आश्वमेधिकपर्व
अध्यायः ७८
वैशम्पायन उवाच।
ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः।
विबभौ युधि दुर्धर्षो हिमवानचलो यथा।।
ततस्ते सैन्धवा योधाः पुनरेव व्यवस्थिताः।
व्यमुञ्चन्त सुसंरब्धाः शरवर्षाणि भारत।।
तान्प्रहस्य महाबाहुः पुनरेव व्यवस्थितान्।
ततः प्रोवाच कौन्तेयो मुमूर्षञ्श्लक्ष्णया गिरा।।
युध्यध्वं परया शक्त्या यतध्वं विजये मम।
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम्।।
एष योत्स्यामि सर्वांस्तु निवार्य शरवागुराम्।
तिष्ठध्वं युद्धमनसो दर्पं शमयितास्मि वः।।
एतावदुक्त्वा कौरव्यो रोषाद्गाण्डीवभृत्तदा।
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत।।
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः।
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना।
चिन्तयामास स तदा फल्गुनः पुरुषर्षभः।।
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति।
कथितं न मृषेदं स्याद्धर्मराजवचः शुभम्।।
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत्।
इति सञ्चिन्त्य स तदा फल्गुनः पुरुषर्षभः।।
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान्।
बालांस्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान्।।
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः।
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः।।
ततोऽन्यथा कृच्छ्रगता भविष्यथ मयाऽर्दिताः।
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः।।
अत्वरावानसम्भ्रान्तः संक्रुद्धैर्विजिगीषुभिः।
शतं शतसहस्राणि शराणां नतपर्वणाम्।।
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि।
शरानापततः क्रूरानाशीविषविषोपमान्।
चिच्छेद निशितैर्बाणैरन्तरा स धनंजयः।।
छित्त्वा तु तानाशु चैव कङ्कपत्राञ्शिलाशितान्।
एकैकमेषां समरे बिभेद निशितैः शरैः।।
ततः प्रास्रांश्च शक्तीस्च पुनरेव धनंजये।
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः।।
तेषां किरीटी सङ्कल्पं मोघं चक्रे महाबलः।
सर्वांस्तानन्तरा च्छित्त्वा तदा चुक्रोश पाण्डवः।
तथैवापततां तेषां योधानां जयगृद्धिनाम्।
तथैवापततां तेषां योधानां यजगृद्धिनाम्।
शिरांसि पातयामास भल्लैः सन्नतपर्वभिः।।
तेषां प्रद्रवतां चापि पुनरेवाभिधावताम्।
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः।।
ते वध्यमानास्तु तदा पार्थेनामिततेजसा।
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम्।।
ततस्ते फल्गुनेनाजौ शरैः सन्नतपर्वभिः।
कृता विसंज्ञा भूयिष्ठा क्लान्तवाहनसैनिकाः।।
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा।
दुःशला बालमादाय नप्तारं प्रययौ तदा।।
सुरथस्य सुतं वीरं रथेनाथागमत्तदा।
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम्।।
सा धनंजयमासाद्य रुरोदार्तस्वरं तदा।
धनंजयोपि तां दृष्ट्वा धनुर्विससृजे प्रभुः।।
समुत्सृज्य धनुः पार्थो विधिवद्भगिनी तदा।
प्राह किं करवाणीति सा च तं प्रत्युवाच ह।।
एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः।
अभिवादयते पार्थ तं पश्य पुरुषर्षभ।।
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तथा।
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत्।।
पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता।
पञ्चत्वमगमद्वीरो यथा तन्मे निशामय।।
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ।
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम्।
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय।।
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ।
विषादार्तः पपातोर्व्यां ममार च ममात्मजः।।
तं दृष्ट्वा पतितं तत्र ततस्तस्यात्मजं प्रभो।
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैपिणी।।
इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा।
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम्।।
स्वसारं समवेक्षस्व स्वस्रीयात्मजमेव च।
कर्तुमर्हसि धर्मज्ञ दयां कुरुकुलोद्वह।
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम्।।
अभिमन्योर्यथा जातः परिक्षित्परवीरहा।
तथाऽयं सुरथाज्जातो मम पौत्रो महाभुज।।
तमादाय नरव्याघ्र सम्प्रप्तास्मि तवान्तिकम्।
शमार्थं सर्वयोधानां शृणु चेदं वचो मम।।
आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रकः।
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि।।
एष प्रसाद्य शिरसा प्रशमार्थमरिंदम।
याचते त्वां महाबाहो शमं गच्छ धनंजय।।
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः।
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः।।
तमनार्थं नृशंसं च विस्मृत्यास्य पितामहम्।
आगस्कारिणमत्यर्तं प्रसादं कर्तुमर्हसि।।
एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः।
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम्।
उवाच दुःखशोकार्तः क्षत्रधर्मं व्यगर्हयत्।।
`धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम्।'
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम्।।
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः।
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति।।
दुःशला चापि तान्योधान्निवार्य महतो रणात्।
सम्पूज्य पार्थं प्रययौ गृहानेव शुभानना।।
एवं निर्जित्य तान्वीरान्सैन्धवान्स धनंजयः।
अन्वधावत धावन्तं हयं कामविचारिणम्।।
ततो मृगमिवाकाशे यथा देवः पिनाकधृक्।
ससार तं तथा वीरो विधिवद्यज्ञियं हयम्।।
स च वाजी यथेष्टेन तांस्तान्देशान्यथाक्रमम्।
विचचार यथाकामं कर्म पार्थस्य वर्धयन्।।
क्रमेण स हयस्त्वेवं विचरन्पुरुषर्षभ।
मणलूरपतेर्देशमुपायात्सहपाण्डवः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि अष्टसप्ततितमोऽध्यायः।। 78 ।।