आश्वमेधिकपर्व
अध्यायः ८८
युधिष्ठिर उवाच।
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम्।
तन्मेऽमृतरसं पुण्यं मनो ह्लादयति प्रभो।।
बहूनि किल युद्धानि विजयस्य नराधिपैः।
पुनरासन्हृषीकेश तत्रतत्रेति न श्रुतम्।।
किंनिमित्तं स नित्यं हि पार्थः सुखविवर्जितः।
अतीव विजयो धीमानिति मे दूयते मनः।।
संचिन्तयामि कौन्तेयं रहो जिष्णुं जनार्दन।
अतीव दुःखभागी स सततं पाण्डुनन्दनः।।
किंनु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते।
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते।।
अतीवासुखभोगी स सततं कुन्तिनन्दनः।
न हि पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन।
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि।।
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम्।
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत्।।
न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये।
ऋते पुरुषसिंहस्य पिण्डिकेऽस्याधिके यतः।।
स ताभ्यां पुरुषव्याघ्रो नित्यमध्वसु वर्तते।
न चान्यदनुपश्यामि येनासौ दुःखभाजनम्।।
इत्युक्तः पुरुषश्रेष्ठस्तदा कृष्णेन धीमता।
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो।।
कृष्णा तु द्रौप्दी कृष्णं तिर्यक्सासूयमैक्षत
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा।
प्रख्युः सखा हृषीकेशः साक्षादिव धनंजयः।।
तत्र भीमादयस्ते तु करवो याजकाश्च ये।
रेमुः श्रुत्वा विचित्रां तां धनंजयकथां शुभाम्।।
तेषां कथयतामेव पुरुषोऽर्जुनसंकथाः।
उपायाद्वचनाद्दूतो विजयस्य महात्मनः।।
सोभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान्।
उपायातं नरव्याघ्रं फल्गुनं प्रत्यवेदयत्।।
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः।
प्रियाख्याननिमित्तं वै ददौ बहुधनं तदा।।
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत।
आगच्छति नरव्याघ्रे कौरवाणां धुरंधरे।।
ततो रेणुः समुद्भुतो विबभौ तस्य वाजिनः।
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा।।
तत्र हर्षकरीर्वाचो नराणां शुश्रुवेऽर्जुनः।
दिष्ट्याऽसि पार्थ कुशली धन्यो राजा युधिष्ठिरः।।
कोन्योहि पृथिवीं कृत्स्नां जित्वाहि युधि पार्थिवान्
चारयित्वा हयश्रेष्ठमुपागच्छेदृतेऽर्जुनात्।।
ये व्यतीता महात्मानो राजानः सगरादयः।
तेषामपीदृशं कर्म न कदाचन शुश्रुम।।
नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः।
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानसि।।
इत्येवं वदतां तेषां पुंसां कर्णसुखा गिरः।
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम्।।
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः।
धृतराष्ट्रं पुरस्कृत्य तं प्रत्युद्ययतुस्तदा।।
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः।
भीमादींश्चापि संपूज्य पर्यष्वजत केशवम्।।
तैः समेत्यार्चितस्तांश्च प्रत्यर्च्याथ यथाविधि।
विशश्राम महाबाहुस्तीरं लब्ध्वेव पारगः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि अष्टाशीतितमोऽध्यायः।। 88 ।।