज्यं हि केनचित्।
स एव तस्य धर्मो हि तेन सिद्धिं स गच्छति।।
विगुणोपि स्वधर्मस्तु पापकर्म व्यपोहति।
एवमेव तु धर्मोपि क्षीयते पापवर्धनात्।।
युधिष्ठिर उवाच।
भगवन्देवदेवेश श्रोतुं कौतूहलं हि मे।
शुभस्याप्यशुभस्यापि क्षयवृद्धी यथाक्रमम्।।
भगवानुवाच।
शृणु पार्थिव तत्सर्वं धर्मसूक्ष्मं सनातनम्।
दुर्विज्ञेयतमं नित्यं यत्र मग्ना महाजनाः।।
यथैव शीतमुदकमुष्णेन बहुना वृतम्।
भवेत्तु तत्क्षणादुष्णं शीतत्वं च विनश्यति।।
यथोष्णं वा भवेदल्पं शीतेन बहुना वृतम्।
शीतलं च भवेत्सर्वमुष्णत्वं च विनश्यति।।
एवं च यद्भवेद्भूरि सुकृतं वाऽपि दुष्कृतम्।
तदल्पं क्षपयेच्छीघ्रं नात्र कार्या विचारणा।।
समत्वे सति राजेन्द्र तयोः सुकृतपापयोः।
गूहितस्य भवेद्वृद्धिः कीर्तितस्य भवेत्क्षयः।।
ख्यापनेनानुतापेन प्रायः पापं विनश्यति।
तथा कृतस्तु राजेन्द्र धर्मो नश्यति मानद।।
तावुभौ गूहितौ सम्यग्वृद्धिं यातो न संशयः।
तस्मात्सर्वप्रयत्नेन न पापं गूहयेद्बुधः।।
तस्मादेतत्प्रयत्नेनि कीर्तयेत्क्षयकारणात्।
तस्मात्संकीर्तयेत्पापं नित्यं धर्मं च गूहयेत्।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि सप्तनवतितमोऽध्यायः।। 97 ।।