आश्वमेधिकपर्व
अध्यायः ९३
जनमेजय उवाच।
यज्ञे सक्ता नृपतयस्तपःसका महर्षयः।
शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो।।
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह दृश्यते।
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम्।।
यज्ञैरिष्ट्वा तु बहवो राजानो द्विजसत्तमाः।
इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमितो गताः।।
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः।
देवराज्यं महातेजाःक प्राप्तवानखिलं विभुः।।
अतो युधिष्ठिरो राजा भीमार्जुनपुरःसरः।
सदृशो देवराजेन समृद्ध्या विक्रमेण च।।
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम्।
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः।।
वैशम्पायन उवाच।
यज्ञस्य विधिमग्र्यं वै फलं चापि नराधिप।
गदतः शृणु मे राजन्यथावदिह भारत।।
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः।
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि।।
हूयमाने तथा वह्नौ होत्रा गुणसमन्विते।
देवष्वाहूयमानेषु स्थितेषु परमर्षिषु।।
सुप्रतीतैस्तथा विप्रैः स्वागमैः सुस्वरैर्नृप।
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा।।
आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ।
महर्षयो महाराज बभूवुः कृपयाऽन्विताः।।
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः।
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः।।
अपरिज्ञानमेतत्ते महान्तं धर्ममिच्छतः।
सन्ति यज्ञे बहुगुणा विधिदृष्टाः पुरंदर।।
धर्मोपघातकस्त्वेष समारंभस्तव प्रभो।
नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते।।
आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि।
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत्।।
यज्ञं बीजैः सहस्राक्ष त्रिवर्षपरमोषितेः।
एष धर्मो महाञ्शक्र चिन्तयानोसि गम्यते।।
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः।
उक्तं न प्रतिजग्राह मानमोहवशं गतः।।
तेषां विवादः सुमहाञ्शक्रयज्ञे तपस्विनाम्।
जङ्गमैः स्थावरैर्वाऽपि यष्टव्यमिति भारत।।
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः।
अभिसंधाय शक्रेण पप्रच्छुर्नृपतिं वसुम्।।
धर्मसंशयमापन्नान्सत्यं ब्रूहि महामते।
महाभाग कथं यज्ञेष्वागमो नृपसत्तम।
यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरिति।।
तच्छ्रुत्वा तु वसुस्तेषामविचार्य बलाबलम्।
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः।।
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम्।
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः।।
तस्मान्नि वाच्यं ह्येकेन बहुज्ञेनापि संशये।
प्रजापतिमपाहाय स्वयंभुवमृते प्रभुम्।।
तेन दत्तानि दानानि पापेनाशुद्धबुद्धिना।
तानि सर्वाण्यनादृत्य नश्यन्ति विपुलान्यपि।।
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः।
दानेन कीर्तिर्भवति न प्रेत्येह च दुर्मतेः।।
अन्यायोपगतं द्रव्यमभीक्ष्णं यो ह्यपण्डितः।
धर्माभिकाङ्क्षी त्यजति न स धर्मफलं लभेत्।।
धर्मवैतंसिको यस्तु पापात्मा पुरुषाधमः।
ददाति दानं विप्रेभ्यो लोकविश्वासकारणम्।।
पापेन कर्मणा विप्रो धनं प्राप्य निरङ्कुशः।
रागमोहान्वितः सोन्ते कलुषां गतिमश्नुते।।
अपि संचयबुद्धिर्हि लोभमोहवशं गतः।
यज्ञं करोति भूतानि पापेनाशुद्धबुद्धिना।।
एवं लब्ध्वा धनं मोहाद्यो हि दद्याद्यजेत वा।
न तस्य स फलं प्रेत्य भुंक्ते पापधनागमात्।।
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः।
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धार्मिकाः।।
एष धर्मो महायोगो दानं भूतदया तथा।
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा।।
सनातनस्य धर्मस्य फलमेतत्सनातनम्।
श्रूयन्ते हि पुरावृत्ता विश्वामित्रादयो नृपाः।।
विश्वामित्रोसितश्चैवं जनसश्च महीपतिः।
कक्षसेनार्ष्टिसेनौ च सिन्धुद्वीपश्च पार्थिवः।।
एते चान्ये च बहवः सिद्धिं परमिकां गताः।
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः।
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत।।
।। इती श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि त्रिनवतितमोऽध्यायः।। 93 ।।