आश्वमेधिकपर्व

अध्यायः ८०

Aswamedhika Parva (Sanskrit) · Adhyaya 80
अक्षर का आकार

वैशम्पायन उवाच।

ततो बहुतरं भीरर्विलप्य कमलेक्षणा।
मुमोह दुःखसंतप्ता पपात च महीतले।।

प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा।
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत्।।

उलूपि पश्य भर्तारं शयानं नितं रणे।
त्वत्कृते मम पुत्रेण बाणेन समितिंजयम्।।

ननु त्वमार्यधर्मज्ञा ननु चासि पतिव्रता।
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे।।

किंनु मन्देऽपकराद्धोऽयं यदि तेऽद्य धनंजयः।
क्षमस्व याच्यमाना वै जीवयस्व धनंजयम्।।

ननु त्वमार्ये धर्मज्ञे त्रैलोक्यविदिता शुभे।
यद्धातयित्वा पुत्रेण भर्तारं नानुशोचसि।।

नाहं शोचामि तनयं हतं पन्नगनन्दिनि।
पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम्।।

इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम्।
भर्तारमभिगम्येदमित्युवाच यशस्विनी।।

उत्तिष्ठ कुरुमुख्यस्य प्रियमुख्य मम प्रिय।
अयमश्वो महाबाहो मयो ते परिमोक्षितः।।

ननु त्वया नाम विभो धर्मराजस्य यज्ञियः।
अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले।।

त्वयि प्राणा ममायत्ताः कुरूणां कुरुनन्दन।
स कस्मात्प्राणदोऽन्येषां प्राणान्संत्यक्तवानसि।।

उलूपि साधु पश्येमं पतिं निपतितं भुवि।
पुत्रं चेमं समुत्साद्य घातयित्वा न शोचसि।।

कामं स्वपितु बालोऽयं भूमौ मृत्युवशं गतः।
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु।।

नापराधोऽस्ति सुभगे नराणां बहुभार्यता।
प्रमदानां भवत्येष मा ते भूद्बुद्धिरीदृशी।।

सख्यं चैतत्कृतं धात्रा शश्वदव्ययमेव तु।
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते।।

पुत्रेम घातयित्वैनं पतिं यदि न मेऽद्य वै।
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम्।।

साऽहं दुःखान्विता देवि पतिपुत्रविनाकृता।
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः।।

इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहनी।
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप।।

ततो विलप्य विरता भर्तुः पादौ प्रगृह्य सा।
उपविष्टा भवद्दीना सोच्छ्वासं पुत्रमीक्षती।।

ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः।
मातरं तामथालोक्य रणभूमावथाब्रवीत्।।

इतो दुःखतरं किंनु यन्मे माता सुखैधिता।
भूमौ निपतितं वीरमनुशेते मृतं पतिम्।।

निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्।
मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत।।

अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते।
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम्।।

दुर्मरं पुरुषेणेह मन्ये काले ह्यनागते।
यत्र नाहं न मे माता न वियुक्तौ स्वजीवितात्।।

हाहा धिक्कुरुवीरस्य किरीटं काञ्चनं भुवि।
अपविद्धं हतस्येह मया पुत्रेम पश्यत।।

भोभो पश्यत मे वीरं पितरं ब्राह्मणा भुवि।
शयानं वीरशयने मया पुत्रेण पातितम्।।

ब्राह्मणाः कुरुमुख्यस्य ये मुक्ता हयसारिणः।
कुर्वन्ति शान्तिं कामस्य रणे योऽयं मया हतः।।

व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे।
आनृशंसस्य पापस्य पितृहन्तू रणाजिरे।।

दुश्चरा द्वादश समा हत्वा पितरमद्य वै।
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा।।

शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे।
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाऽद्य पितरं मम।।

पश्य नागोत्तमसुते भर्तारं निहतं मया।
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम्।।

सोऽहमद्य गमिष्यामि गतिं पितृनिषेविताम्।
न शक्नोम्यात्मनाऽऽत्मानमहं दारयितुं शुभे।।

सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि।
भव प्रीतिमती देवि सत्येनात्मानमालभे।।

इत्युक्त्वा स ततो राजा दुःखशोकसमाहतः।
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत्।।

शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च।
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे।।

यदि नोत्तिष्ठति जयः पिता मे नरसत्तमः।
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम्।।

नहि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्।
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः।।

वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते।
पितरं तु निहत्यैवं दुर्लभा निष्कृतिर्मम।।

एत एको महातेजाः पाण्डुपुत्रो धनंजयः।
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः।।

इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः।
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि अशीतितमोऽध्यायः।। 80 ।।