आश्वमेधिकपर्व

अध्यायः ९२

Aswamedhika Parva (Sanskrit) · Adhyaya 92
अक्षर का आकार

नकुल उवाच।

हन्त वः कथयिष्यामि दानस्य फलमुत्तमम्।
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः।।

धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते।
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा।।

सभार्यः सहपुत्रेण सस्नुषस्तपसि स्थितः।
बभूव शुक्लवृत्तः स धर्मात्मा नियतेन्द्रियः।।

षष्ठे काले सदा विप्रो भुङ्क्ते तैः सह संवृतः।।

षष्ठे काले कदाचित्तु तस्याहारो न विद्यते।
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः।।

कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे।
नाविद्यत तदा विप्राः संचयस्तन्निबोधत।।

क्षीणाषैदिसमावापो द्रव्यहीनोऽभवत्तदा।
कालेकालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम्।।

क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते।
उञ्छं तदा शुक्लपक्षे मध्यं तपति भास्करे।।

उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि संस्थितः।
उञ्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः।।

स तथैव क्षुधाविष्टः सार्धं परिजनेन ह।
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः।।

अथ षष्ठे गते काले यवप्रस्थमुपार्जयन्।
यवप्रस्थं तु तं सक्तूनकुर्वन्त तपस्विनः।।

कृतजप्याह्निकास्ते तु हुत्वा चाग्निं यथाविधि।
कुडवंकुडवं सर्वे व्यभजन्त तपस्विनः।।

अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा।
ते तं दृष्ट्वाऽतिथिं प्राप्तं प्रहृष्टमनसोऽभवन्।।

तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा।
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः।।

अनसूया गतक्रोधाः साधवो वीतमत्सराः।
त्यक्तमानमदक्रोधा धर्मज्ञा द्विजसत्तमाः।।

सब्रह्यचर्यं गोत्रं ते तस्य ख्यात्वा परस्परम्।
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा।।

इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ।
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो।
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजर्षभ।।

इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः।
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः।।

स उञ्छवृत्तिस्तं प्रेक्ष्य क्षुधापरिगतं द्विजम्।
आहारं चिन्तयामास कथं तुष्टो भवेदिति।।

तस्य भार्याऽब्रवीद्वाक्यं मद्भागो दीयतामिति।
गच्छत्वेष यथाकामं परितुष्टो द्विजोत्तमः।।

इति ब्रुवन्तीं तां साध्वीं भार्यां स द्विजसत्तमः।
क्षउधापरिगतां ज्ञात्वा तान्सक्तून्नाभ्यनन्दत।।

आत्मानुमानतो विद्वान्स तु विप्रर्षभस्तदा।
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम्।
त्वगस्थिभूता वेपन्तीं ततो भार्यामुवाच ह।।

अपि कीटपतङ्गानां मृगाणां चैव शोभने।
स्त्रियो रक्ष्याश्च पोष्पाश्च न त्वेवं वक्तुमर्हसि।।

अनुकंप्यो नरः पत्न्या पुष्टो रक्षित एव च।
प्रपतेद्यशसो दीप्तात्स च लोकान्न चाप्नुयात्।।

धर्मकामार्थकार्याणि शुश्रूषाकुलसंततिः।
दारेष्वदीनो धर्मस्च पितॄणामात्मनस्तथा।।

न वेत्ति कर्मतो भार्यारक्षणे योऽक्षमः पुमान्।
अयशो महदाप्नोति नारकांश्चैव गच्छति।।

इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज।
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे।।

सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः।
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजर्षभ।।

ऋतुर्मातु पितुर्बीजं दैवतं परमं पतिः।
भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा।।

पालनाद्धि पतिस्त्वं मे भर्ताऽसि भरणाच्च मे।
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्प्रयच्छ मे।।

जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम्।
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः।।

इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत्।
द्विजि सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम।।

स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः।
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत्।।

पुत्र उवाच।

सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम।
इत्येव सुकृतं मन्ये तस्मादेतत्करोम्यहम्।।

भवान्हि परिपाल्यो मे सर्वदैव प्रयत्नतः।
साधूनां काङ्क्षितं यस्मात्पितुर्वृद्धस्य पालनम्।।

पुत्रार्थो विहितो ह्येष वार्धके परिपालनम्।।
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु शाश्वती।।

प्राणाधारणमात्रेण शक्यं कर्तुं तपस्त्वया।
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्।।

पितोवाच।

अपि वर्षसहस्री त्वं बाल एव मतो मम।
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत्सुतात्।।

बालानां क्षुद्बलवती जानाम्येतदहं प्रभो।
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक।।

जीर्णेन वयसा पुत्र न मां क्षुद्बाधतेऽपि च।
दीर्घकालं तपस्तप्तं न मे मरणतो भयम्।।

पुत्र उवाच।

अपत्यमस्मि ते पुंसस्त्राणात्पुत्र इति स्मृतः।
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना।।

पितोवाच।

रूपेण सदृशस्त्वं मे शीलेन च दमेन च।
परीक्षितश्च बहुधा सक्तूनादद्मि ते सुत।।

इत्युक्त्वाऽऽदाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः।
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा।।

भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह।
उच्छवृत्तिस्तु धर्मात्मा व्रीडामनुजगाम ह।।

तं वै वधूः स्थिता साध्वी ब्राह्मणिप्रियकाम्यया।
सक्तूनादाय संहृष्टा श्वशुरं वाक्यमब्रवीत्।।

संतानात्तव संतानं मम विप्र भविष्यति।
सक्तूनिमानतिथये गृहीत्वा सम्प्रयच्छ मे।।

तव प्रसादान्निर्वृत्ता मम लोकाः किलाक्षयाः।
पुत्रेण तानवाप्नोति यत्र गत्वा न शोचति।।

धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च।
तथैव पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः।।

पितॄणात्तारयति पुत्र इत्यनुशुश्रुम।
पुत्रपौत्रैश्च नियतं सादुलोकानुपाश्नुते।।

श्वशुर उवाच।

वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै।
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम्।।

कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः।
कल्याणवृत्ते कल्याणि नैव त्वं वक्तुमर्हसि।।

षष्ठे काले व्रतवतीं शौचशीलतपोन्विताम्।
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं शुभे।।

बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया।
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी।।

स्नुषोवाच।

गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम्।
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे प्रभो।।

देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः।
तव विप्र प्रसादेन लोकान्प्राप्स्यामहे शुभान्।।

अवेक्ष्या इति कृत्वाऽहं दृढभक्तेति वा द्विज।
चिन्त्या ममेयमिति वा सक्तूनादानुमर्हसि।।

श्वशुर उवाच।

अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे।
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे।।

तस्मात्सक्तून्ग्रहीष्यामि वधु नार्हसि वञ्चनाम्।
गणयित्वा महाभागे त्वां हि धर्मभृतां वरे।।

इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये।
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः।।

प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम्।
वाग्मी तदा द्विजश्रेष्टो धर्मः पुरुषविग्रहः।।

शुद्धेनि तव दानेन न्यायोपात्तेन धर्मतः।
यथाशक्ति विसृष्टेन प्रीतोस्मि द्विजसत्तम।।

अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः।
गगनात्पुष्पवर्षं च पश्येदं पतितं भुवि।।

सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः।
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः।।

ब्रह्मर्षयो विमानस्था ब्रह्मलोकचरश्च ये।
काङ्क्षन्ते दर्शनं तुभ्यं दिवं व्रज द्विजर्षभ।।

पितृलोकगताः सर्वे तारिताः पितरस्त्वया।
अनागताश्च बहवः सुबहूनि युगान्युत।।

ब्रह्मचर्येण दानेन यज्ञेनि तपसा तथा।
अगह्वरेण धर्मेण तस्माद्गच्च दिवं द्विज।।

श्रद्धया परया यरत्वं तपश्चरसि सुव्रत।
तस्माद्देवास्तवानेन प्रीता ब्राह्मणसत्तम।।

सर्वमेतद्धि यस्मात्ते दत्तं शुद्धेन चेतसा।
कृच्छ्रकाले ततः स्वर्गो विजितः कर्मणा त्वया।।

क्षुधा निर्णुदति प्रज्ञां धर्मबुद्धिं व्यपोहति।
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह।।

बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम्।
यदा दानरुचिः स्याद्वै तदा धर्मो न सीदति।।

अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च।
धर्ममेव गुरं ज्ञात्वा तृष्णा न गणिता त्वया।।

द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम्।
कालः परतरो दानाच्छ्रद्धा चैव ततः परा।।

स्वर्गद्वारं सुसूक्ष्मं हि नरैर्माहान्नि दृश्यते।
सङ्गर्गलं लोभकीलं रागगुप्तं दुरासदम्।।

तं तु पश्यन्ति पुरुषा जितदक्रोधा जितेन्द्रियाः।
ब्राह्मणास्तपसा युक्ता यथाशक्ति प्रदायिनः।।

सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च।
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः।।

रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः।
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः।।

न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः।
न्यायलब्धैर्यथा सूक्ष्मैः श्रुद्धापूतैः स तुष्यति।।

गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः।
एकां दत्त्वा स पारक्यां नरकं समपद्यत।।

आत्ममांसप्रदानेन शिबोरौशीनरो नृपः।
प्राप्य पुण्यकृताँल्लोकान्मोदत दिवि सुव्रतः।।

विभवेन नृणां पुण्यं यच्छत्त्या स्वार्जितं न तत्।
न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः।।

क्रोधाद्दानफलं हन्ति लोभात्स्वर्गं न गच्छति।
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते।।

न राजसूयैर्बहुभिरिष्टा विपुलदक्षिणैः।।
न चाश्वमेधैर्बहुभिः फलं सममिदं तव।।

सक्तुप्रस्थेन विजितो ब्रह्मलोकस्त्वयाऽक्षयः।
विरजो ब्रह्मसदनं गच्छ विप्र यतासुखम्।।

सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम्।
आरोहत यथाकामं धर्मोस्मि द्विज पश्य माम्।।

बाधितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते।
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज।।

इत्युक्तवाक्ये धर्मे तु यानमारुद्य स द्विजः।
सदारः ससुतश्चैव सस्नुषश्च दिवं गतः।।

तस्मिन्विपरे गते स्वर्गं ससुते सस्नुषे तदा।
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात्।।

ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च।
दिव्यपुष्पविमर्दाच्च साधोर्दानलवैश्च तैः।।

विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम्।
तस्य सत्याभिसन्धस्य सक्तुदानेन चैव ह।।

शरीरार्धं च मे विप्राः शातकुंभमयं कृतम्।
पश्यतेमं सुविपुलं तपसा तस्य धीमतः।।

कथमेवंविधं स्याद्वै पार्श्वमन्यदिति द्विजाः।
तपोवनानि यज्ञांश्च हृष्टोऽभ्योमि पुनः पुनः।

यज्ञं त्वहमिमं श्रुत्वा रुरुराजस्य धीमतः।
आशया परया प्राप्तो न चाहं काञ्चनीकृतः।।

ततो मयोक्तं तद्वाक्यं प्रहस्य ब्राह्मणर्षभाः।
सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा।।

सक्तुप्रस्थलवैस्तैर्हि तदाऽहं काञ्चनीकृतः।
न हि यज्ञो महानेष सदृशस्तैर्मतो मम।।

इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा।
जगामादर्सनं तेषां विप्रास्ते च ययुर्गृहान्।।

एतत्ते सर्वमाख्यातं मया परपुरंजय।
यदाश्चर्यमभूत्तत्र वाचिमेधे महाक्रतौ।।

न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन।
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः।।

अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम्।
तपो दमश्च सत्यं च प्रदानं चेति संमितम्।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि द्विनवतितमोऽध्यायः।। 92 ।।