आश्वमेधिकपर्व

अध्यायः ८९

Aswamedhika Parva (Sanskrit) · Adhyaya 89
अक्षर का आकार

वैशम्पायन उवाच।

एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः।
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह।।

तत्र वृद्धान्यथावत्स कुरूनन्यांश्च पार्थिवान्।
अभिवाद्य महाबाहुस्तैश्चापि प्रतिनन्दितः।
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम्।।

स प्रविश्य महाबाहुः पाण्डवानां निवेशनम्।
पितामहीमभ्यवन्दत्साम्ना परमवल्गुना।।

तथा चित्राङ्गदा देवी कौरवस्यात्मजाऽपि च।
पृथां कृष्णां च सहिते विनयेनोपजग्मतुः।
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः।।

ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च।
द्रौपदी च सुभद्रा च याश्चाप्यन्या यदुस्त्रियः।।

ऊषतुस्तत्र ते देव्यौ महार्ङशयनासने।
सुपूजिते स्वयं कुन्त्या पार्थस्य हितकाम्यया।।

स च राजा महातेजाः पूजितो बभ्रुवाहनः।
धूतराष्ट्रं महीपालमुपतस्थे यताविधि।।

युधिष्टिरं च राजानं भीमदींश्चापि पाण्डवान्।
उपागम्य महातेजा विनयेनाभ्यवादयत्।।

स तैः प्रेम्या परिष्वक्तः पूजितश्च यथाविधि।
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः।।

तथैव च महीपालः कृष्णं चक्रगदाधरम्।
प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान्।।

तस्मै कृष्णो ददौ राज्ञे महार्हमतिपूजितम्।
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम्।।

धर्मराजश्च भीमश्च फल्गुनश्च यमौ तथा।
पृथक्पृथक् च ते चैनं मानार्थाभ्यामयोजयन्।।

ततस्तृतीये दिवसे सत्यवत्यात्मजो मुनिः।
युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत्।।

अद्यप्रभृति कौन्तेय यज्ञस्य समयो हि ते।
मुहूर्तो यज्ञियः प्राप्तश्चोदयन्तीह याजकाः।।

अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान्।
बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः।।

एवमत्र महाराज दक्षिणाभिर्गुणीकुर।
श्रीस्त्वां व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम्।।

त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान्।
ज्ञातिवध्याकृतं पापं प्रहास्यति नराधिप।।

पवित्रं परमं चैतत्पावनानां च पावनम्।
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन।।

इत्युक्तः स तु तेजस्वी व्यासेनामितबुद्धिना।
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये ततः।।

ततो यज्ञं महाबाहुर्वाजिमेधं महाक्रतुम्।
बह्वन्नदक्षिणं राजा सर्वकामगुणान्वितम्।।

तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः।
परिक्रामन्ति शास्त्रज्ञा यतावद्द्विजसत्तमाः।।

न तेषां स्खलितं किञ्चिदासीदपहुतं तथा।
क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः।।

कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः।
चक्रस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः।।

अभिषूय ततो राजन्सोमं सोमपसत्तमाः।
सवनान्यानुपूर्व्येण चक्रुः सास्त्रानुसारिणः।।

न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह।
क्षुधितो दुःखितो वाऽपि प्राकृतो वाऽपि मानवः।।

भोजनं भोजनार्थिभ्यो दापयामास शत्रुहा।
भीमसेनो महातेजाः सततं राजशासनात्।।

संस्तरे कुशलाश्चापि सर्वकार्याणि याजकाः।
दिवसेदिवसे चक्रुर्यथाशास्त्रानुदर्शात्।।

नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः।
नाव्रतो नानुपाध्यायो न च वादाविचक्षणः।।

ततो यूपोच्छ्रये प्राप्ते षड् बैल्वान्भरतर्षभ।
खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः।।

देवदारुमयौ द्वौ तु यूपौ कुरुपतेर्मखे।
श्लेष्मातकमयं चैकं याजकाः समकल्पयन्।।

`सर्वानेतान्यथाशास्त्रं याजकाः समकारयन्।'
शोभार्थं चापरान्यूपान्काञ्चनान्भरतर्षभ।
स भीमः कारयामास धर्मराजस्य शासनात्।।

ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः।
महेन्द्रानुगता देवा यथा सप्तर्षिभिर्दिवि।।

इष्टकाः काञ्चनीश्चात्र चयनार्तं कृता विभो।
शुशुभे चयनं तच्च दक्षस्येव प्रजापतेः।।

चतुश्चित्यश्च तस्यासीदष्टादशकरात्मकः।
स रुक्मपक्षो निचितस्त्रिकोणो गरुडाकृतिः।।

ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः।
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये।।

ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये।
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि।।

यूपेषु नियता चासीत्पशूनां त्रिशती तथा।
अश्वरत्नोत्तरा यज्ञे कौन्तेयस्य महात्मनः।।

स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसंकुलः।
गन्धर्वगणसंकीर्णः शोभितोऽप्सरसां गणैः।।

स किंपुरुषसंकीर्णः किंनरैश्चोपशोभितः।
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः।।

तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजर्षभाः।
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु।।

नारदश्च बभूवात्र तुंबुरुश्च महाद्युतिः।
विश्वावसुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः।।

गन्धर्वा गीतकुशला नृत्येषु च विशारदाः।
रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेषु वै।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि एकोननवतितमोऽध्यायः।। 89 ।।