आश्वमेधिकपर्व
अध्यायः ८४
वैशम्पायन उवाच।
मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः।
दक्षिणां दिशमास्थाय चारयामास तं हयम्।।
ततः स पुनरावर्त्य हयः कामचरो बली।
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम्।।
शरभेणार्चितस्तत्र शिशुपालसुतेन सः।
युद्धपूर्वं तदा तेन पूजया च महाबलः।।
ततोऽर्चितो ययौ राजंस्तदा स तुरगोत्तमः।
काशीनङ्गान्कोसलांश्च किरातानाथ तङ्गणात्।।
पूजां तत्र यथान्यायं प्रतिगृह्य धनंजयः।
पुनरावृत्त्य कौन्तेयो दशार्णानगमत्तदा।।
तत्र चित्राङ्गदो नाम बलवानरिमर्दनः।
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम्।।
तं चापि वशमानीय किरीटी पुरुषर्षभः।
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान्।।
एकलव्यसुतश्चैनं युद्धेनि जगृहे तदा।
तत्र चक्रे निषादैः स सग्रामं रोमहर्षणम्।।
ततस्तमपि कौन्तेयः समरेष्वपराजितः।।
जिगाय युधि दुर्धर्षो यज्ञविघ्नार्थमागतम्।।
स तं जित्वा महाराज नैषादिं पाकशासनिः।
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम्।।
तत्रापि द्रवीडैरान्ध्रै रौद्रैर्माहिषकैरपि।
तथा कोल्लगिरेयैश्च युद्धमासीन्किरीटिनः।।
तांश्चापि विजयो जित्वा नातितीव्रेण कर्मणा।
तुरङ्गमवशेनाथ सुराष्ट्रानभितो ययौ।
गोकर्णमथ चासाद्य प्रभासमपि जग्मिवान्।।
ततो द्वारवतीं रम्यां वृष्णिवीराभिपालिताम्।
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः।।
तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः।
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत्।।
ततः पुराद्विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा।
सहितो वासुदेवेन मातुलेन किरीटिनः।।
तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम्।
परया भारतश्रेष्ठं पूजया समवस्थितौ।
ततस्ताभ्यामनुज्ञातो यतयौ येन हयो गतः।।
ततः स पश्चिमं देशं समुद्रस्य तदा हयः।
क्रमेणि व्यचरत्स्फीतं ततः पञ्चनदं ययौ।।
तस्मादपि स कौरव्य गन्धारविषयं हयः।
विचचार यथाकामं कौन्तेयानुगतस्तदा।।
ततो गान्धारराजेन युद्धमासीत्किरीटिनः।
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि चतुरशीतितमोऽध्यायः।। 84 ।।