आश्वमेधिकपर्व

अध्यायः ८१

Aswamedhika Parva (Sanskrit) · Adhyaya 81
अक्षर का आकार

वैशम्पायन उवाच।

प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा।
पितृशोकसमाविष्टे सह मात्रा परंतप।।

उलूपी चिन्तयामास तदा संजीवनं मणिम्।
स चोपातिष्ठत तदा पन्नगानां परायणम्।।

तं गृहीत्वा तु कौरव्य नागराजपतेः सुता।
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत्।।

उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया हतः।
अजेयः पुरुषैरेष तथा देवैः सवासवैः।।

मया तु मोहनी नाम मायैषा सम्प्रदर्शिता।
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः।।

जिज्ञासुर्ह्येष पुत्रस्य बलस्य तव कौरव।
सङ्ग्रामे युद्ध्यतो राजन्नागतः परवीरहा।।

तस्मादसि मया पुत्र युद्धाय परिचोदितः।
मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो।।

ऋषिरेष महानात्मा पुराणः शाश्वतोऽक्षरः।
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक।।

अयं तु मे मणिर्दिव्यः समानीतो विशांपते।
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा।।

एनमस्योरसि त्वं च स्थापयस्व पितुः प्रभो।
संजीवितं तदा पार्थं स त्वं द्रष्टासि पाण्डवम्।।

इत्युक्तः स्थापयामास तस्योरसि मणिं तदा।
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत्।।

तस्मिन्न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः।
चिरसुप्त हवोत्तस्थौ मृष्टलोहितलोचनः।।

तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम्।
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः।।

उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो।
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः।।

अनाहता दुन्दुभयो विनेदुर्मघनिःस्वनाः।
साधुसाध्विति चाकाशे बभूव सुमहान्स्वनः।।

उत्थाय च महाबाहुः पर्याश्वस्तो धनंजयः।।
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि।।

ददर्श चापि दूरेऽस्य मातरं शोककर्शिताम्।
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः।।

किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत्।
रणाजिरममित्रघ्न यदि जानासि शंस मे।।

जननी च किमर्थं ते रणभूमिमुपागता।
नागेन्द्रदुहिता चेयमुलूपी किमिहागता।।

जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम्।
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम्।।

तमुवाच तथा पृष्टो मणिपूरपतिस्तदा।
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि एकाशीतितमोऽध्यायः।। 81 ।।