आश्वमेधिकपर्व

अध्यायः ९०

Aswamedhika Parva (Sanskrit) · Adhyaya 90
अक्षर का आकार

वैशम्पायन उवाच।

श्रपयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः।
तं तुरङ्गं यथाशास्त्रमालभन्त द्विजातयः।।

ततः संज्ञप्य तुरगंक विधिवद्याजकर्षभाः।
उपसंवेशयांचक्रुस्ततस्तां द्रुपदात्मजाम्।
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम्।।

उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजातयः।
श्रपयामासुरव्यग्रा विधिवद्भरतर्षभ।।

तं वपाधूमगन्धं तु धर्मराजः सहानुजैः।
उपाजिघ्रद्यथासास्त्रं सर्वपापापहं तदा।।

शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप।
तान्यग्रौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः।।

संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः।
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम्।।

ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि।
कोटीः सहस्रं निष्काणां व्यासाय तु वसुंधराम्।।

प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः।
अब्रवीद्भरतश्रेष्ठं धर्मराजं युधिष्ठिरम्।।

वसुधा भवतस्त्वेषां संन्यस्ता राजसत्तम।
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिना।।

युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः।
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम्।।

अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता।
अर्जुनेन जिता चेयमृत्विग्भ्यः प्रापिता मया।।

वनं प्रवेक्ष्ये विप्राग्र्या विभजध्वं महीमिमाम्।
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः।।

नाहमादातुमिच्छामि ब्रह्मस्वं द्विजसत्तमाः।।
इदं नित्यं मनो विप्रा भ्रातॄणां चैव मे सदा।।

इत्युक्तवति तस्मिंस्तु भ्रातरो द्रौपदी च सा।
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम्।।

ततोऽन्तरिक्षे वागासीत्साधुसाध्विति भारत।
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः।।

द्वैपायनस्तथा कृष्णः पुनरेव युधिष्ठिरम्।
प्रोवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः।।

दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम्।
हिरण्यं दीयतामेभ्यो ब्राह्मणेभ्यो धराऽस्तु ते।।

ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम्।
यथाऽऽह भगवान्व्यासस्तथा त्वं कर्तुमर्हसि।।

इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह।
कोटिं कोटिं गवां प्रादाद्दक्षिणां त्रिगुणीकृताम्।।

न करिष्यति तल्लोके कश्चिदन्यो नराधिपः।
यत्कृतं कुरुराजेन मरुत्तस्यानुकुर्वता।।

प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनो मुनिः।
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते।।

धरण्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः।
दूतपापो जितस्वर्गो मुमुदे भ्रातृभिः सह।।

ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तथा।
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथासुखम्।।

यज्ञवाटे च यत्किञ्चिद्धिरण्यं सवि भूषणम्।
तोरणानि च यूपांश्च घटान्पात्रीस्तथेष्टकाः।
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः।।

अनन्तरं द्विजातिभ्यः क्षत्रिया जह्रिरे वसु।
तथा विट्शूद्रसङ्घाश्च तथाऽन्ये म्लेच्छजातयः।
`कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः।।'

ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान्।
तर्पिता वसुना तेन धर्मिराजेन धीमिता।।

स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादितः।
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः।।

श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा।
चकार पुण्यकं तेन सुमहत्सङ्घशः पृथा।।

गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह।
सभाज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव।।

पाण्‍डवाश्च महीपालैः समेतैरभिसंवृताः।
अशोभन्त महाराज ग्रहस्तारागणैरिव।।

राजभ्योपि ततः प्रादाद्रत्नानि विविधानि च।
गजानश्वानलङ्कारान्त्रियो वासांसि काञ्चनम्।।

तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले।
विसृजञ्शुशुभे राजन्यथा वैश्रवणस्तथा।।

आनीय च तथा वीरं राजानं बभ्रुवाहनम्।
प्रदाय विपुलं वित्तं गृहात्प्रास्थापयनत्तदा।।

दुःशलायाश्च तं पौत्रं बालकं भरतर्षभ।
स्वराज्येऽथ पितुर्धामान्स्वसुः प्रीत्या न्वयेशयत्।।

नृपतींश्चैव तान्सर्वान्सुविभक्तान्सुपूजितान्।
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः।।

गोविन्दं च महात्मानं बलदेवं महाबलम्।
तथाऽन्यान्वृष्णिवीरांश्च प्रद्युम्नाद्यान्सहस्रशः।।

पूजयित्वा महाराज यथाविधि महाद्युतिः।
भ्रातृभिः सहितो राजा प्रास्थापरयदरिंदमः।।

एवं बभूव यज्ञः स धर्मिराजस्य धीमतः।
बह्वन्नधनरत्नौघः सुरामैरेयसागरः।।

सर्पिःपङ्का ह्रदा यत्र बभूवुश्चान्नपर्वताः।
रसालकर्दमा नद्यो बभूवुर्भरतर्षभ।।

भक्ष्यखाण्डवरागाणां क्रियतां भुज्यतां तथा।
पशूनां वध्यतां चैव नान्तं ददृशिरे जनाः।।

मत्तप्रमत्तमुदितं सुप्रीतयुवतीजनम्।
मृदङ्गशङ्खनादैस्च मनोरममभूत्तदा।

दीयतां भुज्यतां चापि तत्र शब्दो महानभूत्।
दीयतां दीयतां चेति दिवारात्रमवारितम्।।

तं महोत्सवसंकाशं हृष्टपुष्टजनाकुलम्।
कथयन्ति स्म पुरुषा नानादेशनिवासिनः।।

वर्षित्वा धनधाराभिः कामै रत्नै रसैस्तथा।
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम्।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि नवतितमोऽध्यायः।। 90 ।।