आश्वमेधिकपर्व

अध्यायः ८६

Aswamedhika Parva (Sanskrit) · Adhyaya 86
अक्षर का आकार

वैशम्पायन उवाच।

न्यवर्तत ततो वाजी येन नागाह्वयं पुरम्।
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः।
श्रुत्वाऽर्जुनं कुशलिनं स च हृष्टमनाऽभवत्।।

विजयस्य च तत्कर्म गान्धारविषये तदा।
श्रुत्वा चान्येषु देशेषु स सुप्रीतोऽभवत्तदा।।

एतस्मिन्नेव काले तु द्वादशीं माघमासिकीम्।
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः।।

समानीय महातेजाः सर्वान्भ्रातॄन्महीपतिः।
भीमं च नकुलं चैव सहदेवं च कौरव।।

प्रोवाचेदं वचः काले तदा धर्मभृतांवरः।
आमन्त्र्य वदतां श्रेष्ठो भीमं प्रहरतां वरम्।।

आयाति भीमसेनासौ सहाश्वेन तवानुजः।
यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः।।

उपस्थितश्च कालोऽयमभितो वर्तते हयः।
माघी च पौर्णमासीयं मासः शेषो वृकोदर।।

तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः।
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम्।।

इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम्।
हृष्टः श्रुत्वा गुडोकेशमायान्तं पुरुषर्षभम्।।

ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह।
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मणि।।

तं ससालचयं श्रीमत्सप्रतोलीसुघट्टितम्।
मापयामास कौरव्यो यज्ञवाटं यताविधि।।

प्रासादशतसम्बन्धं मणिप्रवरकुट्टिमम्।
`सदः स पत्नीसदनं साग्नीध्रमपि चोत्तरम्।'
कारयामास विदिवद्धेमरत्नविभूषितम्।।

स्तंभान्कनकचित्रांश्च तोरणानि बृहन्ति च।
यज्ञायतनदेशेशु दत्त्वा शुद्धं च काञ्चनम्।।

अन्तःपुराणां राज्ञां च नानादेशसमीयुषाम्।
कारयामास धर्मात्मा तत्रतत्र यथाविधि।।

ब्राह्मणानां न वेश्मानि नानादेशसमीयुषाम्।
कारयामास कौन्तेयो विधिवत्तान्यनेकशः।।

तथा सम्प्रेषयामास दूतान्नृपतिशासनात्।
भीमसेनो महाबाहो राज्ञामक्लिष्टकर्मणाम्।।

ते प्रियार्थं कुरुपतेराययुर्नृपसत्तम।
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च।।

तेषां निर्विशतां तेषु शिबिरेषु महात्मनाम्।
नर्दतः सागरस्येव दिवस्पृगभवत्स्वनः।।

`प्रत्युद्गम्य नमस्कृत्य ब्राह्मणांश्च न्यवेदयत्।।'

तेषामभ्यागतानां च स राजा कुरुवर्धनः।
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः।।

वाहनानां च विविधाः शालाः शालीक्षुगोरसैः।
उपेता भरतश्रेष्ठो व्यादिदेश स धर्मराट्।।

`वर्णाः पृथक्सन्निविष्टा ह्युत्तरोत्तरपूजिताः'।
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः।
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः।।

ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते।
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः।।

सर्वांश्च ताननुययौ यावदावसथान्प्रति।
स्वयमेव महातेजा दंभं त्यक्त्वा युधिष्ठिरः।।

ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा।
कृत्स्नं यज्ञविधिं राजन्धर्मराजे न्यवेदयन।।

तच्छ्रुत्वा धर्मराजस्तु कृतं सर्वमतन्द्रितः।
हृष्टरूपोऽभवद्राजन्सह भ्रातृभिरादृतः।।

तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः।
हेतुवादान्बहूनाहुः परस्परजिगीषवः।।

ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्।
देवेन्द्रस्येव विहितं भीमसेनेन भारत।।

ददृशुस्तोरणान्यत्र शातकुंभमयानि ते।
शय्यासनविहारांश्च सुबहून्रत्नसंचयान्।।

घटान्पात्रीः कटाहानि कलशान्वर्धमानकान्।
न हि किञ्चिदसौवर्णमपश्यन्वसुधाधिपाः।।

यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान्।
उपक्लृप्तान्यथाकालं विधिवद्भूरिवर्चसः।।

स्थलजाक जलजा ये च पशवः केचन प्रभो।
सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः।।

गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोपि च।
औदकानि च सत्वानि श्वापदानि वयांसि च।।

जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च।
पर्वतानूपजातानि भूतानि ददृशुश्च ते।।

एवं प्रमुदितं सर्वं पशुगोधनधान्यतः।
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागताः।।

`अनिशं दीयते च स्म तत्र भोज्यं पृथग्विधम्।।'
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत्।।

पूर्णे शतसहस्रे तु विप्राणां तत्रि भुञ्जताम्।
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत।
विननादासकृच्चापि दिवसेदिवसे गते।।

एवं स ववृते यज्ञो धर्मराजस्य धीमतः।
अन्नस्य सुबहून्राजन्नुत्सर्गान्पर्वतोपमान्।
दधिकुल्याशअच ददृशुः सर्पिषश्च ह्रदाञ्जनाः।।

जंबूद्वीपो हि सकलो नानजनपदायुतः।
राजन्नदृस्यतैकस्थो राज्ञस्तस्य महामखे।।

तत्र जातिसहस्राणि पुरुषाणां ततस्ततः।
गृहीत्वा धमाजग्मुर्बहूनि भरतर्षभ।।

स्रग्विणश्तापि ते सर्वे सुमुष्टमणिकुण्डलाः।
पर्यवेषन्द्विजातींस्ताञ्शतशोऽथ सहस्रशः।।

विविधान्यन्नपानानि पुरुषा येऽनुयायिनः।
ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि षडशीतितमोऽध्यायः।। 86 ।।