आश्वमेधिकपर्व
अध्यायः ८२
अर्जुन उवाच।
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि।
मणलूरपतेर्मातुस्तथैव च रणाजिरे।।
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे।
मम वा चपलापाङ्गि कच्चित्वं शुभमिच्छसि।।
कच्चित्ते पृथुलश्रोणि नाप्रियं प्रियदर्शने।
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः।।
कच्चिन्नु राजपूत्री ते सपत्नी चैत्रवाहनी।
चित्राङ्गदा वरारोहा नापराध्यति किञ्चन।।
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ।
न मे त्वमपराद्धोसि न हि मे बभ्रुवाहनः।
न जनित्री तथाऽस्येयं मम यो प्रेष्यवत्थिता।।
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम्।
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये।।
त्वत्प्रियार्थं हि कौरव्य कृतमेतन्मया विभो।
यत्तच्छृणु महाबाहो निखिलेन धनंजय।।
महाभारतयुद्धे यत्त्वया शान्तनवो नृपः।
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता।।
न हि भीष्मस्त्वया वीर युद्ध्यमानो हि पातितः।
शिखण्डिना तु संयुक्तस्तमाश्रित्य हतस्त्वया।।
तस्य शान्तिमकृत्वा त्वं त्यजेथा यदि जीवितम्।
कर्मणा तेन पापेन पतेथा निरये ध्रुवम्।
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि।।
वसुभिर्वसुधापाल गङ्गया च महामते।
पुरा हि श्रुतमेतत्ते वसुभिः कथितं मया।।
गङ्गायास्तीरमाश्रित्य हते शान्तनवे नृप।
आप्लुत्य देवा वसवः समेत्य च महानदीम्।
इदमूचुर्वचो घोरं भागीरथ्या मते तदा।।
एष शान्तनवो भीष्मो निहतः सव्यसाचिना।
अयुद्ध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि।।
तदनेनानुषङ्गेण वयमद्य धनञ्जयम्।
शापेन योजयामेति तथाऽस्त्विति च साऽब्रवीत्।।
तदहं पितुरावेद्य प्रविश्य व्यथितेन्द्रिया।
अभवं स च तच्छ्रुत्वा विषादमगमत्परम्।।
पिता तु मे वसून्गत्वा त्वदर्थे समयाचत।
पुनः पुनः प्रसाद्यैतांस्त एनमिदमब्रुवन्।।
पुत्रस्तस्य महाभाग मणलूरेश्वरो युवा।
स एनं रणमध्यस्थः शरैः पातयिता भुवि।।
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति।
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः।।
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः।
न हि त्वां देवराजोऽपि समरेषु पराजयेत्।।
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः।
न हि दोषो मम मतः कथं वा मन्यसे विभो।।
इत्येवमुक्तो विजयः प्रसन्नात्माऽब्रवीदिदम्।
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि।।
इत्युक्त्वा सोऽब्रवीत्पुत्रं मणलूरपतिं जयः।
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तदा।।
युधिष्ठिरस्याश्वमेधः परिचैत्रीं भविष्यति।
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप।।
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः।
उवाच पितरं धीमानिदमस्राविलेक्षणः।।
उपयास्यामि धर्मज्ञ भवतः सासनादहम्।
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः।।
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम्।
भार्याभ्यां सह धर्मज्ञ माभूत्तेऽत्र विचारणा।।
उषित्वेह निशामेकां सुखं स्वभवने प्रभो।
पुनरश्वानुगमनं कर्तासि जयतांवर।।
इत्युक्ताः स तु प्रत्रेण तदा वानरकेतनः।
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम्।।
विदितं ते महाबाहो यथा दीक्षां चराम्यहम्।
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन।।
यथाकामं व्रजत्येष यज्ञियाश्वो नरर्षभ।
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम।।
वैशम्पायन उवाच।
स तत्र विधिवत्तेन पूजितः पाकशासनिः।
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि द्व्यशीतितमोऽध्यायः।। 82 ।।