आश्वमेधिकपर्व

अध्यायः ९६

Aswamedhika Parva (Sanskrit) · Adhyaya 96
अक्षर का आकार

जनमेजय उवाच।

अश्वमेधे पुरावृत्ते केशवं केशिसूदनम्।
धर्मसंशयमुद्दिश्य किमपृच्छत्पितामहः।।

वैशम्पायन उवाच।

पश्चिमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः।
तदा राजा नमस्कृत्य केशवं पुनरब्रवीत्।।

भववन्वैष्णवा धर्माः किंफलाः किंपरायणाः।
किं धर्ममधिकृत्याथ भवतोत्पादिताः पुरा।।

यदि तेहमनुग्राह्यः प्रियोस्मि मधुसूदन।
श्रोतव्या यदि मे कृष्ण तन्मे कथय सुव्रत।।

पवित्रा किल ते धर्माः सर्वपापप्रणाशनाः।
सर्वधर्मोत्तमाः पुण्या भगवंस्त्वन्मुखोद्गताः।।

याञ्श्रुत्वा ब्रह्महा गोघ्नो मातृहा गुरुतल्पगः।
पाकर्भेदी कृतघ्नश्च सुरापो ब्रह्मविक्रयी।।

मित्रविश्वासघाती च वीरहा भ्रूणहा तथा।
तपोविक्रयिणश्चैव दानविक्रयिणस्तथा।।

आत्मविक्रमयिणो मूढा जीवेद्यश्च विकर्मभिः।
पापाः शठा नैकृतिका डांभिका दूषकास्तथा।।

रसभेदकरा ये च ये च स्युर्ब्रह्मघातकाः।
शूद्रप्रेष्यकराश्चोरा विप्रा ये च पुरोहिताः।।

निक्षेपहारिणः स्त्रीघ्नास्तथा ये पारदारिकाः।
एते चान्ये च पापा ये मुच्यन्तेतेऽपि किल्बिषात्।।

तानाचक्ष्व सुरश्रेष्ठ त्वद्भक्तस्य ममाच्युत।।

वैशंपायन उवाच।

इत्येवं कथिते देवे धर्मपुत्रेण संसदि।
वसिष्ठाद्यास्तपोयुक्ता मुनयस्तत्वदर्शिनः।।

श्रोतुकामाः परं गुह्यं वैष्णवं धर्ममुत्तमम्।
तथा भागवताश्चैव ततस्तं पर्यवारयन्।।

युधिष्ठिर उवाच।

तत्वतस्तव भावेन पादमूलमुपागतम्।
यदि जानासि मां भक्तं स्निग्धं वा भक्तवत्सल।।

धर्मगुह्यानि सर्वाणि वेत्तुमिच्छामि तत्वतः।
धर्मान्कथय मे देव यद्यनुग्रहभागहम्।।

श्रुता मे मानवा धर्मा वासिष्ठाः काश्यपास्तथा।
गार्गीया गौतमीयाश्च तथा गोपालकस्य च।।

पराशरकृताः पूर्वा मैत्रेयस्य च धीमतः।
औमा माहेश्वराश्चैव नन्दिधर्माश्च पावनाः।।

ब्रह्मणा कथिता ये च कौमाराश्च श्रुता मया।
धूमायनकृता धर्माः काण्डवैश्वानरा अपि।।

भार्गवा याज्ञवल्क्याश्च मार्कण्डेयकृता अपि।
भारद्वाजकृता ये च बृहस्पतिकृताश्च ये।।

कुणेश्च कुणिबाहोश्च विश्वामित्रकृताश्च ये।
सुमन्तुजैमिनिकृताः शाकुनेयास्तथैव च।।

पुलस्त्यपुलहोद्गीताः पावकीयास्तथैव च।
अगस्त्यगीता मौद्गल्याः शाण्डिल्याः शलभायनाः।।

वालखिल्यकृता ये च ये च सप्तर्षिभिस्तथा।
आपस्तंबकृता धर्माः शङ्खस्य लिखितस्य च।।

प्राजापत्यास्तथा याम्या माहेन्द्राश्च श्रुता मया।
वैयाघ्रव्यासकीयाश्च विभण्डककृताश्च ये।।

नारदीयाः श्रुता धर्माः कापोताश्च श्रुता मया।
तथा विदुरवाक्यानि भृगोरङ्गिरसस्तथा।।

क्रौञ्चा मृदङ्गगीताश्च सौर्या हारीतकाश्च ये।
ये पिशङ्गकृताश्चापि कातपायाः सुवालकाः।।

उद्दालककृता धर्मा औशनस्यास्तथैव च।
वैशंपायनगीताश्च ये चान्येऽप्येवमादितः।।

एतेभ्यः सर्वधर्मेभ्यो देव त्वन्मुखनिस्सृताः।
पावनात्वात्पवित्रत्वाद्विशिष्टा इति मे मतिः।।

तस्माद्धि त्वां प्रपन्नस्य त्वद्भक्तस्य च केशव।
युष्मदीयान्वरान्धर्मान्पुण्यान्कथय मेच्युत।।

वैशंपायन उवाच।

एवं पृष्टस्तु धर्मज्ञो धर्मपुत्रेण केशवः।
उवाच धर्मान्सूक्ष्मार्थान्धर्मपुत्रस्य हर्षितः।।

एवं ते यस्य कौन्तेय यत्नो धर्मेषु सुव्रत।
तस्य ते दुर्लभो लोके न कश्चिदपि विद्येत।।

धर्मः श्रुतो वा दृष्टो वा कथितो वा कृतोपि वा।
अनुमोदितो वा राजेन्द्र नयतीन्द्रपदं नरम्।।

धर्मः पिता च माता च धर्मो नाथः सुहृत्तथा।
धर्मो भ्राता सखा चैव धर्मः स्वामी परंतप।।

धर्मादर्थश्च कामश्च धर्माद्भोगाः सुखानि च।
धर्मार्दैश्वर्यमेवाग्र्यं धर्मात्स्वर्गगतिः परा।।

धर्मोयं सेवितः शुद्धस्त्रायते महतो भयात्।
धर्माद्द्विजत्वं देवत्वं धर्मः पावयते नरम्।।

यदा च क्षीयते पापं कालेन पुरुषस्य तु।
तदा संजायते बुद्धिर्धर्मं कर्तुं युधिष्ठिर।।

जन्मान्तरसहस्रैस्तु मनुष्यत्वं हि दुर्लभम्।
तद्गत्वापीह यो धर्मं न करोति स्ववञ्चितः।।

कुत्सिता ये दरिद्राश्च विरूपा व्याधितास्तथा।
परद्वेष्याश्च मूर्खाश्च न तैर्धर्मः कृतः पुरा।।

ये च दीर्घायुषः शूराः पण्डिता भोगिनस्तथा।।
नीरोगा रूपसंपन्नास्तैर्धर्मः सुकृतः पुरा।।

एवं धर्मः कृतः शुद्धो नयते गतिमुत्तमाम्।
अधर्मं सेवते यस्तु तिर्यग्योन्यां पतत्यसौ।।

इदं रहस्यं कौन्तेय शृणु धर्ममनुत्तमम्।
कथयिष्ये परं धर्मं तव भक्तस्य पाण्डव।।

इष्टस्त्वमसि मेऽत्यर्थं प्रपन्नश्चापि मां सदा।
परमार्थमपि ब्रूयां किं पुनर्धर्मसंहिताम्।।

इदं मे मानुषं जन्म कृतमात्मनि मायया।
धर्मसंस्थापनार्थाय दुष्टानां नाशनाय च।।

मानुष्यं भावमापन्नं ये मां गृह्णन्त्यवज्ञया।
संसारान्तर्हि ते मूढास्तिर्यग्योनिष्वनेकशः।।

ये च मां सर्वभूतस्थं पश्यन्ति ज्ञानचक्षुषा।
मद्भक्तांस्तान्सदा युक्तान्मत्समीपं नयाम्यहम्।।

मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः।
मद्भाक्तानां तु मानुष्ये सफल जन्म पाण्डवा।।

अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन।
मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवांभसा।।

जन्मान्तरसहस्रेषु तपसा भावितात्मनाम्।
भक्तिरुत्पद्यते तात मनुष्याणां न संशयः।।

यच्च रूपं परं गुह्यं कूटस्तमचलं ध्रुवम्।
न दृश्यते तता देवैर्मद्भक्तैर्दृश्यते यथा।।

अपरं यच्च मे रूपं पर्रादुर्भावेषु दृश्यते।
तदर्चयन्ति सर्वार्थैः सर्वभूतानि पाण्डव।।

कल्पकोटिसहस्रेषु व्यतीतेष्वागते च।
दर्शयामीह तद्रूपं यच्च पश्यन्ति मे सुराः।।

स्तित्युत्पत्त्यव्ययकरं यो मां ज्ञात्वा प्रपद्यते।
अनुगृह्णाम्यहं तं वै संसारान्मोचयामि च।।

अहमादिर्हि देवानां सृष्टा ब्रह्मादयो मया।
प्रकृतिं स्वामवष्टभ्य जगत्सर्वं सृजाम्यहम्।।

तमोमूलोहमव्यक्तो रजोमध्ये प्रतिष्ठितः।
ऊर्ध्वं सत्त्वं विना लोभं ब्रह्मादिस्तंबपर्यतः।।

मूर्धानं मे विद्धि दिवं चन्द्रादित्यौ च लोचने।
गावोग्निर्बाह्मणो वक्त्रं मारुतः श्वसनं च मे।।

दिशो मे बाहवश्चाष्टौ नक्षत्राणि च भूषणम्।
अन्तरिक्षमुरो विद्धि सर्वभूतावकाशकम्।
मार्गो मेघानिलाभ्यां तु यन्ममोदरमव्ययम्।।

पृथिवीमण्डलं यद्वै द्वीपार्णवनगैर्युतम्।
सर्वसंधारणोपेतं पादौ मम युधिष्ठिर।।

स्थितो ह्येकगुणः खेऽहं द्विगुणश्चास्मि मारुते।
त्रिगुणोग्नौ स्थितोहं वै सलिले च चतुर्गुणः।।

शब्दाद्या ये गुणाः पञ्च महाभूतेषु पञ्चसु।
तन्मात्रासंस्थितः सोहं पृथिव्यां पञ्चधास्थितः।।

अहं सहस्रसीर्षस्तु सहस्रवदनेक्षणः।
सहस्रबाहूदरधृक्सहस्रोरुः सहस्रपात्।।

धृत्वोर्वीं सर्वतः सम्यगत्यतिष्ठं दशांगुलम्।
सर्वभूतात्मभूतस्थः सर्वव्यापी ततोस्म्यहम्।।

अचिन्त्योहमनन्तोहमजरोहमजो ह्यहम्।
अनाद्योऽहमवध्योहमप्रमेयोहमव्ययः।।

निर्गुणोहं निगूढात्मा निर्द्वन्द्वो निर्ममो नृप।
निष्कलो निर्विकारोहं निदानममृतस्य तु।।

सुधा चाहं स्वधा चाहं स्वाहा चाहं नराधिप।
तेजसा तपसा चाहं भूतग्रामं चतुर्विधम्।।

स्नेहपाशैर्गुणबद्ध्वा धारयाम्यात्ममायया।
चातुराश्रमधर्मेहं चातुर्होत्रफलाशनः।
चतुर्मूर्तिश्चतुर्यज्ञश्चतुराश्रमभावनः।।

संहृत्याहं जगत्सर्वं कृत्वा वै गर्भमात्मनः।
शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर।।

सहस्रयुगपर्यन्तां ब्राह्मीं रात्रिं महार्णवे।
स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च।।

कल्पे कल्पे च भूतानि संहरामि सृजामि च।
न च मां तानि जानन्ति मायया मोहितानि मे।।

मम चैवान्धकारस्य मार्गितव्यस्य नित्यशः।
प्रशान्तस्येव दीपस्य गतिर्नैपोपलभ्यते।।

न तदस्ति क्वचिद्राजन्यत्राहं न प्रतिष्ठितः।
न च तद्विद्यते भूतं मयि यन्न प्रतिष्ठितम्।।

यावन्मित्रं भवेद्भूतं स्थूलं सूक्ष्ममिदं जगत्।
दीवभूतो ह्यहं तस्मिंस्तावन्मात्रं प्रतिष्ठितः।।

किंचात्र बहुनोक्तेन सत्यमेतद्ब्रवीमि ते।
यद्भूतं यद्भविष्यच्च तत्सर्वमहमेव तु।।

मया सृष्टानि भूतानि मन्मयानि च भारत।
मामेव न विजानन्ति मायया मोहितानि वै।।

एवं सर्वं जगदिदं सदेवासुरमानुषम्।
मत्तः प्रभवते राजन्मय्येव प्रविलीयते।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि षण्णवतितमोऽध्यायः।। 96 ।।