आश्वमेधिकपर्व
अध्यायः ८५
वैशम्पायन उवाच।
शकुनस्तनयो वीरो गान्धाराणां महारथः।
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः।
हस्त्यश्वरथयुक्तेन पताकाध्वजमालिना।।
अमृष्यमाणास्ते योधा नृपस्य शकुनेर्वधम्।
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः।।
स तानुवाच धर्मात्मा बीभत्सुरपराजितः।
युधिष्टिरस्य वचनं न च ते जगृहुर्हितम्।।
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः।
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः।।
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः।
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः।।
ते वध्यमानाः पार्थेनि हयमुत्सृज्य संप्रमात्।
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम्।।
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डुनन्दनः।
आदिस्यादिश्य तेजस्वी परानेतानवारयत्।।
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः।
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत्।।
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम्।
पार्थोऽब्रवीन्न मे वध्या राजानो राजसासनात्।।
अलं युद्धेन ते वीर न तेऽस्त्वद्य पराजयः।
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः।
स शक्रसमकर्माणं समावाकिरदाशुगैः।।
तस्य् पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा।
अपाहरदमेयात्मा जयद्रथशिरो यथा।।
तं दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते।
इच्छता तेन न हतो राजेत्यपि च ते विदुः।।
गान्धारराजपुत्रस्तु पलायनकृतक्षणः।
ययौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव।
तेषां तु तरसा पार्थस्तत्रैव परिदावताम्।
प्रजहारोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः।।
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान्।
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः।।
सम्भ्रान्तनरनागाश्वमपतद्विद्रुतं बलम्।
हतविद्रुतभूयिष्ठमावर्तत मुहुर्मुहुः।।
नाभ्यदृस्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः।
रिपवः पात्यमाना वै ये सहेरन्महाशरान्।।
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा।
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम्।।
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम्।
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम्।।
तां पूजयित्वा बीभत्सुः प्रसादमकरोत्प्रभुः।
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत्।।
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता।
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ।।
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च।
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव।।
मैवं भूः शाम्यतां वैरं मा तेऽभूद्बुद्धिरीदृशी
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः।।
इत्युक्त्वाऽनुययौ पार्थो हयं तं कामचारिणम्।
ते न्यवर्तन्त गान्धारा हतशिष्टाः स्वकं पुरम्।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि पञ्चाशीतितमोऽध्यायः।। 85 ।।