आश्वमेधिकपर्व
अध्यायः ९१
जनमेजय उवाच।
पितामहस्य मे यज्ञे धर्मराजस्य धीमतः।
यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति।।
वैशम्पायन उवाच।
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम्।
अश्वमेधे महायज्ञे निवृत्ते यदभूत्प्रभो।।
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु।
दीनान्धकृपणे वाऽपि तदा भरतसत्तम।।
घुष्यमाणे महादाने दिक्षु सर्वासु भारत।
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि।।
बिलान्निस्सृत्य नकुलो रुक्मपार्श्वस्तदाऽनघः।
वज्राशनिसमं नादममुञ्चद्वसुधाधिप।।
सकृदुत्सृज्य तन्नादं त्रासयानो मृगद्विजान्।
मानुपं वचनं प्राह पुष्पोपरिशयो महान्।।
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः।
उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः।।
तस्य तद्वचनं श्रुत्वा नकुलस्य विशांपते।
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः।।
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः।।
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम्।।
किं बलं परमं तुभ्यं श्रुतं किं परायणम्।
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे।।
अविलुप्यागमं कृत्स्नं विविधैर्यज्ञियैः कृतम्।
यथागमं यथान्यायं कर्तव्यं च तथा कृतम्।।
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रदर्शात्।
मन्त्राहुतिहुतश्चाग्निर्दत्तं देयममत्सरम्।।
तुष्टा द्विजातयश्चात्र दानैर्बहुविधैरपि।
क्षत्रियाश्चि सुयुद्धेन श्राद्धैश्चापि पितामहाः।।
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः।
अनुक्रोशैस्तता शूद्रा दानशेषैः पृथग्जनाः।।
ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः।
देवा हविर्भिः पुण्यैस्च रक्षणैः शरणागताः।।
यदत्र तथ्यं तद्ब्रूहि सत्यंसत्यं द्विजातिषु।
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया।।
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च।
समागतश्च विप्रैस्त्वं तद्भवान्वक्तुमर्हति।।
इति पृष्टो द्विजैस्तैः स प्रहसन्नकुलोऽब्रवीत्।
नैषा मृषामया वाणी प्रोक्ता दर्पेण वा द्विजाः।।
यन्मयोक्तमिदं वाक्यं युष्माभिश्चाप्युपश्रुतम्।
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः।।
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजसत्तमाः।
शृणुताव्यग्रमनसः शंसतो मे यथातथम्।।
अनुभूतं च दृष्टं च यन्मयाऽद्भुतमुत्तमम्।
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः।।
स्वर्गं येन द्विजाः प्राप्तः सभार्यः ससुतस्नुषः।
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम्।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि एकनवतितमोऽध्यायः।। 91 ।।