आश्वमेधिकपर्व

अध्यायः ८७

Aswamedhika Parva (Sanskrit) · Adhyaya 87
अक्षर का आकार

समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान्।
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमभाषत।।

उपयाता नरव्याघ्रा य एते पृथिवीश्वराः।
एतेषां क्रियतां पूजा पूजार्हा हि नराधिपाः।।

इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना।
भीमसेनो महातेजा यमाभ्यां सह पाण्डवः।।

अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम्।
बलदेवं पुरस्कृत्य सर्वप्राणभूतां वरः।।

युयुधानेन सहितः प्रद्युम्नेन गदेन च।
निशठेनाथ सांबेन तथैव कृतवर्मणा।।

तेषामपि परां पूजां चक्रे भीमो महारथः।
विविशुस्ते च वेश्मानि रत्नवन्ति च सर्वशः।।

युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः।
अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम्।।

स तं प्रपच्छ कौन्तेयः पुनःपुनररिंदमम्।
धर्मजः शक्रजं जिष्णुं समाचष्ट जगत्पतिः।।

आगमद्द्वारकावासी समाप्तः पुरुषो नृप।
योऽद्राक्षीत्पाण्डवश्रेष्ठ बहुसङ्ग्रामकर्शितम्।।

समीपे च महाबाहुमाचष्ट च मम प्रभो।
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये।।

इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः।
दिष्ट्या स कुशली जिष्णुरुपायाति च माधव।।

यदिदं संदिदेशास्मिन्पाण्डवानां बलाग्रणीः।
तदाख्यातमिहेच्छामि भवता यदुनन्दन।।

इत्युक्तो धर्मराजेन वृष्ण्यन्धकपतिस्तदा।
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम्।।

इदमाह महाराज पार्थवाक्यं नरेश्वरः।
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम।।

आगमिष्यन्ति राजानः सर्वे वै कौरवर्षभ।
प्राप्तानां महतां पूजा कार्या ह्येतत्क्षमं हि नः।।

इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद।
तथा चात्ययिकं न स्याद्यदर्घाहरणेऽभवत्।।

कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम्।
राजद्वेषान्न नश्येयुरिमा राजन्पुनः प्रजाः।।

इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत्।
धनंजयस्य नृपते तन्मे निगदतः शृणु।।

उपयास्यति यज्ञं नो मणलूरपतिर्नृपः।
पुत्रो मम महातेजा दयितो बभ्रुवाहनः।।

तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत्।
स तु भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो।।

इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः।
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत्।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि सप्ताशीतितमोऽध्यायः।। 87 ।।