आश्वमेधिकपर्व
अध्यायः ७९
वैशम्पायन उवाच।
श्रुत्वा तु नृपतिः प्राप्तं पितरं बभ्रुवाहनः।
निर्ययौ विनयेनाथ ब्राह्मणार्यपुरःसरः।।
मणलूरेश्वरं त्वेवमुपयातं धनंजयः।
नाभ्यनन्दत्स मेधावी क्षत्रधर्ममनुस्मरन्।।
उवाच च स धर्मात्मा समन्युः फल्गुनस्तदा।
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः।।
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम्।
यज्ञियं विषयान्ते मां नायोत्सीः किंनु पुत्रक।।
धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम्।
यो मां युद्धाय सम्प्राप्तं साम्नैव प्रत्यगृह्णथाः।।
न त्वया पुरुषार्थो हि कश्चिदस्तीह जीवता।
यस्त्वं स्त्रीवद्युधा प्राप्तं मां साम्ना प्रत्यगृह्णथाः।।
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते।
प्रक्रियेयं भवेद्युक्ता तावतव नराधम।।
तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा।
अमृष्यमाणा भित्त्वोर्वीमुलूपी समुपागमत्।।
सा ददर्श तत पुत्रं विमृशन्तमधोमुखम्।
संतर्ज्यमानमसकृत्पित्रा युद्धार्थिना विभो।।
ततः सा चारुसर्वाङ्गी समुपेत्योरगात्मजा।
उलूपी प्राह वचनं क्षत्रधर्मविशारद।।
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम्।
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः।।
युध्यस्वैनं कुरुश्रेष्ठं धनंजयमरिन्दमम्।।
एवमेष हि ते प्रीतो भविष्यति न संशयः।।
एवमुद्धार्षितो राजा स मात्रा बभ्रुवाहनः।
मनश्चक्रे महातेजा युद्धाय भरतर्षभ।।
सन्नह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत्।
तूणीरशतसंबाधमारुरोह रथोत्तमम्।।
सर्वोपकरणोपेतं युक्तमश्वैर्मनोजवैः।
सचक्रोपस्करं श्रीमान्हेमभाण्डपरिष्कृतम्।।
परमार्चितमुच्छ्रित्य ध्वजं हंसं हिरण्मयम्।
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः।।
ततोऽभ्योत्य हयं वीरो यज्ञियं पार्थरक्षितम्।
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः।।
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः।
पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे।।
स तत्र राजा तं वीरं शरसङ्घैरनेकशः।
अर्दयामास निशितैराशीविषविषोपमैः।।
तयोः समभवद्युद्धं पितुः पुत्रस्यक चातुलम्।
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः।।
किरीटिनं प्रविव्याघ शरेणानतपर्वणा।
जत्रुदेशे नरव्याघ्रं प्रहसन्बभ्रुवाहनः।।
सोभ्यगात्सहपुङ्खेन वल्मीकमिव पन्नगः।
विनिर्भद्य च कौन्तेयं प्रविवेशि महीतलम्।।
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम्।
दिव्यं तेजः समाविश्य प्रमीत इव सोभवत्।।
स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः।
पुत्रं शक्रात्मजो वाक्यमिदमाह महाद्युतिः।।
साधुसाधु महाबाहो वत्स चित्राङ्गदात्मज।
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक।।
विमुञ्चाम्येष ते बाणान्पुत्र युद्धे स्थिरो भव।
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा।।
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान्।
नाराचानच्छिनद्राज भल्लैः सर्वांस्त्रिधा द्विधा।।
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम्।
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात्।।
हयांश्चास्य महाकायान्महावेगानरिंदम।
चकार राजन्निर्जावान्प्रहसन्निव पाण्डवः।।
स रथादवतीर्याथ राजा परमकोपनः।
पदातिः पितरं क्रुद्धो योधयामास पाण्डवम्।।
सम्प्रीयमाणः पार्थानामृषभः पुत्रविक्रमात्।
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः।।
स हन्यमानोऽभिमुखं पितरं बभ्रुवाहनः।
शरैराशीविषाकारैः पुनरेवार्दयद्बली।।
ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा।
निशेतेन सुपुङ्खेन बलवद्बभ्रुवाहनः।।
स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः।
विवेश पाण्डवं राजन्मर्म भित्त्वाऽतिदुःखकृत्।।
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः।
महीं जगाम मोहार्तस्ततो राजन्धनंजयः।।
तस्मिन्निपतिते वीरे कौरवाणां धुरंधरे।
सोपि मोहं जगामाथ ततश्चित्राङ्गदासुतः।ष
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम्।
पूर्वमेव स बाणौर्घर्गाढविद्धोऽर्जुनेन ह।
पपात सोपि धरणीमालिङ्ग्य रणमूर्धनि।।
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि।
चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरे।।
शोकसंतप्तहृदया रुदती वेपती भृशम्।
मणलूरपतेर्माता ददर्श निहतं पतिम्।।
।। इति श्रीमन्महाभारते आश्वमेधकपर्वणि
अनुगीतापर्वणि एकोनाशीतितमोऽध्यायः।। 79 ।।