आश्वमेधिकपर्व

अध्यायः ९४

Aswamedhika Parva (Sanskrit) · Adhyaya 94
अक्षर का आकार

जनमेजय उवाच।

धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत्।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम्।।

तस्योञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत्।
कथितं तु मम ब्रह्मंस्तथ्यमेतदसंशयम्।।

कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत्।
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ।।

वैशम्पायन उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम।।

पुराऽगस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम्।
प्रविवेश महाराज सर्वभूतहिते रतः।।

तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः।
मूलाहाराः फलाहाराश्चाश्मकुट्टा मरीचिपाः।।

परिपृष्टिका वैघसिकाः प्रसङ्ख्यानास्तथैव च।
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः।।

सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः।
दमे स्थिताश्च सर्वे ते हिंसादंभविवर्जिताः।।

वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यबाधिताः।
उपातिष्ठन्त तं यज्ञं यजन्तस्ते महर्षयः।।

यथाशक्त्या भगवता तदन्नं समुपार्जितम्।
तस्मिन्सत्रे तु यद्वृत्तं यद्योग्यं च तदाऽभवत्।।

तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः।
एवंविधे त्वगस्त्यस्य वर्तमाने तथाऽध्वरे।
न ववर्ष सहस्राक्षस्तदा भरतसत्तम।।

ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः।
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम्।।

अगस्त्यो यजमानोसौ ददात्यन्नं विमत्सरः।
न च वर्षति पर्जन्यः कथमन्नं भविष्यति।।

सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम्।
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश।।

एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः।
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम्।।

इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्।
प्रोवाच वाक्यं स तदा प्रसाद्य शिरसा मुनीन्।।

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः।
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः।।

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः।
स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः।।

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः।
व्यायामेनाहरिष्यामि यज्ञानेतान्यतव्रतः।।

बीजयज्ञो मयाऽयं वै बहुवर्षसमाचितः।
बीजैर्हितं करिष्यामि नात्र विघ्नो भविष्यति।।

नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन।
वर्षिष्यतीह वा देवो नवा वर्षं भविष्यति।।

अथवाऽभ्यर्थनामिन्द्रो न करिष्यति कामतः।
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः।।

यो यदाहारजातश्च स तथैव भविष्यति।
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि।।

अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम्।
त्रिषु लोकेषु यच्चास्ति तदिहागम्यतां स्वयम्।।

दिव्याश्चाप्सरसां सङ्घा गन्धर्वाश्च सकिन्नराः।
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु मे मखम्।।

उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते।
सर्वं तदिह यज्ञेषु स्वयमेवोपतिष्ठतु।।

स्वर्गः स्वर्गसदश्चैवक धर्मश्च स्वयमेव तु।
इत्युक्ते सर्वमेवैतदभवत्तपसा मुनेः।
तस्य दीप्ताग्निमहसस्त्वगस्त्यस्यातितेजसः।।

ततस्ते मुनयो हृष्टा ददृशुस्तपसो बलम्।
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत्।।

प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोवनम्।
तैरेव यज्ञैस्तुष्टाः स्य न्यायेनेच्छामहे वयम्।।

यज्ञं दीक्षां तथा होमान्यच्चान्यन्मृगयामहे।
`तयोस्संधर्षितैर्यज्ञैर्नान्यतो मृगयामहे।।'

न्यायेनोपार्जिताहाराः स्वकर्माभिरता वयम्।
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे।।

न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम्।
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम्।।

भवतः सम्यगिष्टा तु बुद्धिर्हिसाविवर्जिता।
एतामहिंसा यज्ञेषु ब्रूयास्त्वं सततं प्रभो।।

प्रीतास्ततो भविष्यामो वयं तु द्विजसत्तम।
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे।।

तथा कथयतां तेषां देवराजः पुरंदरः।
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम्।।

आसमाप्तेश्च यज्ञस्य तस्यामितपराक्रमः।
निकामवर्षी पर्जन्यो बभूव जनमेजय।।

प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः।
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम्।।

ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन्।
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वि चतुर्नवतितमोऽध्यायः।। 94 ।।